तस्य य आत्मानमाविस्तरां वेद
अथ द्वितीयारण्यके तृतीयाध्याये द्वितीयः खण्डः
तारतम्यानुगुणं भगवत्सन्निधानकथनम्
उपनिषत्
तस्य य आत्मानमाविस्तरां वेद । अश्नुते हाविर्भूय ओषधि वनस्पतयो यच्च किञ्च प्राणभृत् । स आत्मानमाविस्तरां वेद । ओषधिवनस्पतिषु हि रसो दृश्यते । चित्तं प्राणभृत्सु । प्राणभृत्सु त्वेवाविस्त- रामात्मा । तेषु हि रसोऽपि दृश्यते । न चित्तमितरेषु । पुरुषे त्वेवाविस्तरामात्मा । स हि प्रज्ञानेन सम्पन्नतमः । विज्ञातं वदति, विज्ञातं पश्यति, वेद श्वस्तनम् । वेद लोकालोकौ । मर्त्येनामृतमीप्सति । एवं सम्पन्नः । अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानम् । न विज्ञातं वदन्ति, न विज्ञातं पश्यन्ति, न विदुः श्वस्तं, न लोकालोकौ । त एतावन्तो भवन्ति । यथाप्रज्ञं हि सम्भवाः ।।२.३.२।।
अधिष्ठानतारतस्मेन भगवत्सन्निधानम्
भाष्यम्
आविर्भावं तारतम्याद्यो वेद परमात्मनः । स तस्यैव विशेषेण प्रीतियोगाद्भविष्यति ।। स्थावरं जङ्गमं चैव भूयस्त्वेनाश्रुते हरिः । आविर्भूतस्तेषु सदा सम्यक्स्वात्मानमेव च ।।तारतम्यात् सन्निहितं सर्वभूतेषु केशवः । वेत्त्येक एव विष्णोर्यद्विशेषावेशनं सदा ।। जङ्गमेषु च वृक्षेषु नैव तादृक्शिलादिषु । तस्माद् वृक्षादिषु रसश्चित्तं चलनवत्सु च । दृश्यते न शिलाद्येषु सन्निधिर्न हि तादृशी ||
भावप्रदीप:
‘तस्य य आत्मानमाविस्तारां वेद' इत्येतत्खण्डं व्याचष्टे आवि- र्भावमित्यादिना ।। परमात्मन आविर्भावं सन्निधानं यो वस्तुषु तारतम्याद्वेत्ति स तस्यैव भविष्यति तदीय एव भविष्यति । ननु सर्वेषां भगवदधीनत्वेन तदीयत्वात्किं विशिष्योच्यत इत्यत उक्तम्– विशेषेणेति ॥ तमेव विशेषं दर्शयति- प्रीतियोगादिति ॥ भगवत्प्रीतिगोचरो भविष्यतीति भावः एतेन य आत्मानं परमात्मानं वस्तुष्वाविस्तरां आविर्भावतारतम्येन, तारतम्येनाविर्भूतं सन्निहितमिति यावत् । (वेद स ) तस्यैव भवति तत्प्रीतिगोचरो भवतीति तद्वाक्यं व्याख्यातं भवति ।।
'अश्नुत इत्यादिप्राणभृत्' इत्यन्तं व्याचष्टे - स्थावरमिति ।। भूयस्त्वेन शिलादिभ्य उत्तमत्वेन, स्थावरं जङ्गमं च अनुते प्राप्नोति । हरिस्तेषु स्थावरजङ्गमप्राणिषु सदाऽऽविर्भूतः सन्निहितः सन्नित्यर्थः । एतेन ये ओषधिवनस्पतयः स्थावराः यच्च किञ्च प्राणभृज्जङ्गमं वस्तुजातं तत्सर्वं तत्राविर्भूतः परमात्मा भूयः शिलादिभ्यो भूयस्त्वेन अश्नुते प्राप्नोतीति व्याख्यातं भवति ।।
'स आत्मानमाविस्तारं वेद' इत्येतद्व्याचष्टे - सम्यगिति ॥ तारतम्यादेवेत्यन्वयः । चशब्दोऽप्यर्थः । सर्वभूतेषु चेति सम्बध्यते । सर्वेष्वपि भूतेषु तारतम्यादेव सन्निहितं स्वात्मानं केशव एक एव सम्यग्वेत्ति नान्यदित्यन्वयः॑ः । एतेन स भगवान्सर्वभूतेषु अविस्तरां तारतम्येनाविर्भूतमात्मानं स्वात्मानं स्वयमेक एव सम्यग्वेदेति व्याख्यातं भवति । 'ओषधिवनस्पतिष्वित्यादिप्राणभृत्सु' इत्यन्तं वाक्यं व्याख्यातुमाह- विष्णोरिति । विशेषावेशनं विशेषसन्निधानं, जङ्गमेषु वृक्षेषु वृक्षादिस्थावरेषु च यत् यस्मात्सदाऽस्ति शिलादिषु तादृग्विशेषसन्निधानं नैवास्ति । तस्माद्रसादिकं स्थावरादिषु दृश्यते न शिलादिष्वित्यर्थः । दायर्थं पुनरुक्तमेव हेतुमाह- सन्निधिर्न हि तादृशीति ।। शिलाद्येष्विति वर्तते ॥