प्रत्यक्षज्ञानिनोऽप्येतदातनन्दह्रासकृद्भवेत्
तदप्येतदृषिणोक्तम्-यस्तित्याज सचिविदं सखायं ..
मुख्यत्यागो हरेरेव यन्नास्तीति वदेदमुम्
रमाब्रह्मादिकानां च तारतम्यानभिज्ञता
निषिद्धकर्मकरणं विहितस्य च वर्जनम्
त्यागद्वयात् तु प्रथमात् प्राप्यतेऽन्धं तम क्रमात्
पुनरावृत्तिहीनं तु तमोऽन्धं मुक्तिरेव च
ऋग्भिः षड्भिर्वायुरेव पवमानादिनामकः
यत्र ब्रह्मेति षड्भिश्च प्रार्थनीयः स मारुतः
अपमृत्युभयं तस्य यदन्तीत्यृग्जपाद् व्रजेत्
इष्टप्रदानशीलत्वादिन्दुर्वायुः स एव च
अथापि यत्र छिद्र इवादित्यो दृश्यते..
शरीरपुरुषादीनां प्राप्यत्वात् तदुपास्यत्वात् ..
वासेन रमयतीति वासरं विष्णुर्ज्योतिः
अनन्यहेतुकं साक्षाद्भगवद्भक्तिरूपकम्
अर्चिषोंऽशा वर्तुलास्तु नाम्ना वटरका: स्मृता..
रात्र्यास्तु देवता दुर्गा दुःस्वप्ने सा प्रपूजिता
बहुभिर्नयनैर्विष्णुर्बहुधेदं ददर्श ह
ऊरीकृतप्रमाणत्वाद्र्म्यः स भगवान् हरिः
कृष्णं व्यक्तं तमोऽज्ञानमज्ञानां पेशलं हि तत्
द्यौरिति ज्ञानमुद्दिष्टं तद्व्यङ्ग्यत्वात् जनार्दनः
यदन्तीत्याद्युचः सर्वा अपि दुःस्वप्रदर्शने
प्रत्यक्षज्ञानिनोऽप्येतदातनन्दह्रासकृद्भवेत्
अथ तृतीयारण्यके द्वितीयोऽध्यायः चतुर्थ: खण्ड:
अयोग्योपदेशेऽपरोक्षज्ञानिनोऽपि आनन्दहासः किमुत अज्ञानिनः
भाष्यम्
प्रत्यक्षज्ञानिनोऽप्येतदातनन्दह्रासकृद्भवेत् । प्रत्यक्षज्ञानिनो मोक्षो न कथञ्चिद्धि हीयते ॥ आचार्यमेव तं विद्याद् गुणैर्यः स्वात्मनोऽधिकः । गुणाधिकस्य तेनैव शंसनादि न दुष्यति ।।अयोग्यस्योपदेशे तु कृते हौत्रादिकेऽपि वा । प्रायश्चित्तार्थमेतत्तु शंसीत शतवारकम् ॥ अन्यथा मानुषेष्वेव जायते न दिवं व्रजेत् । योग्या अस्याश्व विद्याया देवा ऋषय एव च ॥ एकदेशज्ञानयोग्या मानुषा उत्तमा यदि ।।
भावप्रदीप:
ननु कथमस्य न श्रुतेः फलमिति युज्यते । अपरोक्षज्ञानिभि- रप्यन्यस्य यज्ञादौ शंसनादेः क्रियमाणत्वात् । तेषां च मोक्षस्य नियतत्वात् । मोक्षस्यैव श्रुतिफलत्वादित्यत आह- प्रत्यक्षेति ॥ सत्यं । यद्यपि प्रत्यक्षज्ञानिनो न कथंचिन्मोक्षो हीयते । तथापि एतत् अन्योद्देशेन शंसनादिकं मोक्षे आनन्दहासकृद्भवेदतस्तेनापि न कर्तव्यमेवेदमिति । नन्विन्द्रस्य महाव्रताख्ये कर्मणि विश्वामित्रादिभिः शंसनादेः कृतत्वात्तेषां ज्ञानित्वादान्दहासाभावस्य प्रमितत्वाच्च कथमेतदित्यत आह- आचार्यमेवेति ॥ गुणाधिकस्योद्देशेन शंसनादि तेनैव तस्याचार्यवर्गप्रविष्टत्वेनैव कारणेन न दुष्यति नानर्थावहं भवतीत्यर्थः । दाक्षिण्यप्रमादादिनाऽयोग्योपदेशघटनायां तस्य प्राय- श्चित्तमाह- अयोग्यस्येति ।। हौत्रादिके होत्रादिभिः क्रियमाणे शंसनादिव्यापारे वाऽन्योद्देशेन कृते सति तस्य प्रायश्चित्तार्थं त् यच्छंसनेन पापमापतितं तत् बृहतीसहस्रादिकं महाव्रताख्यस्तोत्रं वा शतवारकं शंसीतेत्यर्थः । प्रायश्चित्ताकरणे बाधकमाह- अन्यथेति ॥ ननु प्रायश्चित्ताकरणे 'नास्य फलं श्रुते' रित्यादिनोक्तानिष्टस्यैव स्थितत्वात्पृथगनिष्टविधानमिदं कथमिति चेन्न । इदमपि तस्यैव फलमित्यङ्गीकारात् । एतद्विद्यायोग्यान्दर्शयति- योग्या इति ।।