ब्रह्मविदाप्नोति परम्

॥ अथ कौमारिलवैयाकरणमतभङ्गः ॥

इदानीं कौमारिलादिमतं निराक्रियते ।

'ब्रह्मविदाप्नोति परम्'

इत्थं हि कोमारिलप्रक्रिया | वेदस्तावत्प्रमाणम् । स च विध्यर्थवादमन्त्रनामधेय भेदभिन्नो धर्ममेव प्रतिपादयति । तत्र विधीनां साक्षाद्धर्मप्रतिपादकत्वम् | अर्थवादानामनुष्ठेयार्थस्मारकत्वेनोपयोगः । नामधेयानां धात्वर्थावच्छेदकत्वेनेति विवेकः । एवं च सर्वस्यापि वेदस्य धर्मप्रमाणतया धर्मातिरिक्तमीश्वरादिकं न वेदतात्पर्यविषयः- इति । ईश्वरोऽपि नाङ्गीकार्यः । सृष्टिप्रलयावपि नाङ्गीकार्यौ । देहविशेष-विशिष्टाश्चेतनारूपा इंद्रादिदेवा अपि नाङ्गीकार्याः । न च वेदान्तैरीश्वरसिद्धिः सृष्टिप्रलयादिसिद्धिश्चेति वाच्यम् । वेदान्तानामूषरप्रायत्वेन केवलादृष्टार्थत्वोपपत्तेः । यद्वा कर्मकर्ता जीवात्मैव वेदान्तैर्ज्ञातव्य इत्युपदिश्यते । आत्मज्ञानं च कर्तु संस्कारः । एवं चैतावदरे खल्वमृतत्वमित्यादिफलश्रुतिरर्थवादः । तथा च पारमर्षे सूत्रम् । 'द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यादिति (जै. सू. अ. ४, पा. ३- अधि. १, सू. १) । मोक्षश्च निष्कामकृतकर्मभ्य एव भवति । कर्मणां मोक्षसाधनत्वनिषेधश्च सकामकृतकर्मविषयः । न च निष्कामकृतकर्मणां मोक्षसाधनत्ये सकामकृतकर्मणां च बन्धहेतुत्वे प्रमाणाभावः । कर्मणा मृत्युमृषयो निषेदुः । प्रजावन्तो द्रविणमिच्छमानाः ' अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः । 'न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ' इत्यादिश्रुतीनां (कैवल्योपनिषत् खं. १, मं. ३) सत्वात् । अत्र प्रजावन्तो द्रविणमिच्छमाना ऋषयः कर्मणा मृत्युं निषेदुरिति सकामकृतकर्मणां मृत्युशब्दितबन्धहेतुत्वोक्त्या मनीषिणोऽपरे ऋषयः कर्मभ्यः परममृतत्वमानशुः इत्यमृतत्वसाधनतयोक्तानां कर्मणां निष्कामकृतत्वलाभात् । 'त्यागेनेत्यत्रापि फलाभिसन्धित्यागमात्रस्य विवक्षितत्वाच्च । न च श्रुतिद्वयेऽपि कर्मविशेषलाभ्यतया प्रतिपाद्यमानममृतत्वं आभूतसंप्लवं स्थानममृतत्वं हि भण्यते इत्युक्त " गोणामृतत्वमिति शङ्कयम् । त्वन्मतेऽपि एतावदरे खल्वमृतत्वमित्यादौ प्रतिपाद्यमानममृतत्वमपि तथाविधं स्यादिति वक्तुं शक्यत्वात् । परममृतत्वमिति मुख्यत्वरूपपरत्वविशेषणेन तस्य मोक्षरूपत्वावश्यं भावाच्च । तस्माद्वेदान्तानां कर्मकर्तुस्तावकत्वात् कर्मणामेव मोक्षसाधनत्वात् ईश्वरसृष्टिप्रलयक्रिया नाङ्गीकार्या इति । तत्र ब्रूमः ईश्वरः किमिति नाङ्गीक्रियते । किं साधकाभावात् । किं वा बाधकसत्वात् । नाद्यः । भिन्नप्रकरणस्थानां वेदान्तानामेव तत्साधकत्वात् । न च वेदान्तानामूषरप्रायत्वमिति शङ्क्यम् । वेदमात्रस्य तथात्वापातात् । वैदिकेन सर्ववेदानामर्थवत्वेनैव प्रामाण्यस्याङ्गीकार्यत्वात् । न च वेदान्तानां भिन्नकरणस्थत्वेऽपि कर्मकर्तुभूतजीवात्मप्रतिपादकत्वमिति वाच्यम् । 'यतो वे'त्यादीनां जीवात्मप्रतिपादकत्वाभावेन तदतिरिक्तपरमात्मप्रतिपादकत्वस्यावश्यकत्वात् । न च यतो वेत्यादीनां कर्मकर्तृभूतजीवात्मस्तावकत्वमिति शंक्यम् । सर्वेष्वपि वेदान्तेषु जीवातिरिक्तस्य परमात्मन एवं जगत्कारणत्वादिधर्माणामावेदितत्वादनेन तेषां तत्साधकत्वायोगात् । न ह्यन्यस्य प्रतिपादनमन्यस्य स्तुतिर्भवति । न च 'अयमात्मा ब्रह्म'' 'तत्वमसि' इत्यादिना जीव परैक्यप्रतिपादनान्नस्तुतेरन्यनिष्ठत्वमिति वाच्यम् । तत्वमस्थादीनामपि त्वद्रीत्या स्तुतिपरत्वेन तस्य जीव परैक्यसाधकत्वायोगात् । प्रत्यक्षादिप्रमाणान्तरानुसारेण तत्वमस्यादिवाक्यार्थस्यानुसरणीयत्वात् । जडव्रह्मैक्यप्रतिपादनवत् जीव परैक्यप्रतिपादनस्याप्यर्थान्तर परत्वावश्यम्भावाश्च । तस्माद्वेदान्ते जीवातिरिक्तपरमात्मसिद्धिदुर्वारा। न द्वितीयः । वेदान्तैर्जीवातिरिक्तब्रह्मसिद्धौ बाधकाभावात् ।

किं च वेदान्ते जीवातिरिक्तब्रह्मसिद्धौ किं बाधकम् । न तावद्वेदमात्रस्य क्रियापरत्वं तत् बाधकम् । स्वर्गादीनामप्यसिध्यापातात् । तेषामक्रियारूपत्वात् । न च स्वर्गादीनामक्रियारूपत्वेऽपि क्रियाफलप्रतिपादकत्वेन क्रियार्थत्वम् । क्रियास्वरूपसाधनफलेष्वन्यतमप्रतिपादकस्यापि क्रियाप्रतिपादकत्वात् । ब्रह्मणश्योक्तेष्वन्यतमत्वाभावादिति

…………………………………………………………………………………………………………………………………………………

1. बृ. उ. अ. ४, बा. ४, सं. ८ ॥ 2. छ. ६-८-७ ॥

…………………………………………………………………………………………………………………………………………………

वाच्यम् । लोके सिद्धपरवाक्यानामपि बोधकत्वदर्शनेन तन्न्यायेन वेदान्तानां सिद्धब्रह्मप्रतिपादकत्वेऽपि प्रामाण्यस्य दुर्वारत्वात् । कर्मफलप्रदत्वेन सकलकर्म समाराध्यत्वेन च वेदान्तैर्ब्रह्मसिध्युपपत्तेश्च । न च तस्य तत्र प्रमाणाभावः । 'एषह्येव साधु कर्म कारयति' (कौ, ३-८), 'तं यमेभ्यो लोकेभ्य उन्निनीषते', 'इष्टापूर्तम् बहुधा जातं जायमानं विश्वं बिभर्ति ' ' भुवनस्य नाभिः ' 'भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ' फलमत उपपत्ते (त्र. सू. अ. ३, पा. २, सु. ३९ ) रित्यादि श्रुतिस्मृति सूत्राणां सत्वात् । न च तेषामन्यपरत्वम् । यथाश्रुतार्थपरत्वे बाधकाभावात् । तस्माद्वेदानां क्रियापरत्वेऽपि वेदान्तानां सकलकर्मसमाराध्यब्रह्मप्रतिपादकत्वं दुर्वारमिति न तत् ब्रह्मसिद्धौ बाधकम् ।

नापि सृष्टिप्रयाद्यभाव एव ईश्वरसिद्धौ बाधकः । सृष्टिप्रलययोः सर्ववेदान्तेषु प्रतिपादनेन तदसिद्धेः । सृष्टिप्रलययोरीश्वर सिध्यधीनत्वेनान्योन्याश्रय इति चेत् । भ्रान्तोऽसि । न हि वयं सृष्टिप्रलयौ ईश्वरं च कल्पयामः । येनान्योन्याश्रयः स्यात् । किन्तु श्रुतिस्मृतिभिस्तदुभयसिद्धिं ब्रूमः इति ॥

किञ्च " किमीश्वरः स्वार्थं जगत्सृजति परार्थं वा " । नाद्यः । तस्य आप्तकामत्वाभ्युपगमात् । न द्वितीयः । वैषम्यनंर्घृण्यप्रसंगादित्यादिकं तु न बाधकम् । लोकवत्तु लीलाकैवल्य (. सू. २-१-३४) मित्यादिनैव सूत्रकृताऽस्य बाधकस्य परिहृतत्वात् । बाघकान्तरं च ब्रह्ममीमांसायामेव द्वितीयाध्याये विस्तरेण प्रतिक्षिप्तमिति नेह प्रपंच्यते । तस्मादीश्वरसिद्धौ न किमपि बाधकम् ॥

किञ्च मोक्षसाधनीभूतज्ञानविषयत्वेन ब्रह्मसिद्धिः । न च ज्ञानान्नमोक्षः । किन्तु कर्मभ्य एव स इति वाच्यम् | 'ब्रह्मविदाप्नोति परम्' ( तै. उ. ) ' तमेवं विद्वानमृत इह भवति' (पुरुषसूक्तम् ) इत्यादिबहुश्रुतिविरोधापातात् ॥

'न कर्मणा न प्रजया धनेन' (कैवल्योपनिषत् खं. १, मं. ३) इत्यादौ कर्मणां मोक्षसाधनत्वस्य कण्ठत एव निषेधात् । मोक्षसाधनीभूतज्ञानार्थतया कर्मणां मोक्षसाधनत्वोक्त्युपपत्तेश्च । तथा च श्रुतिः ।

'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषंति यज्ञेन दानेन तपसाऽनाशकेन' "विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते । " ( ईशावास्योपनिषदि मन्त्र ११) इत्याद्या ॥

न च ब्रह्मज्ञानस्यैव कर्मार्थत्वमिति वैपरीत्यं शङ्कयम् । मोक्षसाधनत्वेनाभिमतस्य ब्रह्मसाक्षात्कारस्य कर्मार्थत्वे प्रमाणाभावात् । कर्मणां ब्रह्मज्ञानार्थत्वे श्रुत्यादिप्रमाणस्योदाहृतत्वाच्चेति यत्किञ्चिदेतत् ॥ तस्मान्निरीश्वरवादः सर्वात्मना त्याज्यः । जगदनीश्वरमिति वदत्तामासुरप्रकृतित्वेन तेषामसंभाष्यत्वात् । तथा च भगवद्वचनम् । असत्यमप्रतिष्ठन्ते जगदाहुरमीश्वरम् ' इति । (गीता अ. १६, लो. ८)

एवं वेदान्तविरुद्धं कौमारिलप्रक्रियान्तरमपि निरसनीयम्

एतेन जगतः शब्दविवर्तत्वमभ्युपगच्छतां वैयाकरणानां मतमपि निरस्तं वेदितव्यम् । शब्दस्य जगत्कारणत्वे प्रमाणाभावात् । सच्चिदानन्दादिरूपं ब्रह्म हि वेदान्तेषु जगत्कारणत्वेनावेद्यते । शब्दस्य तथात्वाभ्युपगमे नाममात्रे विवाद पर्यवसानात् । वर्णानां वेदानां च नित्यविभुत्वाभ्युपगमेऽपि जगदुपादानत्वायोगाच्च । प्रकृतेरेव जगदुपादानत्वावश्यम्भावाच्च । प्रकृतेश्च प्रत्यक्ष सिद्धशब्द भिन्नत्वावश्यम्भावाश्च । न च स्फोटाज्यशब्दविशेषस्यैव जगदुपादानत्वमङ्गीक्रियते इति वाच्यम् । श्रूयमाणशब्दव्यतिरेकेण स्फोटसद्भावे प्रमाणाभावात् श्रूयमाणशब्दानामेव नित्यत्वाभ्युपगमेन तैरेवार्थप्रतीत्युपपत्तौ तदर्थतया स्फोटस्यानङ्गीकार्यत्वाच्च । व्याकरणसूत्रेषु स्फोटाख्यशब्दाङ्गीकारस्य क्वाप्यदर्शनेन व्याख्यातॄणां तदङ्गीकारस्याज्ञानप्रयुक्तत्वावश्यम्भावेन प्रेक्षावदनुपादेयत्वाच्च । किञ्च स्फोटसद्भावेऽपि तस्य जगदुपादानत्वे प्रमाणाभावः । तावत्तस्य प्रत्यक्षेण जगदुपादानत्वसिद्धिः । जगतः शब्दप्रभवत्वेनादर्शनात् । तस्याप्रत्यक्षत्वोपगमाश्च । नाप्यनुमानेन तत्सिद्धिः । स्फोटे जगदुपादानत्वसाधकस्य लिङ्गस्यादर्शनात् । न चागमेन तत्सिद्धिः । 'द्यावा भूमी जनयन् देव एकः' इत्याद्यागमेन परमात्मनो जगत्कर्तृत्वस्य,मायां तु प्रकृतिं विद्यात्' (श्वेताश्व, , अ. मं. १०) इत्याद्यागमेन मायाशब्दितस्य जगदुपादानत्वस्य च प्रतिपादनात् । त्वभिमतस्फोटाख्यशब्दस्य तथात्वप्रतिपादकागमस्यादर्शनाच्च । न च 'माया' 'प्रकृत्या'दिशब्देन स्फोटाख्यशब्द वोच्यत इति वाच्यम् । प्रमाणाभावात् । वैपरीत्यापत्तेश्च । नाममात्रविद्यादापत्तेश्च । नाप्यनुपपत्या तत्सिद्धिः । स्फोटस्य जगदुपादानत्वाभावे अनुपपद्यमानार्थस्यादर्शनात् । जगतः प्रकृत्युपादानत्वेनाप्युपपत्तेश्च । अर्थप्रतीतेश्च नित्यशब्दकार्यत्वोपगमेन तदनुपपत्यभावाच्चेति यत्किञ्चिदेतत् ।

तस्मात् वैयाकरणमतमपि प्रेक्षावदनुपादेयमिति सिद्धम् ।

इति श्रीमत्परमहंस परिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थ पूज्यपादानां शिष्येण सर्वतन्त्रस्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासारविवेचने कौमारिलवैयाकरणमतभङ्गो नाम सप्तमः परिच्छेदः