तत्र लोकायतमतमादौ निराक्रियते

॥ अथ चार्वाकमतभङ्गः ॥

तत्र लोकायतमतमादौ निराक्रियते । लौकायतिकाः (चार्वाकाः )खल्वेवमाहुः -

प्रत्यक्षमेव प्रमाणम् । नानुमानादि । तत्र यादृच्छिकसंवादितया प्रामाण्याभिमानमात्रम् । प्रमाणत्वे वा तस्य प्रत्यक्ष एवान्तर्भावः ।

……………………………………………………………………………………………………………………………………………………………

(1. धर्मतोवोभयत्र (पा)

2. चारू रमणीयो वाक उक्तिः यस्य सः चार्वाकः । लोकायतमिति । लोके आयतं प्रसृतमित्यर्थः । नास्तिकशिरोमणिश्चार्वाकः बृहस्पतिशिष्यः । चार्वाकवचनस्य परिणामे क्लेशदायित्वेऽपि श्रवणवेलायां श्रोतॄणां मनोरञ्जकत्वाद्रमणीयत्वम् । उपदेशं विनापि प्रायः स्वभावत एव तन्मतानुवर्तिनो लोकाः संदृश्यन्ते । चार्वाकसम्प्रदायस्य प्रवर्तको बार्हस्पत्यसूत्रकारो बृहस्पतिः प्रचारकश्च तच्छिष्यश्चार्वाकः । अयं सम्प्रदायो लोकायत (लोकायतिक) नाम्ना विख्यातो वर्तते । चार्वाकस्य जन्म क्रिस्ताब्दात् पूर्वं २४३६ तमे वर्षे वैशाखकृष्णामातिथौ बेटद्वारिकायां बभूवेति वदन्ति । अस्य पितेन्दुकान्तो माता स्त्रग्विणी ॥ )

……………………………………………………………………………………………………………………………………………………………

तस्य पृथक् प्रमाणत्वेऽपि लोकसिद्धवाद्यनुमानमेव प्रमाणम् । नातीन्द्रियार्थविषयम् । तस्यैवासत्त्वात् । विषनिर्हरणादिमंत्रयंत्रचेष्टादिफलसंवादास्चौषधयः सूर्यचन्द्रकान्तादिन्यायेन यथादर्शनं व्यवस्थाप्या इति न तद्वशेनातीन्द्रियार्थसिद्धिः । पृथिव्यतेजोवायच इति चत्वार्येव तत्वानि । आकाशस्य तत्त्वान्तरत्वेऽपि न दोषः ।पृथिव्यादेरिव तस्यापि प्रत्यक्षसिद्धत्वात् । अर्थकामावेव पुरुषार्थः । न तु धर्मो मोक्षो वा । धर्मत्वेनाभिमतस्याग्निहोत्रादेः कायक्लेशरूपतया दुःखसाधनत्वेनापुरुषार्थत्वात् । अग्निहोत्रादिना देहदेशान्तरभोग्यमतिशयितं स्वर्गादिफलं भविष्यतीति चेन्न । देहातिरिक्तस्य तादृशस्वर्गादिफलभोक्तुः तादृशफलस्य च अप्रामाणिकत्वात् । निरन्तरयथेष्टकामिनीसंभोगाद्यतिरेकेण (रिक्तस्य) स्वर्गशब्दार्थस्याभावात् । तस्य दृष्टोपायान्तरेणैव सम्पादनीयत्वाच्च । एवं च निरन्तरयथेष्टकामिनीगमनादेरधर्मत्वं न युक्तम् । तस्य सुखसाधनत्वात् । सुखसाधनस्यैव धर्मत्वोपगमाश्च । सुखसाधनस्य यथेष्टकामिनीगमनादेः दुःखसाधनत्वं दुःखसाधनस्य वा अग्निहोत्रादेः सुखसाधनत्वमिति वचनस्य स्वस्वहृदयमनारूढस्य बालिशोपच्छन्दनमात्ररूपत्वेन वञ्चनार्थ तथा विशिष्य परीक्षकहृदयेष्वनारोहाच्च । तस्मादग्निहोत्रादीनां न पारलौकिकश्रेयःसाधनत्वं किंतु ऐहिकजीवनादिहेतुत्वमिति युक्तम् । तथाचाऽऽभाणकः ।

……………………………………………………………………………………………………………………………………………………………..

(1. आभाणकः लोकोक्तिविशेषः । अग्निहोत्रमिति । अग्निहोत्रपदेन निखिलान्यग्निसाध्यानि श्रौतस्मार्तकर्माण्यत्र विवक्षितानि | त्रयो वेदाः ऋग्यजुःसामनामानो वेदाः । अथर्ववेदस्तु तदन्तर्गतो ज्ञेयः । तस्य पार्थक्येन चत्वारो वेदा इति लोकप्रसिद्धिः । एते सर्वे वेदाः भण्डधूर्तनिशाचरैः स्वयं विरचिता अपि लौकिकानामज्ञानां विशेषतः श्रद्घाजननायापौरुषेयत्वेन स्वतः प्रमाणत्वेन च प्रसिद्धि प्रापिता इति चार्वाकाः प्रतिपादयन्ति । त्रिदण्डशब्देन काम्यकर्मत्यागरूपः सन्यासोऽत्र विवक्षितः । भस्मगुण्ठनं शरीरे भस्मलेपः ॥ बुद्धिपौरुषहीनानामिति ॥ बुद्धिमन्तो हि पुरुषाः खकीयबुद्धिवैभवेन )

…………………………………………………………………………………………............................................................................................

अग्निहोत्रं त्रयो वेदाः त्रिदण्डं भस्मगुंठनम् ।

बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ इति । (जीविका धातुनिर्मिता)

एवं न मोक्षोऽपि पुरुषार्थः । देहस्यैवाऽत्मतया तन्नाशातिरेकेण तस्याभावात् । स्थूलोऽहमिति स्थौल्यविशिष्टदेहस्यैवात्मत्वानुभवात् । तदतिरिक्तस्याऽऽत्मनोऽननुभवाच्च । न च 'स्थूलोऽहं ' इत्ययं भ्रमः । बाधकाभावात् । नहि 'नाहं स्थूलः' इति कस्यचित् कदाचिदपि बाधकप्रतीतिरस्ति । बाधकाभावेऽपि भ्रमत्वे 'वह्निरुष्णः ' इत्यादिप्रत्ययस्यापि भ्रमत्वापातात् । न च 'स्थूलोऽहं इत्यस्य स्थूलशरीर विशिष्टोऽह'मित्यर्थ इति युक्तम् । एवं प्रतीतिं व्याख्यातवतः उन्मत्तवदुपेक्षणीयत्वात् । मम शरीरं" इत्याद्यनुभवस्य च " शिलापुत्रकस्य शरीरं " इतिवत् त्वन्मते " ममात्मे "तिवच्चोपपन्नतया ततो देहातिरिक्तात्मसिद्ध्ययोगाश्च । न च चैतन्याख्यविकारस्य

...............................................................................................................................................................................................

(सामाद्युपायैः द्रव्यं सङ्गृह्य स्वजीविकां सम्पादयन्ति । पौरुषसम्पन्नास्तु स्वपराक्रमेण जीविकां सम्पादयन्ति । तादृशबुद्धिविहीनाः पराक्रमरहिताश्च जनानयेन पौरुषेण वा जीविकां सम्पादयितुमसमर्था अज्ञलोकवञ्चनातिरिक्तमुपायान्तरमपश्यन्तोऽग्निहोत्राद्यनेक कर्मजाल लोके प्रसार्य जनान्कर्मतरङ्गतरङ्गितमानसान्विधाय पश्यतोहराश्चैते वैदिकंमन्या धूर्तबका लोकेभ्यो विपुलद्रव्यमुपलभ्य स्वजीविकां सम्पादयन्तीति चार्वाकाभिप्रायः । बृहस्पतिरिति ॥ बृहस्पत्याचार्य इत्यर्थः ॥ देवगुरुर्ब्रहस्पत्याचार्य एवास्य मतस्य प्रवर्तक इति प्रसिद्धिर्वर्तते । तदुक्तं पद्मपुराणे पार्वतीं प्रतीश्वरवाक्यम्

" शृणुदेवि प्रवक्ष्यामि तामसानि यथाक्रमम् ।

येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ॥

प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ।

मच्छक्त्यावेशितैर्विप्रै: सम्प्रोक्तानि ततः परम् ॥

धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् " ॥ इति ॥)......

...............................................................................................

पृथिव्यादिष्वयोगेन तदाश्रयातिरिक्तात्मसिद्धिरिति युक्तम् । कि (न्वा) 'ट्ठादौ हरिद्राचूर्णादौ च संसर्गावस्थायामेव मदशक्तिरागाद्युत्पत्तिवद्देहाकारपरिणतेष्वेव पृथिव्यादिषु चैतन्योत्पत्तौ' बाधकाभावात् । पार्थिवत्वाविशेषेऽपि कण्टकादावेव तैक्ष्ण्यं नान्यत्रेति व्यवस्थादर्शनाश्च । प्रतिमाजल्पन पक्ष्म' संमीलनादिवदभिवदनोच्छ्रासनिःश्वास निमीलनोन्मीलनादिव्यवहारोपपत्तेश्च । छित्वाऽधिरोपिते शाखादौ उपचयादिदर्शनेन तद्वद्देहोपचयाद्युपपत्तेश्च । अतो " यावज्जीवं सुखं जीवेत्" इत्याद्युपदेशवत् सकलजनहृदयसंवादितया सर्वलोकहिताय प्रवृत्तं लोकायतमतमेव प्रामाणिकं सर्वोपादेयमिति ॥

……………………………………………………………….............................................

(1. तण्डुलादिद्रव्यकृतसुराबीजादौ

2. चैतन्यं ज्ञानम्

3. वर्त्म इति पाठान्तरम्

4. लोकायत मतमेवेति ॥ अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः । लोके कण्टकादिजन्यं दुःखमेव नरकः । रौरवमहारौरववह्निवैतरणीकुम्भीपाकादिः कश्चन नात्स्येव । लोके प्रजानां नियन्तृत्वेन दृष्टो राजैव परमेश्वरः । चेतनाचेतनात्मकजगदुत्पत्यादिकर्तान्यईश्वरः कचिन्नास्ति । जगतः उत्पत्तिस्थित्यादिकं स्वाभाविकमेव । सर्वं स्वभावत एव परिणमति । जन्मान्तरन्तु नास्येव । देह एवात्मा । देहविनाशो मरणमेव मोक्षः । ज्ञानान्मुक्तिर्नाभ्युपगम्यते । पृथिवी, जल, अग्नि, वायुरिति चत्वारि भूतानि । आकाशन्तु नैवाङ्गीक्रियते । मदजनकेभ्यः समेतेभ्यः किण्वादिभ्यो द्रव्येभ्यो मदशक्तिवत् शरीररूपेण परिणतेभ्यः पृथिव्यादिभ्यः चतुर्भ्यो भूतेभ्यश्चैतन्य (ज्ञानं ) मुपजायते । अहं स्थूलः, अहं कृशोऽस्मीति सामानाधिकरण्यव्यवहारात् देहेस्थौल्यादिसम्बन्धात् शरीरमेवात्मा । मम शरीरमिति व्यवहारस्तु राहोः शिरोमात्र रूपत्वेऽपि राहुः शिर इति वक्तव्ये राहोः शिर इतिवदौपचारिकः । प्रत्यक्षमेकमेव प्रमाणम् ।

तदेतत् समग्राहि

अङ्गनालिङ्गनाज्जन्यसुखमेव पुमर्थता | कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते ॥ लोकसिद्धो भवेद्राजा परेशो नापरः स्मृतः । देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते || अत्र चत्वारि भूतानि भूमिवार्यनला निलाः । चतुर्भ्यः खलु भूतेभ्यश्चैतन्यमुपजायते ॥ किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् । अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः || देहः स्थौल्यादियोगाच्च स एवात्मा न चापरः । सम देहोऽयमित्युक्तिः संभवेदौपचारिकी ॥ इति ॥ सर्वं चैतच्चार्वाकमतप्रवर्तकाचार्येण बृहस्पतिनाप्युक्तम् –

स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः । नैव वर्णाश्रमादीनां क्रियाच फलदायिकाः || अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् | बुद्धिपौरुषहीनानां जीविका धातृनिर्मिता ॥ पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति । स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते ॥ मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥ गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम् । गेहस्वकृतश्राद्धेन पथि तृप्तिरवारिता ।

स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः । प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते ॥

यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ )….

...............................................................................................

अत्रोच्यते--

न तावत्प्रत्यक्षमेकमेव ' प्रमाणम् । अनुमानादिनाऽपि ज्ञानोत्पत्तेरनुभवसिद्धत्वात् । तदुत्पन्नज्ञानस्यावधारणरूपत्वात् ।

……………………………………………………………………

यदि गच्छेत्परं लोकं देहादेष विनिर्गतः । कस्माद्भूयो न चायाति बन्धुम्नेहसमाकुलः || ततश्च जीवनोपायो ब्राह्मणैर्निहितस्त्विह । मृतानां प्रेतकार्याणि नत्वन्यद्विद्यते क्वचित् ॥ त्रयो वेदस्य कर्तारो भण्डधूर्तनिशाचराः । जर्भरीतुर्फरीत्यादि पण्डितानां वचः स्मृतम् ॥ मांसानां खादनं तद्वन्निशाचरसमीरितम् ॥ इति ॥

तदुक्तं विष्णुपुराणे-

निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन तदा किं न विहन्यते ॥

तृप्तये जायते पुंसो भुक्तमन्येन चेत्ततः ।

दद्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥ इति ॥ वि.पु. ३.१८.१५

एवं तत्रैव यज्ञादिकर्मविषयेऽप्युक्तम्----

नैतद्युक्तिसहं वाक्यं हिंसा धर्माय नेष्यते ।

हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ||

यज्ञैरनेकैर्देयत्वमवाप्येन्द्रेण भुज्यते ।

सस्यादि च समित्काष्टं तद्वरं पत्रभुक्पशुः ॥ इति ॥ वि.पु. ३.१८.८२.८३

तस्मात्सर्वेषां प्राणिनामनुग्रहार्थं चार्वाकमतमाश्रयणीयमिति रमणीयम् ॥

1. चार्वाकस्य न वाक् चार्वी कुर्वीतात्मबधं किल । अक्षैकमानता वाक् किं रक्षेदात्मप्रमाणताम् ॥

(युक्ति मल्लिका गुण. सौ. लो. १३२)

...............................................................................................

बाधकप्रत्ययादर्शनाच | “विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्वचोऽनुपपन्नत्वादनुमानकथा कुतः " इत्यादिहेतूनां प्रामाण्याप्रामाण्ययोर्व्याहतत्वाच्च । किंचानुमानादेरप्रामाण्ये प्रत्यक्षस्याप्यप्रमाणत्वं स्यात् । विशेष हेत्वभावात् । अनुमानादाविव प्रत्यक्षेऽपि क्वचित् बाधितत्वदर्शनेन प्रत्यक्षमात्रप्रामाण्याङ्गीकारायोगाच्च । किञ्च प्रत्यक्षस्येवानुमानादेरपि बाधकाभावे प्रामाण्यस्याङ्गीकर्तव्यत्वाच्च । भोजनादो तृप्तिसाधनत्वादिकमनुमायैव प्रवृत्तिदर्शनेनानुमानप्रामाण्यस्य दुर्वारत्वाच । प्रत्यक्षाविषयं तं तमर्थमाप्तवाक्यान्निश्चित्य सर्वेषां निश्शङ्क प्रवृत्तिदर्शनेन प्रत्यक्षमेकमेव प्रमाणमित्यंगीकारायोगाच्च । किंच प्रत्यक्षमात्रप्रामाण्याभ्युपगमे कथं चार्वाकसमयमुपाश्रित्यार्थी निश्चेयः । कथं वा तन्मूला प्रवृत्तिर्निवृत्तिर्वा । अनुमानादेः संभावकत्वे प्रत्यक्षस्यापि तथात्वापातात् । किंचान्वयव्यतिरेकानुविधायिषु दृष्टार्थमन्त्रौषधज्योतिनिमित्तशास्त्रेषु संवाददर्शनेन पारलौकिकार्थविषयेध्वपि शास्त्रेषु कालान्तरभाविसंवादमादायैव प्रामाण्य मंगीकरणीयं तत्सामान्यादितरेषु तथात्वमिति न्यायात् । किंचानुमानादेः प्रत्यक्षान्तर्भावो न युक्तः । पर्वतादौ धूमादिकं दृष्ट्वा गृहं गतस्य तत्र व्याप्तिं स्मरतः पुंसो वन्ह्याद्यनुमितिदर्शनात् विदग्धादेरपि च स्वरादिना पुत्राद्यनुमितिदर्शनाच्च । अंधादेरपि आतवाक्येन तत्र तत्र प्रवृत्तिदर्शनाश्च । न हि तत्र प्रत्यक्षान्तर्भावसंभावनाऽस्ति । न च मानसप्रत्यक्षं तत्रेति युक्तम् । तत्र मानसत्वानभ्युपगमात् । मनसो हिरस्वातन्त्र्याच्च । व्याप्तिज्ञानाद्यन्वयव्यतिरेकानुविधायिनोऽपि विज्ञानस्य मानस प्रत्यक्षरूपत्वाभ्युपगमे चक्षुराद्यन्वयव्यतिरेकानुविधायिज्ञानस्यापि तथात्वापाताच्च । एवमनुमानागमयोरपि प्रामाण्ये सिद्धे तदधीनानि भूत चतुष्टयातिरिक्तानि तत्त्वान्तराण्यपि अंगीकर्तव्यानि । अनुमानागमसिद्धानामपि तत्त्वांतराणां प्रतिक्षेपायोगात् । अन्यथा प्रत्यक्षसिद्धार्थानामप्यपलापः स्यात् । न चानुपलब्धिमात्रेण भूतचतुष्टयातिरिक्ततत्त्वांतराभावः शंकनीयः ।

(1. अनुमानकथाङ्कुरः (पा) 2. संपदमादायैव (पा) )

योग्यानुपलब्धेरेवाभावनिश्चायकत्वात् । अतीन्द्रियविषये योग्यानुपलब्धेरेवाभावात् । योग्यायोग्यविभागं विना अनुपलब्धिमात्रतः तत्त्वान्तराभावोक्तौ गृहात् बहिर्निर्गतस्य चार्वाकस्य गृहे विद्यमानपुत्रदारादीनामप्यभावप्रसंगेन व्याकुलत्वप्रसंगात् । किं च नीतिशास्त्रबलेनार्थ कामयोरेव पुरुषार्थत्वमित्यनुपपन्नम् । तस्य धर्माविरुद्धयोरेव तयोः पुरुषार्थत्वप्रतिपादनपरत्वात् । "असाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति " | ' धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ " (भ.गी. अ. ७ श्लो. ११) । इत्यादि स्मृत्यनुसारात् धर्मविरुद्धयोस्तयोरपुरुषार्थत्वस्य प्रेक्षावत्पुरुसंमतत्वाच्च ।

न च गोत्वादिजातिवत् ब्राह्मणत्वादिजातीनामनुपलम्भेन तन्निमित्तकं शास्त्रमप्रमाणमिति वाच्यम् । अबाधितानादिपरिग्रहपरंपरया आगोपालं प्रसिद्धानां ब्राह्मणत्वादिजातीनां अपह्नवायोगात् । गन्धविशेषादिलिंगसह कृतप्रत्यक्षेण घृतादिजातीनामिव विशिष्टमातापितृजन्यत्वादिलिंगविशेषसहकृतप्रेत्यक्षण ब्राह्मणत्वादिजात्युपलंभोपपत्तेश्च । अश्वगर्दभादिसंसर्गेण खरादिविजातीयोत्पत्तिवत् ब्राह्मणादिविजातीयसंसर्गेणानुलोमप्रतिलोमादिविजातीयोत्पत्तौ बाधकाभावाच्च ।

किं च शरीरमात्मेत्यनुपपन्नम् । "सुखमहमस्वाप्समि " ति सुषुप्तौगजादिकमद्राक्षमि "ति स्वप्नेयोऽहं बालः स एवेदानींस्थविरः" इति जाग्रद्दशायां च देहाद्यतिरिक्तस्यैव आत्मनः परामर्शात् । " मम देहः" इति शरीरात्मनोर्भेदानुभवात् । 'अहं देहः" इति

…………………………………………………………………....

1. भूतेषु धर्माविरुद्धो यः कामः सोऽस्मीत्यर्थः । बलं बलवतां चाहं कामरागविवर्जितं इति पूर्वार्धम् ॥

2. देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् । मम देह इति व्यक्तं ममार्थ इतिवत्सदा ||

(अनु. व्या. अ. २, पा. २)

कस्यचित् कदाचिदपि देहोऽहमिति प्रमाभावात् । ( न्या.सु. अ. २, पा. २ अधि. ३)

……………………………………………………………………

कदापि कस्यापि प्रतीत्यभावात् । " स्थूलोऽहं” “गोरोऽह" मिति प्रतीतेश्च उष्णं जलमित्यादिप्रतीतिवत् परम्परासंबन्धावगाहित्वोपपत्तेः । सर्वशरीरानुन्धातुरात्मनः तद्भिन्नत्वावश्यंभावाच्च ।

किंचार्थकामातिरेकेण धर्मापवर्गावपि पुरुषार्थावभ्युपगन्तव्यौ । अन्यथा स्वत्सिद्धान्तस्य विषयप्रयोजनशून्यतया अनुपादेयत्वमेव स्यात् । न च दृष्टम् धनादि तत्प्रयोजनम् । तेन तदसिद्धेः । वार्ता दिनापि तत्सिद्धेश्च । न च यथेष्टकामिनी संभोगस्तत्प्रयोजनम् । तस्य लोकहिष्कारहेतुत्वेनापुरुषार्थत्वात् । न च धर्माद्यभावबोधनद्वारा तत्सिद्धान्तस्य लोकोपकारः प्रयोजनम् । धर्माद्यभावज्ञाने परस्परहिंसादेरेव प्राप्ततया तच्छास्त्रस्यापकारिताया एव प्राप्तेः । उपकारस्यापि स्वतः प्रयोजनत्वाभावेन दूरे गत्वा तत्साध्यस्यापि धर्मापवर्गरूपप्रयोजनान्तरस्यावश्यांगीकर्तव्यत्वाच्च । दुर्मार्गेण प्रवर्तमानस्य लोके बहिष्कारदर्शनाच्च । एवं धर्मादेरेव तद्विषयत्वं वाच्यम्। केवलार्थकामयोः शास्त्रप्रतिपाद्यत्वासंभवात् । अतः चार्वाकेणापि स्वसिद्धान्तस्य सविषयत्वसप्रयोजनत्वसिध्यर्थं धर्मादिकमवश्यमभ्युपेयमिति । तदेतत्सर्वमभिसन्धायोक्तं भगवता बादरायणेन-

ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ (ब्र. सू. २-२-६)

इति श्रीमत्परमहंसपरिवाजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थ पूज्यपादानां शिष्येण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासारविवेचने चार्वाकमतभङ्गः प्रथमः ॥

……………………………………………………………………

1. कृष्यादिजीविकादिनापि

2. अत्र चार्वाकमतं निरस्यते । नेत्यस्ति । अर्थशब्दो विषयप्रयोजनपरः । त्वदीयशास्त्रस्य सिद्धान्तत्वमभ्युपगम्यते न वा । अंत्येऽस्मदिष्टम् | आद्ये विषयप्रयोजनवत्वं नोपेयते उतोपेयते । नाद्यः । अभ्युपगमेऽपि सिद्धान्तत्वाम्युपगमेऽपि तद्व्यापकयोरर्थयोः विषयप्रयोजनयोरभावाभ्युपगमाद्व्याहृत्यापातात् । नान्त्यः । दृष्टादृष्टयोः विषयप्रयोजनयोरभावान्न युक्तं तन्मतमिति सूत्रार्थः ॥

……………………………………………………………………