स्वतन्त्रो भगवान् विष्णुः

॥ श्रीः ॥

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक लक्ष्मीहयग्रीवाय नमः ॥

अधुनानन्दतीर्थीयप्रक्रिया हृदयङ्गमा । श्रुतिस्मृतिपुराणादिसिद्धा संक्षिप्य वर्ण्यते ॥

स्वतन्त्रो भगवान् विष्णुः

तत्रादौ तत्वं निरूप्यते । अनारोपितं तत्वम् । प्रमितिविषय इति यावत् । एवञ्च तस्य भावस्तत्वमित्यादि खण्डनानवकाशः । शुक्तिकारजतादिकञ्च न तत्वम् । आरोपितत्वात् । शुक्तिकादौ आरोपितं रजतादिकं अन्यत्र सदिति चेन्न । अत्यन्तासदेव रजतादिकं दोषवशात् शुक्तिकादावारोप्यत इत्यङ्गीकारात् । अन्यथाख्यातिवादेऽपि यदंशे ज्ञानस्य भ्रमत्वं तदंशे तस्यासद्विषयत्वस्य दुर्वारत्वात् । सदुपरागेणासतोऽपि भानमित्यङ्गीकाराच्च । तस्मादनारोपितं तत्वमित्यङ्गीकर्तव्यम् ।

तच्च द्विविधम् । स्वतन्त्रमस्वतन्त्रं चेति । स्वरूपप्रमितिप्रवृत्तिलक्षणसत्ता त्रैविध्ये यत्परं नापेक्षते तत्स्वतन्त्रम् । तत्र यत्परापेक्षं तदस्वतन्त्रम् |

न च तत्वमेव नास्तीति शंक्यम् । प्रत्यक्षादिविरोधात् । न च प्रत्यक्षादेः भ्रमत्वम् । बाधकाभावात् । निरधिष्ठानभ्रमस्य निरवधिकबाधस्य चादर्शनेन चायोगाच्च । नास्त्येव तत्वमित्यस्यार्थस्य प्रमितत्वाप्रमितत्वाभ्यां व्याहतत्वाच्च । यदि चैकमेव तत्वं तदा भेदोपलम्भविरोधः । यदि व स्वतन्त्रमेव तत्वं तदा पारतन्त्र्यप्रतीतिविरोधः । नित्यसुखादिप्रसङ्गश्च । यदि च परतन्त्रमेव तत्वं भवेत्तदानवस्थितेरसम्भवाश्च न कस्यापि सत्तादिकं स्यात् । आगमविरोधश्च भवेत् । तस्मात् स्वतन्त्रमस्वतन्त्रं चेति तत्वद्वैविध्यं दुर्वारम् ।

ननु प्रथमं भावाभावतया चेतनाचेतनतया नित्यानित्यतया वा तत्वं विभज्यताम् । न तूक्तविधया इति चेत् । न । स्वतन्त्रमस्वतन्त्रं चेति तत्वं द्विविधमिति विभागस्य सप्रयोजनत्वात् । परतन्त्रप्रमेयं स्वतन्त्रप्रमेयायत्ततया विदितं हि निःश्रेयसाय भवति । अन्यथा गङ्गावालुकादिपरिगणनवदिदं तत्वपरिगणनमपार्थकं स्यात् । किञ्च तत्वं द्विविधम् । भावोऽभावश्च । भावोऽपि द्विविधः । नित्योऽनित्यश्च । नित्योऽपि द्विविधः । चेतनोऽचेतनश्च । चेतनोऽपि द्विविधः । स्वतन्त्रोऽस्वतन्त्रश्चेत्येवमाकारेण तत्वविभागे भगवतः प्राधान्येन प्रतिपत्तिर्न स्यात् । भगवयतिरिकस्य सर्वस्यास्वातन्त्र्यप्रतिपत्तिश्च न भवेत् । अतः स्वतन्त्रमस्वतन्त्रं चेत्येव तत्वविभागः कार्यः ।

नन्वेवं तत्वविभागे स्वतन्त्रतत्वस्य भावत्वादिकमविदितं स्यादिति चेत् । न । स्वातन्त्र्यज्ञानस्येव भावत्वादिज्ञानस्य पुरुषार्थोपयोगित्वाभावेन दोषाभावादस्वतन्त्रतत्वस्यैव भावत्वचेतनत्वादिकमित्यर्थस्याविवक्षितत्वेन विरोधाभावाच्च । तत्पक्षेऽप्यभावादीनां नित्यत्वाद्यनुक्तेस्तुल्यत्वाच्च । अतः स्वतन्त्रमस्वतन्त्रं चेति तत्वविभागे न किञ्चिद्बाधकम् । तत्र स्वतन्त्रतत्वं भगवान्विष्णुरेव नान्यः । तथा च श्रुतिः । ' तस्येशे कश्चन ( महानारायणोपनिषत् खं. १. मं. १०) | न चास्य कश्चित् जनिता न चाधिपः (श्वेताश्वतरोपनिषत् अ. ६, मं. ९) इत्यादिका ।

ननु जगजन्मादिकारणं ब्रह्मैव हि स्वतन्त्रं तत्वम् । तत्कथमुच्यते स्वतन्त्रतत्वं विष्णुरिति । सत्यम् । विष्णोरेव परब्रह्मत्वात् । तथा च श्रुतिस्मृतयः । कारणरूपमेकाकारं परं ब्रह्म शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्नासीदिति । ' नारायणः परं ब्रह्म' (महानारायणोपनिषत्-(खण्ड ११, मं. ४) ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ' । इति । यथा च विष्णोरेव निखिलजगजन्मादिकारणत्वेन परब्रह्मत्वं न शिवादेः तथोक्तं पाशुपतमतनिराकरणे । अतो विष्णुरेव स्वतन्त्रतत्वम् ।

द्व्यतिरिक्तं सर्वमस्वतन्त्रम् । तच्च द्विविधम् । भावरूपं अभावरूपं चेति । यद्वस्तु प्रथमप्रतीतौ अस्तीत्युपलभ्यते स भावः । यच्च प्रथमप्रतीतौ नास्तीति प्रतीयते सोऽभावः । भावाभावयोः स्वरूपेण विधिनिषेधरूपत्वात् । रूपांतरेण तु भावाभावयोर्निषेधविधिरूपत्वम् । तत्रापातजायां संविदि स्वरूपमेव भासते । द्वितीयादिप्रतीतौ तु रूपांतरम् । कार्यगम्यत्वात् सामग्रीभेदस्य । तथा च प्रतीतिः । ' अस्त्यत्र घटः स न शुक्ल ' इति । एवं ' नास्त्यत्र घटोऽस्ति घटाभाव' इति च । नच अभावस्यैवाभावात् अयं विभागो न युक्त इति वाच्यम् । भावस्येव तस्याप्यबाधित प्रत्यक्षादिप्रमाणसिद्धत्वात् । घटाभावो घटाभाववति भूतले किं सम्बध्यते किं वा घटवति । नाद्यः । आत्माश्रयादिप्रसंगात् । न द्वितीयः । विरोधादित्याक्षेपस्यापि भावपदार्थमात्रेऽपि संभवेन भावपदार्थमात्रविलोपप्रसंगाश्च । तस्माद्भावाभावात्मकतया अस्वतन्त्रतत्वविभागकरणं युक्तम् । तत्राभावस्त्रिविधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावश्चेति । उत्तरैकावधिरभावः प्रागभावः पूर्वैकावधिरभावः प्रध्वंसाभावः । निरवधिकाभावोऽत्यन्ताभावस्त्रैकालिकोऽभाव इति यावत् । अन्योन्याभावस्तु भेदात्मा । स च तत्तद्वस्तुस्वरूप एव । तदतिरेके प्रमाणाभावात् । तदुक्तम् -भावाभावस्वरूपत्वात् नान्योन्याभावता पृथक् । इति । न चैवं प्रागभावादीनामप्यपलापः स्यादिति शंक्यम् । तेषामनन्यथासिद्धप्रमाणसिद्धत्वेन दुरपह्नवत्वात् । तस्मात् त्रिविध एवाभावः ।

एवं भावोऽपि द्विविधः चेतनोऽचेतनश्चेति । 'चेतयते' इति व्युत्पत्या चेतनशब्देनात्ममात्रमुच्यते । अनेवंविधोऽचेतनो जडवर्गः । तत्र चेतनोऽपि द्विविधः । दुःखस्पृष्टस्तदस्पृष्टश्चेति । कदाचित् दुःखसंबन्धवान् दुःखस्पृष्टः । सर्वदा दुःखसंबन्धरहितो दुःखास्पृष्टः । न च दुःखादीनां कल्पितत्वेन दुःखस्पृष्टमेव नेति वाच्यम् । दुःखादीनां कल्पितत्वेऽपि दुःखसंबन्धतद्राहित्याभ्यां जीवेश्वरविभागस्य सर्वैरप्यभ्युपगन्तव्यत्वात् । त्वयापि व्यावहारिकमर्यादाया अभ्युपगतत्वाश्च । दुःखादीनां साक्ष्यादिसिद्धत्वेन कल्पितत्वोक्तेरयोगाच्च । नचेश्वरव्यतिरेकेण कश्चिदपि सदा दुःखसंबन्धरहितो नेति शंक्यम् । लक्ष्म्या एव तथाविधायाः सत्वात् । न च तस्या अपि कदाचित् दुःखसंबन्धोऽस्तीति शंक्यम् । विष्णोरिव तस्या अपि सर्वदुःखराहित्यस्य श्रुत्यादिप्रमाणसिद्धत्वात् । तथा च श्रुतिः-'अस्येशाना जगतो विष्णुपत्नीति । न हि दुःखसंबन्धे तस्या जगदीशानत्वं संभवति । न चानन्तगरुडविष्वक्सेनादयोऽपि सर्वदा दुःखसंवन्धरहिता इति वाच्यम् । तेषां तथात्वे प्रमाणाभावात् । प्रत्युत तेषु कदाचिद्दुःखसंबन्धस्य पुराणेतिहासादिप्रतिपन्नत्वाश्च । न च नित्यवैकुण्ठलोकमङ्गीकुर्वद्भिर्नारायणपरिवारभूतानामनन्तगरुडादीनां नित्यमुक्तत्वमङ्गीकरणीयम् । अन्यथा नारायणस्य अनंतगरुडादि परिवारराहित्यमपि कदाचित्स्यादिति वाच्यम् । तेषां प्रवाहानादित्वाभ्युपगमेनोक्तदोषाभावात् । तस्मात् लक्ष्मीरेव ईश्वरवन्नित्यं दुःखास्पृष्टा तद्भिन्नाः सर्वेऽपि चेतना दुःखस्पृष्टा इत्येव तत्वम् ।

ते च द्विविधाः । दुःखाद्विमुक्ता वर्तमानदुःखाश्चेति । तत्र दुःखाद्विमुक्ताः पञ्चविधाः । देवाः ऋषयः पितरश्चक्रवर्तिनो मनुष्योत्तमा इति । गन्धर्वादीनामुकेष्वेवांतर्भावेन न प्रमाणांतरविरोधः ।

वर्तमानदुःखा आपे द्विविधाः । मुक्तियोग्यास्तदयोग्याश्च इति । मुक्तियोग्या अपि दुःखविमुक्तवत् पञ्चविधाः । देवाः ऋषयः पितरचक्रवर्तिनो मनुष्योत्तमा इति । मुक्त्ययोग्याश्च द्विविधाः । नित्यसंसारिणः तमोयोग्याश्चेति । न च नित्यसंसारिणो न सन्तीति युक्तम् । (तेषां) संसारप्रवाहाविच्छेदस्य श्रुतिस्मृत्यादिसिद्धत्वात् । तथा च श्रुतिस्मृती-एषोऽश्वत्थः सनातनः' (कठ) 'अश्वत्थं प्राहुरव्ययमिति (भ.गी. अ. १५, लो. १) । न ह्यश्वत्थशब्दितस्य संसारस्य सदातनत्वमव्ययत्वं च प्रवाहतो विच्छेदे संभवति । तमोयोग्याश्च 'मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् इत्यादिभगवद्वचन सिद्धाः दैत्या रक्षांसि पिशाचा मनुष्याधमाश्चेति । तेऽपि चतुर्विधा अपि प्रत्येकं द्विविधाः । प्राप्ततमसः प्राप्तव्यतमसश्चेति । एवं चेतन विभागो विस्तरेणोपपादितः ।

अथ अचेतन विभागस्तु क्रियते । अचेतनं तावत् त्रिविधम् । नित्यं नित्यानित्यं अनित्यं चेति । नच सर्वस्य क्षणिकत्वात् नित्यमेव नास्तिति शंक्यम् । क्षणिकत्वस्य प्रबलप्रत्यभिज्ञाविरुद्धत्वेनानङ्गीकर्तव्यत्वात् । नचासौ भ्रांतिः । बाधकाभावात् । नच ' यत् सत् तत् क्षणिकमिति व्याप्तिर्बाधिका । तथाविधव्याप्तेरेवाभावात् । नच दीपज्वालादौ व्याप्तिः सिद्धेति शंक्यम् । तथापि त्वदभिमतक्षणिकत्वस्यासम्प्रतिपत्तेः । ध्र्रुवाद्यौः ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । ध्रुवं विश्वमिदं जगत् । ध्रुवो राजा विशामयम्' इत्यादिश्रुत्या सर्वपदार्थानामक्षणिकत्वावेदनाच्च । क्षणिकत्वं हि तवोत्पत्तिक्षणान्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वमेवाभिमतम् । न चैतादृशं क्षणिकत्वं कस्यापि दृष्टचरम् । उत्पत्त्यनन्तरं स्थित एव ध्वंससामग्री संपत्तौ ध्वंसप्रतियोगित्वानुभवात् । ज्वालादौ प्रतिक्षणं परिमाणभेददर्शनेन क्षणिकत्वाभ्युपगमेऽपि घटादौ स्थायित्वस्य सर्वानुभवसिद्धत्वेन तस्यानंगीकार्यत्वाच्च । यत्र तु ज्वालादौ तथाविधपरिमाणभेदो न दृश्यते तत्र स्थायित्वस्यैवाभ्युपगन्तव्यत्वाच्च

किञ्च पदार्थमात्रस्य क्षणिकत्वे घटादेः प्रत्यक्षतोऽनुपलम्भप्रसङ्गः । प्रत्यक्षस्यासम्यद्धग्राहित्वेऽतिप्रसंगात् । चक्षुरादिकं हि स्वसम्बद्धमेव घटादिकं स्वजन्यज्ञानद्वारा विषयीकरोतीत्युपेयम् । सम्बन्धश्च घटादेः क्रिया कियातो विभागः । विभागात् पूर्वदेशसंयोगनाशः उत्तरदेशसंयोगोत्पत्तिः । इति प्रणाडया निष्पद्यत इति कृत्वा । किञ्च कृतहानादि-प्रसंगेन आत्मादेर्नित्यत्यमंगीकरणीयम् । यथा चात्मादिनित्यत्वं तथोक्तं सौगतमतनिराकरणे । तस्मान्नित्यं वस्त्वंगीकरणीयम् ।

एतेन ' र्वं नित्य ' मिति सांख्यमतमपि निरस्तम् । सृष्टिप्रलयादि-प्रतिपादकश्रुतिस्मृतिपुराणविरोधात् । अभिव्यक्त्यनभिव्यक्ती एव सृष्टि-प्रलयाविति चेत् । अभिव्यक्तिवादस्य सांख्यमतनिराकरणप्रस्तावे निराकृतत्वात् । त्वत्पक्षे अभिव्यक्तेरपि विद्यमानत्वेन सामग्रयास्तदर्थत्वायोगादिति । तथा च नित्यमनित्यंचांगीकर्तव्यम् ।

नन्वेवमपि नित्यानित्यं नांगीकार्यम् । नित्यत्वानित्यत्वयोरेकत्रायोगात् । अन्यथा सदसद्विलक्षणमनिर्वचनीयमिति अद्वैतरीत्या सदसद्विलक्षणमनिर्वचनीयं किञ्चित्सिध्येत् । अन्यथा त्वयोच्यमानमस्मन्मतदूषणमसंगतं स्यादिति चेत् । न । स्वरूपप्रयुक्तनित्यत्वस्य तत्तदवस्थाप्रयुक्तानित्यत्वस्य चैकस्य प्रमाणप्रमितत्वेन त्यागायोगात् । सदसद्विलक्षणत्वस्य च प्रमाणाभावेनानंगीकार्यत्वाच्च । न च शुक्तिरूप्यमेव सदसद्विलक्षणतया प्रमाणप्रतिपन्नमिति शंक्यम् । अनिर्वचनीयरजतोत्पत्तेः शंकरमतनिराकरणप्रस्तावे निराकरणात् शुक्तिकादिविषयरजतज्ञानस्य ( मतांतररीत्या देशांतरगतरजतादिविषयत्वेन वा ) असद्रजतविषयत्वेन उपपन्नतया सदसद्विलक्षणानिर्वचनीयरजतोत्पत्तेरनंगीकार्यत्वाच्चेति तस्मान्नित्यवत् अनित्यवच्च नित्यानित्यस्याप्यंगीकारे न किञ्चिद्बाधकम् । तत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां पञ्चाशद्वर्णानां अव्याकृताकाशस्य च अंगीकर्तव्यम् । तेषामेव धर्मिग्राहकमानेन तथैव सिद्धत्वात् । यद्यपीश्वरस्य जीवानां च कूटस्थनित्यत्वमंगीकृतम् । तथाप्यत्र वेदादीनामेवेत्यनुक्तेर्न कश्चिद्दोषः । यच्च सर्वात्मना कूटस्थं न भवति नाप्यनित्यं तदुच्यते नित्यानित्यमिति । तच्च त्रेधा संभवति । उत्पत्तिमत्वे सति विनाशाभावेन, एकदेशेनोत्पत्तिविनाशौ । *

एकदेशिनस्तदभावः । स्वरूपेणोत्पत्याद्यभावेऽपि अवस्थागमापायवत्वं चेति । तदेतद्विधात्रयं क्रमेण पुराणकालप्रकृतिषु दृश्यत इति । पुराणादिपौरुषेयग्रन्थस्य पुरुषैरुत्पाद्यमानक्रमकत्वेऽपि तस्य क्रमस्येश्वरबुद्धौ वेदक्रमस्येवोत्तरावधिशून्यतया प्रतीयमानत्वेन विनाशाभाव इत्यर्थः । क्षणलवाद्येक देशैरुत्पत्तिविनाशवत्वेऽप्येकदेशवतोंऽशिनः कालस्य प्रवात आद्यन्तशून्यत्वेनोत्पत्तिविनाशयोरभावः । जडोपादानप्रकृतेश्च स्वरूपत उत्पत्तिविनाशयोरभावेऽपि महदाद्यात्मकत्वावस्थाविशेषेण तौ स्त इति-

(* इतःपरं मूलग्रन्थभागो नोपलभ्यते । अतो न्यूनतापरिहाराय तदनु-न्धितत्प्रमेयप्रतिपादकग्रन्थभागं समायोज्य प्रकाश्यते ।)

तदेतद्विधात्रयमुक्तवस्तुत्रयेऽस्तीति नित्यानित्यविभागोऽपि प्रामाणिक एव । पुराणानामुत्पत्तिमत्वेपुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु । क्रियन्तेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत्" इत्यागमः प्रमाणम् । " सर्वे निमेषाज्ञिरे " इत्याद्यागमः कालैकदेशोत्पत्तौ मानम् । प्रकृतेः स्वरूपतो जन्माद्यभावेऽपि " विकारोऽव्यक्तजन्म हि " इति प्रमाणेन महदाद्यात्मना विकार एवाव्यक्तस्य प्रकृतेर्जन्म उच्यते ।

नन्वत्र यस्योत्पत्त्यादिकं तदनित्यमेव । यस्य चोत्पत्तिर्नास्ति तन्नित्यमेव । नित्यानित्यं वास्तीति चेन्मैवं स्यादेतदेवं यद्यंशांशिनोर्विकारविकारिणोर्वा अत्यन्तमेदः स्यात् । न चैवम् । यन्न सर्वथा कूटस्थं नाप्यनित्यमेव तदुच्यते नित्यानित्यमिति नित्यानित्यस्वरूपं प्रादर्शि ।

पुराणादेः क्रमविशेषविशिष्टवर्णात्मकत्वात् विशिष्टरूपेणोत्पत्तिमत्वेपि विशेष्यभूतवर्णरूपेण तदभावान्नित्यानित्यत्वमिति । कार्यकारणयोर्भेदाभेदस्य प्रसिद्धत्वात् विशिष्टशुद्धयोश्च क्वचिदत्यन्ताभेदस्य क्वचिद्भेदाभेदस्य लाभात् (सत्वात् ) पुराणादीनां वर्णादिना खण्डितत्वेन भिन्नाभिन्नतया नित्यानित्यत्वोपपत्तिरित्याशयः । तथा च पुराणादेः विशिष्टरूपेणोत्पतिमत्वेऽपि विशेष्यभूतवर्णरूपेण तदभावान्नित्यानित्यत्वं बोध्यम् । अनित्यं असंसृष्टं संसृष्टमिति द्विविधं मतम् । सम्यक् सृष्टं संसृष्टम् । अतथाभूतमसंसृष्टम् । तत्र चतुर्विंशतितत्वानि महदादीन्यसंसृष्टानीत्युच्यते । तानि च महत्तत्वं अहंकारतत्वं, बुद्धितत्वं, मनस्तत्वं दशेन्द्रियाणि पञ्चतन्मात्राणि पञ्चभूतानि चेति । महदादीनां सूक्ष्मरूपेण नित्यानां प्रकृत्याद्यंशैरूपचयमात्रं क्रियत इति तान्यसंसृष्टानि । प्रकृतिगुणत्रयांशैः महदादीनां स्थूलरूपनिष्पत्तिरूपोपचयः संभवति । एवञ्च साक्षान्मूलरूपस्य सूक्ष्मशब्दितस्योपादानत्वात्साक्षान्नित्योपादानत्वं महदादीनामस्तीति तान्यसंसृष्टानि । ब्रह्माण्डं तद्गतं च समस्तं संसृष्टमिति संप्रकीर्तितम् । ब्रह्माण्डस्य तद्गतस्य सर्वस्यापि साक्षान्नित्योपादानकत्वाभावादनित्यांशैरत्युपचयात्सम्यक् सृष्टत्वमुक्तम् !

तार्किकास्तु महदादिस्वरूपमेव नाङ्गीकुर्वन्ति । तेषान्त्वागमविरोधोऽपरिहार्यः । तथाहि तत्रागमः-

महाभूतान्यहंकारो बुद्धिख्यक्तमेव च ।

इन्द्रियाणि दशकं च पञ्चचेन्द्रियगोचराः (इति भगवद्गीतासु)

इन्द्रियेभ्यः परा ह्यर्थाः अर्थेभ्यश्च परं मनः ।

मनसस्तु परा बुद्धिः बुद्धेरात्मा महान्परः ॥

महतः परमव्यक्तं अव्यक्तात्पुरुषः परः ।

पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः (काठकोपनिषत्)

मानाधीना मेयसिद्धिरितिन्यायात् प्रमाणप्रमितत्वाद्भगवतः स्वतन्त्रतत्वस्य हरेः भावत्वं, चेतनत्वं, नित्यमुक्तत्वं नित्यत्वं तदतिरिक्तचेतनानामस्वतन्त्रकोटिप्रविष्टानामपि नित्यत्वमेवमभावस्याचेतनत्वं तेष्वपि प्रागभावस्यानादित्वे सत्यनित्यत्वं प्रध्वंसाभावस्य सादित्वे सति नित्यत्वं अत्यन्ताभावस्यानादिनित्यत्वं च बोध्यम् ।

यावद्वस्तुभाविनो गुणाद्याः धर्माः सर्वेऽपि स्वाश्रयद्रव्यस्वरूपभूता एव । गुणादीनां धर्मिणा द्रव्येण घटकलशवन्निर्विशेषा भेदाभावात् यथा प्रमाविषयः प्रमेयं अभिधाविषयोऽभिधेय इति बुद्धया विवेकः क्रियते तथा द्रव्यगुणादेरपि निर्विशेषाभेदाभावात् बुद्धया विवेकः क्रियते । तच्च गुणादिकं द्रव्यस्वरूपमपि यावद्वस्तुभावि खण्डितं चेति द्विविधम् । यच्च गुणादिकं यावत्कालं द्रव्यं तिष्ठति तावत्कालं तिष्ठतीत्येवमभिप्रेत्य यावद्वस्तुभावीति कथ्यते । तत्र च गुणगुणिनोः सविशेषात्यन्ताभेदः । सत्यपि द्रव्ये यच्च रूपादिकं नश्यति तत्खण्डितमिति गीयते । तत्र यत्खण्डितं गुणादिकं तत्र भेदाभेदौ प्रतिपत्तव्यौ ।खण्डितं रूपमेवात्र विकारोऽपि विकारिणः" इत्याचार्योपदिष्टरीत्या विकारविकारिणोः भेदाभेदौ, कार्यस्योपादेयद्रव्यस्य पटादेः कारणेनोपादानेन तन्त्वादिना भेदः ऐक्यं च विज्ञेयम् । एवं क्रियाक्रियावतोः जातिविशेषयोः, विशिष्टशुद्धयोः अंशांशिनोः यथासम्भवं भेदाभेदौ अत्यन्ताभेदश्च ज्ञातव्यः । गुणगुणिनोरत्यन्तभेद इति तार्किकाः सञ्चक्षते । तन्निर्युक्तिकत्वादश्रद्धेयम् ।

तन्तुपयोर्भेदाभेदौ । आतानवितानात्मकास्तन्तव एव पट इत्य- बाधितप्रामाणिकप्रतीतिबलात्तन्तुपटयोरभेदोऽवश्यमभ्युपगन्तव्यः । तेन सहात्यन्ताभिन्नस्य तस्मिन् सत्यप्यसत्वानुपपत्तेस्तन्तुपयोर्भेदोऽप्यङ्गीकार्यः । न च भेदाभेदौ विरुद्धौ । प्रमाणेन तयोः सहोपलम्भे सिद्धे वैयधिकरण्य नियमोपलम्भे प्रमाणस्याभावेन विरोधस्यासिद्धेः । घटपटादौ तु घटः पटो नेत्यादिप्रत्यक्षसिद्धतया तयोः शुद्धभेदः । तथाचायावद्द्रव्यभावि गुणगुण्यादौ भेदाभेदौ यथा चूतफलश्यामत्वादेः । यावद्-द्रव्यभाविगुणगुण्यादौ सविशेषाभेदः । हस्तकरादौ निर्विशेषाभेदः । क्रियाक्रियातो र्भेदाभेदावित्युक्तं तद्यथा पटचलनयोः भेदाभेदौ । सत्यपि पटे चलनाभावात् । चेतनक्रिययोरत्यन्ताभेदः । एवं जातिव्यक्त्योरपि भेदाभेदौ । तत्र ब्राह्मणत्वपिण्डयोर्भेदाभेदौ । महापातकेन जातेरपायात् । घटत्वघटयोरत्यन्ताभेद एव । विशिष्टशुद्धयोर्विशिष्टस्य विशेष्यस्वरूपस्य च भेदाभेदौ अभेदश्चेति ज्ञातव्यम् । पर्वतस्याग्निमतश्च भेदाभेदौ पर्वतसद्भावेऽपि कदाचिदग्निमतोऽभावात् । विष्णोः सर्वज्ञस्य चात्यन्ताभेद एव । एवमंशांशिनोरत्यन्ताभेदो भेदाभेदौ च बोद्धव्यौ । तत्रैकांशेन भेदाभेदौ । एकांशापगमेऽपि अंशिनोऽवस्थानात् । सर्वैरंशैस्त्वत्यन्ताभेद एवेति । ते मिलिता वृक्षा वनं, एते गजाश्वदयो मिलिताः सेना, ते मिलितास्तन्तव एव पटः, एते खण्डपटा मिलिता महापटो नान्य इति प्रामाणिकानुभवात् ।

तन्त्वादिकारणातिरिक्तांशो नास्तीति केचन समाचक्षते । तत्प्रमाणविरुद्धम् । प्रत्यक्षत एव पटादयंशिनां तन्त्वाद्यतिरिक्तांशप्रतीतेः । हस्तवितस्त्याद्यवच्छेद्यानां ततो न्यूनपरिमाणेभ्यः तन्तुभ्योऽधिकपरिमाणपटाच्या तिरेकप्रतीतेः कारणातिरिक्ता अंशाः अवश्यमेवाभ्युपगन्तव्या इति ।

तदेतदस्वतन्त्रतत्वं भावाभावभेदभिन्नं जगत् परमपुरुषाधीनतयाऽवगतं देव पुरुषार्थोपयोगीति मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेनावश्यमवगन्तव्य इति सकलसच्छास्त्राणामविप्रतिपन्नोऽर्थः ।

तदुक्तम्-

सृष्टिरक्षाहतिज्ञाननियत्यज्ञानबन्धनान् ।

मोक्षं च विष्णुतश्चैव (तस्त्वेव) ज्ञात्वा मुक्तिर्न चान्यथा ॥ इति ॥

य एतत्परतन्त्रन्तु सर्वेमे हरेः सदा ।

वशमित्येव जानाति संसारान्मुच्यते हि सः ॥ इति च ॥

इत्थमानन्दतीर्थीयप्रक्रिया हृदयङ्गमा ।

संक्षिप्य वर्णिता प्रीत्यै भूयान्माधवमध्वयोः ॥

इति श्रीमदानन्दतीर्थीयप्रक्रियासङ्ग्रहः ।

इत्येकादश परिच्छेदः समाप्तः । ॥ इति शम्