यो ह वै यज्ञे यज्ञं वेद..
अथ चतुर्थखण्डः
स्तोम-- साम-चिति - छन्द:- :शस्त्रेषु भगवद्रूपाभिधानम्, स्तोमस्य पाञ्चविध्यकथनपूर्वकं तत्स्थभगवद्रूपाभिधानम्
उपनिषत्
यो ह वै यज्ञे यज्ञं वेद, अहन्यहर्देवेषु देवमध्यूळ्हं स सम्प्रतिवित् । एष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोऽध्यूळ हो यदेतन्महदुक्थम् । तदेतत्पञ्चविधम् । त्रिवृत्पञ्चदशं सप्त- दशमेकविंशं पञ्चविंशमिति स्तोमतः । गायत्रं रथन्तरं बृहद्भद्रं राजनमिति सामतः | गायत्र्युष्णिम्बृहती- त्रिष्टुद्विपदेति छन्दस्तः । शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम् ।
यज्ञादिशब्दनिर्वचनं तत्स्थभगवद्रूपोपासनफलकथनम् च
भाष्यम्
यज्ञेषु यज्ञनामानं याज्यत्वात् पुरुषोत्तमम् । अधिरूढं तथाऽहस्सु चाहर्नामानमेव तु ।।अहार्यत्वाद्धि देवेषु देवं सर्वोत्तमत्त्वतः । एवं च सर्वनामानं सर्वेषु स्थितमच्युतम् ॥ स्तोमादिषु च यो वेद स सम्यग्विदिति श्रुतः । य एष उक्थनामाऽसौ सर्वोत्थापनको हरिः ।। महांश्च परिपूर्णत्वात् सहस्रबृहतीस्थितः । अहरह्नां स यज्ञानां यज्ञो देवाधिकोऽपि सः ।। अनिरुद्धादिरूपेण स विष्णुः पञ्चधा स्थितः । स्तोमसामाचितिच्छन्दःशस्त्रेष्वपि पृथक् पृथक् । एकैकमेव तद्रूपमनिरुद्धादिपञ्चकम् ।।
भावप्रदीप:
'यो ह वै यज्ञे यज्ञं वेद' इत्येतत्खण्डं व्याचष्टे - यज्ञेष्वित्यादिना ।। यज्ञेषु अहस्सु देवेषु चाधिरूढमिति संबन्धः । यज्ञेष्वहस्स्वित्यनेन यज्ञे अहनीत्येकवचनं समुदायापेक्षमित्यभिप्रैति । याज्यत्वाद्यज्ञ- नामानं । स्वपदादहार्यत्वादहर्नामानम् । सर्वोत्तमत्वतो देवं देवना- मानम् । एवं च एवमेव । स्तोमादिषु सर्वेषु स्तोमसामचिति- छन्दःशस्त्रेषु च स्थितं सर्वनामानं तत्तन्नामानमच्युतं यो वेद सम्य- विदित्यर्थः | एवं चेत्यनेन ' तदेतत्पञ्चविधं' इत्यारभ्य 'पुच्छमात्मेत्याख्यानं' इत्यस्य तात्पर्यमुक्तं भवति । यदेतन्मह- दुक्थं' इत्यंशं व्याचष्टे – य एष इति ।। य एष उक्थनामा हरिरसौ परिपूर्णत्वान्महांश्चेत्यन्वयः उक्थनामकबृहतीसहस्रस्थितत्वात् रूढ्याऽप्युक्थनामा भगवानित्यभिप्रेत्याह- सहस्रबृहतीस्थित इति ॥ 'एष वै यज्ञे यज्ञोऽहन्यहः' इत्यादि व्याचष्टे - अहरह्नामिति ।। स महदुक्थनामा विष्णुरह्नां समुदाये स्थित्वा तेषामहस्त्वप्रद इत्यर्थः । एवं यज्ञानां यज्ञ इत्येतदपि व्याख्येयम् । 'देवेषु देवः' इत्यस्य तात्पर्यम् - देवाधिक इति । एतेन 'यदेतन्महदुक्थं' इति वाक्यस्य 'एष वै यज्ञे यज्ञः' इत्यादिपूर्ववाक्येनान्वयमभिप्रैति । 'तदेतत्पञ्चविधं' इति वाक्यं व्याचष्टे - अनिरुद्धादिरूपेणेति ॥ 'पृथक् पृथक्' इति स्तोमदिषु पञ्चषु प्रत्येकं त्रिवृत्पञ्चदशं गायत्रं रथन्तरमित्यादिरूपेण पञ्चधा स्थित इत्यर्थः । न केवलं स्तोमादिषु पञ्चधा स्थितः किन्तु तत्र पृथक् पृथगपि पञ्चधास्थित इत्यपिशब्दः । एतदेव विवृणोति एकैकमिति ॥ तद्रूपं अनिरुद्धादिक- मनिरुद्धादिपञ्चकं भवतीत्यर्थः ।।
अयं भावः । स्तोमेऽनिरुद्धः, स पञ्चविधः । अनिरुद्धानिरुद्धः, अनिरुद्धप्रद्युम्नः, अनिरुद्धसंकर्षणः, अनिरुद्धवासुदेवः, अनिरुद्ध- नारायण इति । एवं पञ्चरूपोऽनिरुद्धस्त्रिवृदादिपञ्चविधे स्तोमे क्रमेणास्थितः । एवं प्रद्युम्नादयोऽपि प्रद्युम्नानिरुद्ध इत्यादिभेदेन पञ्चात्मानो भूत्वा यत्र्यादिपञ्चविधसामादिषु क्रमेण स्थिता इति ।।
'अत्र शिरो दक्षिणः पक्षः उत्तरपक्षः पुच्छामात्मेत्याख्यानं' इति वाक्यं चिति शस्त्रयोरुभयोरपि सङ्ग्रहेण पांचविध्यनिरूपकमिति भावेन चितिशस्त्रयोः पृथग्ग्रहणम् । चितिः शेनाकारा वेदिका । शस्त्रं मन्त्रसहस्रम् ।।