ॐ कोऽयमात्मेति वयमुपास्महे

ऐतरेयोपनिषद्भाष्यम्

द्वितीयारण्यके

षष्ठोऽध्यायः

ॐ कोऽयमात्मेति वयमुपास्महे । कतरः स आत्मा । येन वा पश्यति । येन वा शृणोति । येन वा गन्धानाजिघ्रति । येन वा वाचं व्याकरोति । येन वा स्वादु चास्वादु च विजानाति ।

अयं विष्णुर्हि किंरूप उपास्योऽस्माभिरच्युतः । इत्यपृच्छद् रमा देवी महिदासं जनार्दनम् ॥ आह तां महिदासोऽथ पूर्णानन्दतमस्त्विति । उपास्यस्तादृशो ह्यस्य स्वभावः परमात्मनः ॥ येन जीवो दर्शनादीन् प्रेरितः कुरुते सदा ।

यदेतद्धृदयं मनश्चैतत्सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामोऽवश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ।

यो विष्णुर्हृदयमिति हृद्गतत्वात् प्रकीर्तितः ॥ मन्तृत्वान्मन इत्येव यच्च ज्ञातृस्वरूपतः । एतत्सन्निहितत्वाच्च पूर्णत्वादेति कीर्तितः ॥ इतत्वाच्च ततत्वाच्च स इतन्नाम केशवः । गुणानामुच्चयो यस्मात् स च इत्येवशब्दितः ॥ सम्यग्ज्ञानस्वरूपत्वात् सञ्ज्ञानमिति कीर्तितः । आततज्ञानरूपत्वादाज्ञानं भगवान् हरिः ॥ विविधज्ञानरूपत्वाद्विज्ञानमिति कीर्तितः । प्रकृष्टात्मगुणज्ञानरूपः प्रज्ञानमुच्यते ॥ अविस्मृतित्वान्मेधा स दृष्टिर्दर्शनरूपतः । धृतिर्धारणरूपत्वात् मतिर्मासु ततत्वतः ॥ मनुनाम्नामजादीनां मनीषेशो यतो हरिः । सर्वप्रेरकरूपत्वाज्जूतिरित्यभिधीयते ॥ सर्वदेशेषु कालेषु स्वरूपेषु च सर्वशः । समं रमत इत्येव स्मृतिर्नाम जनार्दनः ॥ सर्वस्य क्ऌप्तिकर्तृत्वात् सङ्कल्प इति गीयते । क्रतुः स सर्वकर्तृत्वादसुरप्यसनाद्धरिः ॥ अमेयानन्दरूपत्वात् काम इत्यभिधीयते । अवशः स स्वतन्त्रत्वात् त्रयोविंशतिनामकम् ॥ यो वेदैवं हरिं सम्यङ् मुच्यतेऽखिलसंमृतेः ।

ऐष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिजानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्त्रि च यच्च स्थावरं सर्वं तत्प्रज्ञाननेत्रम् । प्रज्ञाने प्रतिष्ठितम् । प्रज्ञानेत्रोऽलोकः । प्रज्ञा प्रतिष्ठा । प्रज्ञानं ब्रह्म ।

ब्रह्मा शिवश्च शक्रश्च देवाश्चान्ये समस्तशः ॥ तथैव पञ्चभूतानि पुण्यपापविमिश्रिताः । क्षुद्रात्मानस्तु ये मर्त्या इतरे असुरा अपि ॥ सर्वं जगदिदं विष्णोर्वशे तिष्ठति सर्वदा । तेनैव नीयते नित्यं तस्मिन्नेव प्रतिष्ठितम् ॥ मुक्ता येऽलोकनामानो नीयन्ते तेऽपि विष्णुना । स्वयं चानन्यनिष्ठत्वात् प्रतिष्ठेत्यभिधीयते ॥ देशतः कालतश्चैव गुणतश्चातिपूर्तितः । विष्णोर्ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित्॥

स एतेन प्रज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥

सोऽलोकनामा मुक्तास्तु चितिमात्रस्वरूपतः । प्रकृष्टज्ञानरूपस्य प्रसादात् परमात्मनः ॥ अस्माद्देहात् समुत्क्रम्य गत्वोर्ध्वं लोकमुत्तमम् । अमृतः सन् विष्णुलोके भोगान् सम्प्राप्य पुष्कलान् ॥ भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम् ॥ इत्याद्यैतरेयसंहितायाम् ।

जानन्त्यापि देव्या लोकानुग्रहार्थं विशेषज्ञानार्थं च कोऽयमात्मेति पृष्टः स भगवानाह । कतरः स आत्मेति । कतरः आनन्दतमः ।

यत्रोभयोः प्रयोगो न तत्रैकार्थो तरप्तमौ इति शब्दनिर्णये ।

यत्प्रेरणादयं जीवो दर्शनादीन् करोति च । रमाब्रह्मादीनामपि तत्प्रेरितत्वात् । सर्वेषां दर्शनादिकारणत्वमेकैकमपि तस्य लक्षणं भवतीति वाशब्दः सर्वत्रानुषज्यते ।प्रजापतिः शिवः लिङ्गाभिमानित्वात् ।

प्रजापतिः शिवः शेषो लिङ्गमित्यभिधीयते । लिङ्गाभिमानी लोकस्य स्रष्टा गिरिश एव हि ॥इति शैवपुराणे ।

सममस्त्वनयोर्युद्धमिति प्राह प्रजापतिः । वाक्यं शिवस्य तत् श्रुत्वा शक्रो नेत्याह सत्वरः ॥ इति भारते ।

क्षुद्रमिश्राणीव बीजानि शाल्यादिबीजवत् । भिन्नस्वभावा ब्रह्मादयः सर्वजीवाः । ब्रह्माद्याः सर्व एवैते जीवा भिन्नस्वभावकाः । यथा शाल्यादिबीजानि भिन्नवीर्यानि सर्वशः ॥ इति सत्तत्त्वे ।

प्रथमेतराणीतिशब्दो मानुषाणाम् । द्वितीयो सुरादीनाम् । प्रज्ञानेत्रोऽलोक इति । अलोकशब्देन मुक्तसमुदाय उच्यते । ब्रह्मादिस्थावरान्तस्य लोकस्य सर्वं तत्प्रज्ञाननेत्रमिति विष्ण्वधीनत्वस्य पूर्वमेवोक्तत्वात् पुनः प्रज्ञाननोत्रोऽलोक इति मुक्तविषयमेव । मुक्तो ह्यलोक्यत्वादलोकः ।

अण्डजानि चेत्याद्युक्त्वा पुनरश्वा गाव इत्यादि देवादीनां मन आदेरेव जातानामपि स्वीकारार्थम् । अण्डजत्वाद्युत्पत्तिप्रकारोऽपि विष्ण्वधीन इति ज्ञापयितुं तत्कथनम् । तथाऽश्मानस्तृणकाष्ठाश्च सर्वे दिदृक्षये स्वां प्रकृतिं भजन्ते इति भारतवचनादश्मादीनामपि प्राणित्वात् तत्स्वीकारार्थं प्राणीति । गमनपतनस्थिरत्वादयोऽपि भावा विष्ण्वधीना इति ज्ञापयितुं जङ्गममित्यादिवचनम् ।

स एतेनेत्यलोकशब्दोक्तो मुक्तः परामृश्यते । सकलकर्ममुक्त्यनन्तरं हि शरीरादुत्क्रामति । प्रकृष्टज्ञानरूपेण विष्णुना प्रेरितः प्रज्ञेनात्मनैवोत्क्रम्य तेनैव सर्वान् कामानाप्त्वा तेनैव सर्वान् कामान् स भुङ्क्ते इति सर्वत्रानुषज्यते । प्रज्ञानेत्रोऽलोक इत्युक्ते कथं प्रज्ञानेत्रो मुक्त इत्याकाङ्क्षायां तस्यैव व्याख्यानं स एतेन प्रज्ञेनात्मनेत्यादि । अनुक्तविशेषणानामपि भगवदधीनत्वज्ञापनार्थं प्रज्ञानेत्रो लोक इति सामान्यवचनम् ।

अनारब्धफलानां च प्रारब्धानां च सर्वशः । कर्मणां दाह एवायं मुक्तिरित्यभिधीयते ॥ स तु मुक्तस्ततो देहादुद्गच्छति परात्मना । प्रेरितो विष्णुलोकं च प्राप्य भोगानवाप्य च ॥ भुङ्क्ते विष्णुप्रसादेन न विष्णोरवशः क्वचित्। विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोऽखिलाः ॥ इति ब्रह्माण्डे ।

ब्रह्मेन्द्रादिशब्दा विष्णावेव मुख्यत इति तद्व्यावृत्त्या जीवानां स्वीकारार्थमेष इत्यादिशब्दः । स हि भगवान् स्वनेत्रकोऽपि नानुग्राह्यः । अनुग्राह्यत्वं हि ब्रह्मादीनामत्र विवक्षितम् । नेयताऽनुग्राह्यतापि न सा विष्णोः स्वतोऽपि तु इति शब्दतत्त्वे ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयारण्यके षष्ठोऽध्यायः ॥