एष पन्था एतत्कर्म एतद्ब्रह्मैतत्सत्यम्

द्वितीयारण्यके

प्रथमाध्यायः

एष पन्था एतत्कर्म एतद्ब्रह्मैतत्सत्यम् । तस्मान्न प्रमाद्येत्तन्नातीयान्न ह्यत्यायन् पूर्वे येऽत्यायंस्ते परा बभूवुः ।

॥ ऐतरेयोपनिषद्भाष्यम्

नारायणं निखिलपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम् ।

प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम् ॥

प्रादुबर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनाम्नः ।

तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोऽमुमस्तौत् ॥ 

तेन स्तुतः स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ ।

दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः ॥

शृण्वत्सु तेषु भगवानवदद्रमायै दिव्यां श्रुतिं स परमोऽतिमुदैतरेयीम् ।

सा बह्वृचैः प्रपठिता चतुराननास्याद्यस्यां रहस्यमुदितं परमं हि विष्णोः ॥

महाभूतिः श्रुतिः सैषा महाभूतिर्यतो हरिः ।

विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः ॥

इति ऋक्संहितायाम् ।

एष एव सदा पन्था भगवान् पुरुषोत्तमः ।

नित्यं स्वप्राप्तिहेतुत्वात् कर्तृत्वात् कर्म मातृतः ॥

ब्रह्मैव गुणपूर्णत्वात् सत्यं साधुस्वरूपतः ।

क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत् ॥

पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः ।

मुक्ता श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका ॥

तदुक्तमृषिणा प्रजा ह तिस्रो अत्यायमीयुर्न्य१न्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरन्ति आ विवेशेति । प्रजा ह तिस्रो अत्यायमीयुरन्ति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादाः । न्य १ न्या अर्कमभितो विविश्र इति । ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम् । बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावादित्यः पवमानो हरन्ति आ विविशेति । वायुरेव पवमानो दिशो हरन्ति आविष्टः ॥

प्रथमः खण्डः ॥

विहायस्ययनात् प्रोक्ता वयांसीति पिशाचकाः ।

वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा ॥

अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः ।

राक्षसा असुरा ईरपादा इति समीरिताः ॥

धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः ।

वायुर्देवोऽत्रासुराणामैश्वर्यं गुण एव हि ॥

ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन् ।

पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः ॥

देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः ।

आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम् ॥

अग्निस्थमाश्रिता मर्त्या विष्णुमर्काभिधं परम् ।

आजनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः ॥

अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः ।

कर्मभिः शुद्धसत्त्वानां कर्मत्यागोऽपि नान्यथा ॥

आश्रिताः सूर्यगं विष्णुमृषयो बृहदित्यसौ ।

तेजसा बृंहणादुक्तो विष्णुरादित्य इत्यपि ॥

आदानात् सर्ववस्तूनां स्वाध्यायेनामुमाश्रिताः ।

मुच्यन्ते ऋषयो नित्यं नान्यथा तु कथञ्चन ॥

वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम् ।

संसारात् पावयित्वा यन्महानन्दे मिनोत्ययम् ॥

पवमानस्ततो विष्णुर्व्याप्तः सर्वासु दिक्षु च ।

आश्रितो भगवान् सर्वैः सर्वत्रापि विशेषतः ॥

आश्रयात् पृथगुक्तोऽयं नित्यानन्दो रमापतिः ॥ १ ॥

उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवी तो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्याग्निरर्कोन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति । तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते ।

असावेव द्यौरुक्थममुतःप्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । इत्यधिदैवतम् ।

अथाध्यात्मम् । पुरुष एवोक्थमयमेव महान् प्रजापतिरहमुक्थमस्मीति विद्यात् । तस्य मुखमेवोक्थं यथा पृथिवी तथा । तस्य वागर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । नासिके एवोक्थं यथाऽन्तरिक्षं तथा । तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । तदेतद् ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव । ललाटमेवोक्थं यथा द्यौस्तथा । तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । समानमशीतयोऽध्यात्मं चैवाधिदैवतं चान्नमेव । अन्नेन हीमानि सर्वाणि भूतानि समनन्तीग्ं ३ । अन्नेनेमं लोकं जयत्यन्नेनामुम् । तस्मात् समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव । तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च । यद्ध किञ्चेदं प्रेता३ इ तदसौ सर्वमत्ति । यदु किञ्चातः प्रैती३ तदियं सर्वमत्ति । सेयमन्नमत्ति याद्याऽत्री । अत्ता ह वा आद्यो भवति । न तस्येशे यं नाद्याद्यद्वैनं नाद्युः ॥२ ॥

उत्थापनादुक्थनामा स एव पृथिवीस्थितः ।

प्रथितः पृथिवीनामा सोऽन्तरिक्षाभिधोऽत्रगः ॥

अन्तरीक्ष्यो यतो द्युस्थो द्युनामाऽतिप्रकाशनात् ।

अध्यात्मे च निविष्टोऽसौ पुरुषाख्यो जनार्दनः ॥

पूर्षु स्थितत्वात् स महान् प्रजानां पतिरेव च ।

अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ ॥

पृथक्पृथक्च तस्याङ्गान्युक्थानि जगदीशितुः ।

अग्निवातदिनेशानामुत्थानानि पृथक् पृथक् ॥

वदनं नासिका नेत्रमित्येतानि परात्मनः ।

तृचाऽशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः ॥

विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम् ।

अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता ॥

सोम एव ततश्चान्नमशीतय इतरितम् ।

अदनाऽऽघ्राणदृष्ट्याख्यभोगत्रयविभागतः ॥

मुखनासाचक्षुषां तद्भोग्यमन्नं हरेः श्रुतम् ।

अरणं गमनं यस्मादर्कः शीघ्रगतित्वतः ॥

श्येन एव तदाकारा चान्नरर्कपदोदिता ।

सुपर्णप्रतिमा सा यत्तदारूढो जनार्दनः ॥

तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः ।

योऽसौ चान्नगतो वीन्द्रः सोऽग्निवातरविष्वपि ॥

तथा वाक्प्राणचक्षुष्षु तस्मात् तेऽर्काः प्रकीर्तिताः

तेषु स्थिते सुपर्णे च रूपभेदैः पृथक् पृथक् ॥

स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः ।

व्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम् ॥

नासयोर्नासिका विष्णोरक्ष्णोरेव तदक्षिणी ।

जीववाक्प्राणचक्षुष्षु तद्वागाद्यास्ततः स्थिताः ॥

विष्णोर्वाग्भार्गवो रामो प्राणोऽस्य नरकेसरी ।

चक्षुस्तु कपिलो विष्णुरग्न्यादीनां च कारणम् ॥

जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः ।

अविशेषोऽपि भगवान् पूर्णैश्वर्यस्वरूपतः ॥

अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः ।

स एव व्यूह्य चात्मानं पृथग्रूप इव स्थितः ॥

सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः ।

अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः ॥

अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः ।

अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः ॥

तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः ।

पतन्ति धावयन्त्यश्वान् नरादींश्च नरादयः ॥

परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः ।

निहितश्चैव तल्लोको नासिकायां नतस्थले ॥

पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युलोकतः ।

पतितं सर्वमेवात्ति तथा दिवि च संस्थितः ॥

इतो गतं सर्वमत्ति द्युनामा भगवान् परः ।

भोग्यत्वादाद्य इत्युक्तः एवमाद्यात्तृरूपवान् ॥

एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः ।

आद्यो भवति चान्येषां नोपजीव्यो भवेद्यथा ॥

हरिः स सर्वजीवानां न भुज्यन्ते यथाऽमुना ।

सर्वे लोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित् ॥ २ ॥

अथातो रेतसः सृष्टिः । प्रजापते रेतो देवाः । देवानां रेतो वर्षम् । वर्षस्य रेत ओषधयः । ओषधीनां रेतोऽन्नं अन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो वाक् वाचो रेतः कर्म । तदिदं कर्म कृतम् । अयं पुरुषो ब्रह्मणो लोकः । स इरामयो यद्धीरामयस्तस्मात् हिरण्मयः । हिरण्मयो ह वा अमुष्मिं ल्लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद ॥

३ ॥

स एष भगवान् विष्णुः प्रजापतिरितीरितः ।

तस्माज्जाताः सर्वदेवा ब्रह्माद्यास्तेभ्य एव च ॥

वृष्टिः सञ्जायते तस्याः सर्वा ओषधयोऽभवन् ।

ओषधीभ्योऽन्नमन्नाच्च रेतो रेतस एव च ॥

सर्वाः प्रजाः प्रजायन्ते सङ्कल्पो हृदयाभिधः ।

प्रजाभ्यो जायते तस्माद् विकल्पाख्यं मनस्तथा ॥

विकल्पाद्वाक्प्रचारश्च वाचा नामादिवेदनात् ।

कर्म सञ्जायते तस्मात् कर्मणश्च जगत्पुनः ॥

कर्माभिमान्ययं जीवः परस्य ब्रह्मणो हरेः ।

आवासस्थानमुद्दिष्टो विशेषात् स इरामयः ॥

इच्छानुरूपं तु सुखमिरेत्येव प्रकीर्तितम् ।

इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः ॥

हिरुक्सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग्यतः ।

आधिक्यार्थे मयड् यस्मादधिकानन्दरूपकः ॥

उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः ।

एवं नारायणं जानन् सर्वलोकैककारणम् ॥

तल्लोके दृश्यते भूतैर्मुक्तैरानन्दरूपकः ॥ ३ ॥

तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम् । यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात् प्रपदे तस्मात् प्रपदे इत्याचक्षते । शफाः खुरा इत्यन्येषां पशूनाम् । तदूर्ध्वमुदसर्पत् । ता ऊरू अभवताम् । उरु गृणीहीत्यब्रवीत् । तदुदरमभवत् । उर्वेव मे कुर्वित्यब्रवीत् । तदुरोऽभवत् । उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता ३ ई । ऊर्ध्वं त्वेवोदसर्पत् । तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत् । तच्छिरसः शिरस्त्वम् । ता एताः शीर्षच्छ्रियः श्रिता श्चक्षुः श्रोत्रं मनो वाक्प्राणः । श्रयन्तेऽस्मिञ्च्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद ।

तमिमं प्रथमज्ञानिपुरुषं चतुराननम् ।

वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥

यस्मात् प्रपेदे भगवान् प्रपदाच्चतुराननम् ।

तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम् ॥

चतुर्मुखाकारवतां नृणां पादतलोपरि ।

प्रपदाख्या वर्ततेऽतो न तु पश्वादिनां क्वचित्॥

अयादूर्ध्वं ततो विष्णुः प्रपदादूरुमत्र च ।

स्थित ऊरू च तावास्तामूरूर्ध्वगमनाद्धरेः ॥

ककिञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः ।

वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥

उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा ।

तत्स्थानमुदरं नाम पुनराह जनार्दनः ॥

उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् ।

तथाऽकरोत् स वायुश्च तदुरोऽभूदुरुत्वतः ॥

उरोमध्ये च हृदयं तत्रावासो हरेः सदा ।

सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥

उदरे ते परं ब्रह्म वासुदेवमुपासते ।

हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥

उदरस्थं च हृद्गं च ते उभे ब्रह्म तत्परम् ।

एकमेव यतस्तस्मादुभये ह्यपि तद्विदः ॥

तत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः ।

स्थितो मूर्धनि देवेशः श्रितोऽसाविति तच्छिरः ॥

तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः ।

शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् ॥

अहम्भावमनो रुद्रः शेषोऽसौ पाञ्चरात्रकम् ।

वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः ॥

श्रोत्रं चन्द्रो रविश्चक्षुर्वागग्निः परिकीर्तितः ।

एते देवास्तदन्ये च सर्वप्राणिषु संस्थितः ॥

उपासते महाविष्णुं परमात्मानमच्युतम् ।

ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मीति । ता अब्रुवन् । हन्तास्माच्छरीरादुत्क्रामाम तद्यस्मिन् न उत्क्रान्त इदं शरीरं पत्स्यति तदुक्थं भविष्यतीति ॥

वागुदक्रामदवदन्नन् अश्नन् पिबन्नास्तैव । चक्षुरुदक्रामदपश्यन्नश्नन् पिबन्नास्तैव । श्रोत्रमुदक्रामत् अशृण्वन् अश्नन् पिबन्नास्तैव । मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्तैव । प्राण उदक्रामत् प्राण उत्क्रान्तेऽपद्यत तदशीर्यताशारीतीं३ । तच्छरीरमभवत् । तच्छरीरस्य शरीरत्वम् । शीर्यते ह वा अस्य द्विषन् पाप्मा भ्रातृव्यः पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ।

-वाचा हिंसामकुर्वंस्ते विनिन्दन्तः परस्परम् ॥

ते विष्णोराज्ञयाऽवोचन्नुत्क्रमाम पृथक् पृथक् ।

देहादब्जभवस्यास्माद्यस्मिन्नुत्क्रान्त एव हि ॥

शरीरं पद्यते श्रेयान् स न इत्यवधार्यताम् ।

ततः क्रमेण चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः ॥

निष्क्रान्तेषु न वै पातः शरीरस्याभवत् क्वचित् ।

वायावुत्क्रान्त एवैतच्छरीरमपतत् क्षितौ ॥

उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः।

तेषां बलपरीक्षार्थं वाय्वादीनां च सर्वशः ॥

ता अहिंसन्तैवाहमुक्थमस्महमुक्थमस्मीति । ता अब्रुवन् हन्तेदं पुनः शरीरं प्रविशाम तद्यस्मिन्नः प्रपन्न इदं शरीरमुत्थास्यति तदुक्थं भविष्यतीति । वाक्प्राविशदशयदेव । चक्षुः प्राविशदशयदेव । श्रोत्रं प्राविशदशयदेव । मनः प्राविशदशयदेव ॥

प्राणः प्राविशत् । तत्प्राणे प्रपन्न उदतिष्ठत् । तदुक्थमभवत् । तदेतदुक्थं प्राण एव । प्राण उक्थमित्येव विद्यात् । तं देवा अब्रुवन् त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसीति । तदप्येतदृषिणोक्तं त्वमस्माकं तव स्मसीति ॥

४ ॥

पुनस्ते प्राविशन् सर्वे वह्निसूर्यौ शशी शिवः ।

नोत्थानमभवत् तेषु प्रविष्टेष्वपि सर्वशः ॥

वायौ प्रविष्टे तूत्थानं कायस्यासीत् तदैव च ॥

उच्चैः स्थितत्वादुक्थोऽभूद् वायुरेव ततः प्रभुः ॥

उच्चत्वं च गुणाधिक्यं त्वमुच्चोऽसीति तेऽब्रुवन् ।

भृत्या वयं तवैव स्मः त्वमस्माकं पतिः सदा ॥

स्पर्धामहे त्वद्बलेन त्वया नान्येन केनचित्।

इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक् ।

वायुः स संस्तुतस्तैश्च प्रसन्नोभूद् दिवौकसाम् ॥ ४ ॥

तं देवाः प्राणयन्त । स प्रणीतः प्रातायत । प्रातायीती३ तत्प्रातरभवत् । समागादिती३ तत्सायमभवत् । अहरेव प्राणो रात्रिरपानः ।

तस्माच्छ्रुत्वा परं ब्रह्म देवा नारायणाभिधम् ।

शिष्यप्रशिष्यादिषु च तेऽनयन् वायुनोदितम् ॥

वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः ।

ये ये गुणान् विजानन्तिवायोस्तानाविशन् मरुत् ॥

तत्र तत्र प्रविष्टत्वात् प्रततोऽसौ बभूव ह ।

प्रततत्वात् प्रातरिति तस्य नामाऽभवद्विभोः ॥

सङ्गतश्चाभवज्जीवचिति रूपान्तरेण सः ।

सङ्गतत्वात् सायमिति तद्रूपं नामतोऽभवत् ॥

वायोस्तत्पुनरध्यात्मं प्राणापानाभिधं द्वयम् ।

वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं स एष प्रहितं संयोगोऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत् तदुक्तं भवति ।

अध्यात्ममग्निर्वागाख्यश्चक्षुः सूर्यः प्रकीर्तितः ॥

यज्ञादिसाधने यत्तु मनश्चन्द्रः प्रकीर्तितः ।

मनो यमश्च वरुणः कुबेरश्च दिगीश्वराः ॥

श्रोत्राभिमानिनः सर्वे वैदिकश्रवणोचितम् ।

श्रोत्रं चन्द्रस्तथा स्मार्ततान्त्रिकश्रवणोचितम् ॥

यम एव षडङ्गानां विषयश्रवणोचितम् ।

श्रोत्रं तु वरुणः काम्यशास्त्रार्थं मन एव च ॥

श्रोत्रं यन्नीतिशास्त्रार्थं कुबेरश्च प्रकीर्तितः ।

विष्णुना प्रहितानां हि संयोगोऽध्यात्ममेष हि ॥

शिवादीनां च सर्वेषां मनस्त्वं कथितं पुरा ।

एतास्सर्वा देवता हि ब्रह्मवायुसुपर्णकाः ॥

शेषशङ्करशक्राश्च चन्द्रसूर्ययमा अपि ।

अग्निश्च मित्रावरुणौ कुबेराद्याश्च सर्वशः ॥

अधिदैवं स एवैक आधिक्यात् पुरुषोत्तमः ।

देवमात्रास्तदन्ये तु स आविः पुरुषोत्तमः ॥

पूर्णज्ञानस्वरूपत्वादेतावत् कथितं भवेत् ।

तात्पर्यात् सर्ववेदैश्च ...

एतद्धस्म वै तद्विद्वानाह हिरण्यदन् वैदो न तस्येशेऽयं मह्यं न दद्युरिति ॥

प्रहितां वा अहमध्यात्मं संयोगं निविष्टं वेदैतद्ध । तदनीशानानि ह वा अस्मै भूतानि बलिं हरन्ति य एवं वेद ॥

-... तज्जानन्नवदन् मुनिः ॥

हिरण्यदन्नाम वैदो भूतेषु हि सुरानृते ।

मदभीष्टं ममादातुं नैवेष्टे कश्चनाञ्जसा ॥

विष्णुना प्रहितानां हि देवानामहमुत्तमम् ।

वेद संयोगमाध्यात्मं ततो मुक्तो यथेष्टभुक् ॥

स्यान्नैवात्रास्ति सन्देहः स्वेच्छाविहृतिरेव च ।

मन्निषेधे न शक्तोऽस्ति प्रीता देवा हि मे सदा ॥

अधिदैवेन सहिता विष्णुना प्रभविष्णुना ।

एतद्धि तेन कथितं मुनिना तत्त्ववेदिना ॥

विष्णुप्रहितदेवानां योगमध्यात्ममञ्जसा ।

वेद तं च नियोक्तारमुपास्ते विष्णुमव्ययम् ॥

एतादृशोपासनाया योग्यः सन् सततं सुधीः ।

स्वस्वाम्यन्यानि भूतानि हरेयुर्बलिमस्य हि ॥

मुक्तस्य वैष्णवे लोके मुक्तानि च न संशयः ।

इत्येतद्ध्यानयोगाश्च मुनयो देवतास्तथा ॥

मानुषा ज्ञानमात्रेण स्वावरैः पूज्यतामियुः ।

मुक्तामुक्तैर्मुक्तियोग्या इति शास्त्रस्य निर्णयः ॥

तत्सत्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत् त्रिवृत् । त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति । स यदि ह वा अपि मृषा वदति सत्यं हैवास्योदितं भवति य एवमेतत् सत्यस्य सत्यत्वं वेद ॥

५ ॥

स एष भगवान् विष्णुः सत्यमित्यभिधीयते ।

सर्वोत्तमत्वात् पूर्णत्वात् सर्वज्ञत्वात् तथैव च ॥

देवतात्रयमन्यच्च पृथक् सत्यमितीर्यते । 

शेषवीन्द्रशिवादिभ्य उत्तमत्वात् सदैव हि ॥

वायुः सदिति सम्प्रोक्तो जीवेषु तु सुपूर्णतः ।

तीति ब्रह्मा समुद्धिष्टः स एवान्नाभिमानवान् ॥

अन्नं प्रजापतिरिति श्रुतिरन्या ह्यभाषत ।

अतिनादात् सदा वेदैरप्यन्नं स चतुर्मुखः ॥

यमयेत्यदिति य उद्दिष्टो यमयेद् यत्प्रकाशनात् ।

देवतात्त्रयमेतत्तु सहितं सत्यमुच्यते ॥

शुक्लकृष्णकनीनासु चक्षुषोऽप्येत आस्थिताः ।

एवं सत्यपदार्थं हि विज्ञायोपास्त आदरात् ॥

योग्यस्तस्या उपासाया नैवासत्येन दुष्यति ।

देवता मुनयश्चैव योग्या अस्या अपि स्फुटम् ॥

मनुष्याणां ज्ञानमात्राद्दोषो नातितरां भवेत् ॥ ५ ॥

तस्य वाक् तन्तिर्नामानि दामानि । तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम् । सर्वं हीदं नामानी ३ । सर्वं वाचाऽभिवदति । वहन्ति ह वा एनं तन्तिसम्बद्धा य एवं वेद ।

तस्य नारायणस्यैव सर्ववेदात्मिका हि वाक् ।

तन्तिरूपा जगद्बन्धे नाम ब्रह्मादिकं च यत् ॥

विप्रक्षत्रियवैश्यादिरूपं चाखिलमेव तु ।

दाम तेनैव बध्नाति सकलं जगदच्युतः ॥

सर्वे हि नामवन्तोऽत्र सर्वे वेदोदिता अपि ।

वेदात्मिक्या यतो वाचा विष्णुर्वदति सोऽखिलम् ॥

य एतद्विष्णुवाचैव बद्धं नामाख्यदामभिः ।

ज्ञात्वा जगदुपास्ते तु योग्यः संस्तदुपासने ॥

तं प्रत्येवाखिलान्येव भूतानि सह दैवतैः ।

बलिं हरन्ति पञ्चाथ भूतान्येनं वहन्ति च ॥

योग्यश्चास्या उपासाया योग्यो ब्रह्मपदस्य यः ।

भूतयुक्ते रथे तस्मात् स तिष्ठति सुरार्चितः ॥

मुक्तः संश्च तदन्येषां ज्ञानमात्राद्विमुक्तिगैः ।

स्वावरैः सेव्यतैव स्यात् कैश्चिदेव क्वचित्क्वचित्॥

तथैव वायुना बद्धं जगदेतत् ततोऽवरम् ।

सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा ॥

तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुप् मांसमनुष्टुप् स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती । स च्छन्दोभिश्छन्नो यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते । छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणो यस्यां कस्याञ्चिद्दिशि कामयते य एवमेतच्छन्दसां छन्दस्त्वं वेद ।

विष्णोर्वायोश्च लोमादौ छन्दांस्येवाश्रितानि च ।

विष्णोर्विमुक्तवायोश्च लोमाद्यं तु चिदात्मकम् ॥

लोमप्राणादिभेदश्च नैव कश्चिच्चिदात्मनि ।

छन्नश्छन्दोभिरेवं स केशवस्तेन चाभिधा ॥

छन्दांसीत्येव तेषां हि य एवंविदुपासकः ।

निवारयन्ति पापेभ्यश्छन्दांसि किमु केशवः ॥

योग्या अस्याश्च विद्यायाः भृग्वाद्या देवतास्तथा ।

छन्दस्सु संस्थितो विष्णुर्गोपायत्येव तद्विदम् ॥

तदुक्तमृषिणा अपश्यं गोपामित्येष वै गोपा एष हीदं सर्वं गोपायति । अनिपद्यमानमिति न ह्येष कदाचन संविशति । आ च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति । स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च वस्त इमा एव दिशः । आवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्ति ॥

मन्त्रोऽप्यर्थमिमं प्राहापश्यं गोपामिति स्म ह ।

एष गोप्ता हि सर्वस्य वायुस्थः पुरुषोत्तमः ॥

छन्दस्सु संस्थितो वायुर्वायौ च स जनार्दनः ।

वायुश्च वायुसंस्थश्च कदाचिन्नैव तिष्ठतः ॥

वायुर्हि नित्यसञ्चारी सदा सर्वप्रवृत्तिमान् ।

चोदितः केशवेनैव तत्स्थेनामितशक्तिना ॥

आसमन्तात् पराक्चापि पञ्चभूतेभ्य ईश्वरः ।

वायुस्तत्स्थो हरिश्चैव चरत्यमितपौरुषः ॥

सध्रीचीनासु पूर्वादिदिक्ष्वेतौ चतसृष्वपि ।

नन्ति यदा वसतः कोणदिक्ष्वथाऽसु विषूचिषु ॥

अन्तश्च सर्वलोकेषु चरतो लोकसाक्षिणौ ।

अथो आवृतासोऽवतासो न कर्तृभिरिति ॥

सर्वं हीदं प्राणेनाऽऽवृतम् । सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धः । तद्यथाऽयमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्यापिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात् ॥

६ ॥

हस्तयोरेतयोरेव नित्याक्षीणं वसु स्थितम् ॥

तद्ध्यसह्यं बलं वायोरनन्तं किमु तद्धरेः ।

वायोराधारभूतस्य ताभ्यां हि क्रतुनामकाः ॥

आवृताः सर्वजीवा हि यथैव कनकावटाः ।

आच्छाद्यन्ते वित्तवद्भिस्ताभ्यामेवं च चेतनाः ॥

आवृता महदाद्यास्तु देहे तिष्ठन्ति चैतयोः ।

विष्टब्धाश्चैव सर्वेऽपि जीवा आकाश एव च ॥

स वायुः प्रकृतिश्चैव विष्टब्धौ केशवेन हि ।

बृहत्वात् बृहतीत्येव तयोर्नाम प्रकीर्तितम् ॥

वायुकेशवयोः प्राणनाम सर्वप्रणायनात् ।

विशेषतो बृहत्प्राणो भगवांस्तत्र केशवः ॥

इति विद्यात् ... ॥ ६ ॥

अथाऽतो विभूतयोऽस्य पुरुषस्य । तस्य वाचा सृष्टौ पृथिवी चाग्निश्च । अस्यामोषधयो जायन्ते । अग्निरेनाः स्वदयतीदमाहरतेदमाहरतेति । एवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च । यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिं वेद ।

... तस्य विष्णोरङ्गानामथ वैभवम् ।

उच्यते तस्य वाचा हि सृष्टावग्निः क्षितिस्तथा ॥

शुश्रूषार्थं तस्य पृथ्वी जनयत्योषधीः प्रभोः ।

ताः पचत्यग्निरुद्युक्तः आहृता आहृताः पुनः ॥

आहरेति वचोऽस्यापि शृण्वन्त्येव महर्षयः ।

मुखजत्वात् तयोर्विष्णोर्मुखं जनकमिष्यते ॥

आस्यभोग्यं ततो विष्णोरन्नं तौ कुरुतः सदा ।

सर्वैर्यद्भुज्यते चान्नं तत्र तत्र स्थितो हरिः ॥

तद्भुङ्क्तेऽतस्तदर्थं हि तावन्नं कुरुतस्सदा ।

विष्णोर्वाग्विभवं वेद य उपास्ते च सर्वदा ॥

योग्यः संस्तदुपासायाः स भूम्यग्निसमन्वितः ।

समं तयोर्व्याप्तिमांश्च तद्वन्मुक्तश्च नित्यदा ॥

अनष्टलोको वसति समीपे केशवस्य च ।

योग्या अस्या उपासायाः पृथिव्यग्निपदस्य ये ॥

योग्यास्ते वै मुख्यतया तदन्ये तत्र तौ स्थितौ ।

तत्र चर्तुं समर्था स्युर्मुक्तिं प्राप्य यथेच्छया ॥

कादाचित्कोपासने तु तावत्येषां च योग्यता ।

वेदनं ह्यापरोक्ष्येण मुख्यं भवति नान्यथा ॥

एकदेशविदो यस्मात् परोक्षज्ञानिनोऽखिलाः ।

आपरोक्ष्यं भवेद् यस्मान्नैवोपासामृते क्वचित्॥

तस्मादुपासापूर्वं तु योऽपरोक्षं प्रपश्यति ।

स एव वेद नान्यस्तु योग्यस्यैवापरोक्षदृक् ॥

तस्माद्योग्यस्योक्तफलमन्येषां किञ्चिदेव हि ।

प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनु शृण्वन्ति । वायुरस्मै पुण्यं गन्धमावहत्येवमेतौ प्राणं पितरं परिचरतोऽन्तरिक्षं च वायुश्च । यावदन्वन्तरिक्षं यावदनु वायुस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यतेऽन्तरिक्षस्य च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद ।

चक्षुषा सृष्टौ द्यौश्चादित्यश्च । द्यौर्हास्मै वृष्टिमन्नाद्यं सम्प्रयच्छत्यादित्योऽस्य ज्योतिः प्रकाशं करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चादित्यश्च । यावदनु द्यौः यावदन्वादित्यस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते ॥

यावदेतयोर्न जीर्यते दिवश्चादित्यस्य च य एवमेतां चक्षुषो विभूतिं वेद ।

श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च । दिग्भ्यो हैनमायान्तीं ३ । दिग्भ्यो विशृणोति ॥

चन्द्रमा अस्मै पूर्वपक्षापरपक्षान् विचिनोति पुण्याय कर्मणे । एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च । यावदनु दिशो यावदनु चन्द्रमास्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च य एवमेतां श्रोत्रस्य विभूतिं वेद ।

मनसा सृष्टा आपश्च च वरुणश्च । आऽऽपो हास्मै श्रद्धां सन्नमन्ते पुण्याय कर्मणे । वरुणोऽस्य प्रजां धर्मेण दाधारैवमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च । यावदन्वापो यावदनु वरुणस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यतेऽपां च वरुणस्य च य एवमेतां मनसो विभूतिं वेद ॥

७ ॥

प्राणादिभ्यश्च वाय्वाद्या एवं विष्णोः प्रजज्ञिरे ॥

ब्रह्मशेषसुपर्णेन्द्रशिवाद्या आप ईरिताः ।

ते विष्णोर्मनसा जाताः सर्वे चाबभिमानिनः ॥

वैश्वदेव्यस्ततो ह्यापो वरुणश्च मनोभवः ।

प्राणिनां पूर्तपुण्येषु श्रद्धारूपमनोऽधिपः ॥

एवं हि सर्वदेवा हि विष्ण्वङ्गेभ्यः प्रजज्ञिरे ।

स्वोत्पत्त्यङ्गं च ते विष्णोः शुश्रूषन्ते पृथक् पृथक् ॥

विष्णोः विषयधर्मेषु ज्ञानादिषु चतुर्मुखः ।

श्रद्धां ददाति भूतानां वैदिकश्रवणे विपः ॥

तान्त्रिके शेषरुद्रौ च शक्रो यज्ञादिकर्मणि ।

वायुर्गन्धवहश्चास्य भक्तिज्ञानप्रदस्तथा ॥

भूतानां तस्य विषये त्वन्तरिक्षं च कर्मणः ।

तदीयस्यैव भोगार्थं जीवानां श्रुतिचारदम् ॥

अन्तरिक्षं च विघ्नेशः सूर्यस्तत्कर्मसिद्धये ।

भूतानां ज्योतिषो दाता द्यौरप्यन्नाद्यदायिनी ॥७ ॥

आपाः ३ इत्यापः इति । तदिदमाप एवेदं वै मूलमदस्तूलमयं पितैते पुत्रा यत्र ह क्वच पुत्रस्य तत्पितुर्यत्र वा पितुस्तद्वा पुत्रस्येत्येतत् तदुक्तं भवति तद्धस्म वै तद्विद्वानाह महिदास ऐतरेय आहं मां देवेभ्यो वेदा ओमद्देवान् वेदेतः प्रदाना ह्येत इतः सम्भृता इति ।

आप इत्येव देवानां ब्रह्मादीनां कथं भवेत् ।

नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम् ॥

आप इत्येव नामैषां भवतीत्याह स प्रभुः ।

इदं मदाख्यं यद् ब्रह्म ह्याप इत्यभिधीयते ॥

आ पूर्णत्वाद् गुणैः सर्वैस्तन्मूलमखिलस्य च ।

तूलभूतं तदन्यत् तु पिता ह्येष जनार्दनः ॥

पुत्रा ब्रह्मादयः सर्वे नैवायं वृक्षमूलवत् ।

स्वतन्त्रत्वाज्जगन्नाथः पितृत्वात् परमेशितुः ॥

तन्नामाऽऽप इति ह्येतद्ब्रह्मरुद्रादिनां भवेत् ।

यथा यदव इत्येव रघवः कुरवस्तथा ॥

पुत्रनाम पितुश्च स्यात् तत्तन्त्रत्वात् सुतस्य हि ।

यथा पितामहाद्याश्च पितरो नाम कीर्तिताः ॥

तथापि मुख्यया वृत्त्या व्यवहारव्यवस्थितिः ।

आप इत्येव देवानां सर्वेषां प्रददौ हरिः ॥

स्वकीयमेवमन्यानि पृथक् पृथगदात् प्रभुः ।

नारायणादिनामानि ददौ नान्यस्य केशवः ॥

एवं स भगवान् विष्णुर्महिदासाभिधः प्रभुः ।

जानन्नित्योदितज्ञानादाह देवीमिदं वचः ॥

देवपर्यन्तमा व्याप्तिं वेदाहं मम सर्वदा ।

मत्पर्यन्तं यथा व्याप्तिं देवानामपि सर्वशः ॥

मयि देवास्तेषु चाहमिति विद्धिवरानने ।

मयैतानि प्रदत्तानि पदानि ब्रह्मपूर्वकाः ॥

अधितिष्ठन्ति सत्ताद्या अप्येतेषां मदाज्ञया ।

ज्ञानकर्मबलेहाद्या मद्दत्ता इति किं वदे ॥

सम्भृता मत्त एवैते

स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्याचक्षते । गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यं पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥

. ... स एष भगवान् गिरिः ।

गिरणात् सर्वभूतानां चक्षुर्नामास्य दर्शनात् ॥

सर्वश्रोतृत्वतः श्रोत्रं मनो मन्तृत्वहेतुतः ।

प्राणनामा प्रणेतृत्वात् तमेनं गुणपूर्तितः ॥

गिरणाच्चाखिलस्यास्य प्राहुर्ब्रह्मगिरिं प्रभुम् ।

य एवं वेद तं विष्णुमापरोक्ष्येण शाश्वतम् ॥

गिरत्येवाखिलं पापं भ्रातृवत् सह संस्थितम्म् ।

पराभवति पाप्माऽस्य द्वेष्टा निरयगः सदा ॥

स एषोऽसुः । स एष प्राणः । स एष भूतिश्चाभूतिश्च तं भूतिरिति देवा उपासाञ्चक्रिरे । ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूररित्येव प्रश्वसिति । अभूतिरित्यसुरास्ते ह पराबभूवुर्भवत्यात्मना पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥

असनाद्भगवान् सोऽसुः सर्वस्यापि जनार्दनः ।

प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥

स एष भूतिनामाऽपि ज्ञानैश्वर्यादिभूतिदः ।

अज्ञानादिप्रदातृत्वात् स एवाभूतिनामकः ॥

सुखज्ञानादिगुणदं पूर्णं सर्वगुणैः प्रभुम् ।

उपासते तं वाय्वाद्या देवास्तस्माच्च तेऽखिलाः ॥

बभूवुः सुखसज्ज्ञानपूर्वैः सर्वगुणैर्युताः ।

देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतः ॥

स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसति ।

भूःशब्दार्थो भूतिरिति वैपरीत्येन चासुराः ॥

अभूतिकारकोऽस्माकमैश्वर्यादिगुणोज्झितिः ।

इत्येवोपासते तस्मात् पराभूताश्च सर्वशः ॥

ज्ञानैश्वर्यादिभिर्हीनाः पेतुरन्धे तमस्यथ ।

य एवं वेद तं विष्णुं भूतिदं भूतिरूपिणम् ॥

भावाभावं च देवानां दैत्यानां चैवमेव तु ।

ज्ञानैश्वर्यादिभिः सोऽपि भवेत् तस्य परात्मनः ॥

प्रसादात् तस्य पाप्मा च पराभवति सर्वशः ।

स एष मृत्युश्चैवामृतं च । तदुक्तमृषिणा– अपाङ्प्राङेति स्वधया गृभीत इति । अपानेन ह्ययं यतः प्राणो न पराङ्भवति । अमर्त्यो मर्त्येना सयोनिरित्येतेन हीदं सर्वं सयोनि मर्त्यानि हीमानि शरीराणी३ । अमृतैषा देवता । ता शश्वन्ता विषूचीना वियन्ता न्य१ न्यं चिक्युर्न निचिक्युरन्यमिति निचिन्वन्ति हैवेमानि शरीराणी३ । अमृतैवैषा देवता । अमृतो ह वा अमुष्मिं ल्लोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद य एवं वेद ॥ ८ ॥

स एष भगवान् विष्णुर्मृत्युदो मोक्षदस्तथा ॥

स एव जीवनकरो यदाऽपानेन संयुतम् ।

प्राणं नियमयत्यस्मिञ्च्छरीरे पुरुषोत्तमः ॥

शरीराद् बहिरेतौ तु यदा निःसारयत्यजः ।

तदा मृत्युप्रदश्चायं मुक्तानामपि जीवनम् ॥

प्राणादेव हि तत्रापि प्राणाधारो जनार्दनः ।

अर्वाक्प्राक्च सदा गच्छेद्वायुरानन्दरूपिणा ॥

अनेनैव गृहीतो हि प्राणोऽपानेन संयुतः ।

अनेन हरिणा यस्मान्नियतो न पराग्भवेत् ॥

अमर्त्यस्तत्प्रसादेन वायुर्देहैः सह स्थितः ।

अनित्या अपि देहास्ते शश्वत् सन्त्याविमोक्षतः ॥

स्थूलसूक्ष्मविभागेन किमु वायुर्जगत्प्रभुः ।

नानागती तु तावेतौ वायुः प्राप्नोति केशवम् ॥

शरीरं तु विनष्टं स्यात् पञ्चत्वमुपगच्छति ।

जडं तज्जडतामेति चेतना वायुदेवता ॥

चेतनेशं हरिं याति विरुद्धगमनौ च तौ ।

ऊर्ध्वं गच्छति देवः स देहोऽधः पतति क्षितौ ॥

दृश्यमेतच्छरीरं चाप्यदृश्या वायुदेवता ।

य एवं वेद तं वायुममृतं सर्वनायकम् ॥

पूर्णानन्देन हरिणा गृहीतं तद्वशं सदा ।

स मुक्तो लोकमाप्नोति विष्णोर्मुक्तैश्च दृश्यते ॥

इति च ।

ब्रह्मपन्थाः सत्यं कर्मेति तस्य नारायणस्य वासुदेवाद्याः क्रमेण चतस्रो मूर्तयः । नासिकायां यन्नेत्रयोर्मध्ये विनतमिव किञ्चिन्नतस्थानं तत्सूर्यलोकस्थानीयं विद्यात् । तथेति निर्णयः । इरामया इति दैर्घ्यमवधारणार्थम् ।

दैर्घ्यं प्लुतं च हिङ्कारो बिन्दुरप्यवधारणे इति शब्दनिर्णये ।

ब्रह्मा हैवं ता३ ईते ।

देशतः कालतोऽर्थाच्च बलतो गुणतस्तथा ।

स्वरूपतोऽपि नैव स्याद् भेदोऽत्यल्पोपि यत्र हि ॥

केवलैश्वर्ययोगेन यत्र सङ्ख्यादिवद्भवेत् ।

स्वरस्पर्शविभागेन तत्रोक्तिः स्याद् विभक्तिषु ॥

अचिन्त्यात् तु तथैश्वर्यादेकोऽपि बहुरूपवान् ।

प्रकाशयेद्यतो विष्णुः सर्वत्राप्यविशेषवान् ॥

न विशेषो हि रूपाणां मत्स्यादीनां कथञ्चन ।

नैश्वर्ये न बले चैव नानन्दादिगुणेष्वपि ॥

इत्यादिशब्दनिर्णयवचनात् द्विवचनमत्र व्यवहारमात्रमिति दर्शयितुं ता इत्युक्तम् ।

संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते ।

उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥

इत्यतो ब्रह्माहेति दैर्घ्यमपि परब्रह्मत्वविवक्षया ।

अद उ एव नारायणाख्यमधिदैवतं अन्यानि दैवतमात्राणि । स्थानान्तरेऽन्येषामप्यधिदैवत्वकथनम् । कर्मजदेवाद्यपेक्षया । मुख्याधिदैवतं नारायण एव । तस्योष्णिग्लोमानीत्यादि लोमसूष्णिगित्याद्यर्थे । सप्तसु प्रथमा इति सूत्रात् । सच्छन्दोऽभिश्छन्न इति वाक्यशेषात् । ब्राह्मणोऽस्य मुखमासीत् इत्यादिवच्च ।

अङ्गेषु यस्य छन्दांसि देवा लोका मखा अपि ।तद्वशा नियता नित्यं नमस्तस्मै परात्मने ॥ इति स्कान्दे ।

अस्मै पुण्याय कर्मण इत्येतमुद्दिश्य जीवानां पुण्यकर्म कर्तुम् । तैर्हि स्तुत्यादिकर्माणि कृतानि श्रोत्रेण शृणोति भगवान् । दिग्भ्योऽप्यन्य एव विशृणोति जीवः । अन्येषां जीवानां श्रवणजं भोगं स्वश्रोत्रेण दिग्भिरननुगृहीतेनैव भगवान् भुङ्क्ते ।न च जीववागादिना पृथिव्यग्नादिकं सृष्टमित्यत्र किञ्चिन्मानमस्ति । मुखादिन्द्रश्चाग्निश्चेत्यादिना भगवतः सकाशाद्धि सर्वेषां सृष्टिः प्रसिद्धा । सृष्टिभेदादन्यथावचनम् । न च मुख्यकारणाङ्गीकारेऽविरोधे औपचारिकं कारणमङ्गीकर्तुं युक्तम् । अतिप्रसङ्गात् । न हि यत्ककिञ्चित् कारणत्वमस्तीत्येतावता ब्राह्मणस्य चण्डालः पितेत्युच्यते । पितृत्वं चात्रोक्तं वाचं पितरमित्यादिना ।

मनुष्याणां तु यत्कर्म न देवोत्पत्तिकारणम् ।

दैवतैरुपकारस्तु क्रियते नरकर्मणाम् ॥

देवानां कर्मणैवैते जायन्ते सर्वमानुषाः ।

प्रधानत्वान्न देवानां नृकर्मोत्पत्तिकारणम् ॥

इति च ब्रह्माण्डे ।

आह महिदास ऐतरेय इति तु सर्वस्य वचनस्य तदीयत्वज्ञापनार्थं न तु सन्निहितस्यैव । यथेन्द्रं कुत्स इत्यादि । यथा च पूर्वं तु बादरायणो हेतुव्यपदेशात् इति ॥ ८ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके प्रथमोऽध्यायः ॥