शैवमतभङ्गः

॥ अथ शैवमतभङ्गः ॥

शैवमतभङ्गः

जीवीय कर्मनिरपेक्षस्य सर्वतन्त्र स्वतंत्रस्य परमेश्वरस्य कारणत्वपक्षे वैषम्य-नैर्घृण्यदोषप्रसञ्जनात् तत्पक्षप्रतिक्षेपपरायणाः केचन माहेश्वराः शैवागमसिद्धान्त-तत्त्वं प्रतिपादयन्तः पुरुषकर्मसापेक्ष एव परमेश्वरो जगत्कारणमिति पक्षान्तरमभ्युपगच्छन्ति । तद्यथापदार्थास्त्रयः पतिः पशुः पाशश्चेति । तत्र पतिः स्वतन्त्रः परमशिवः । पशुः पुरुषः कर्तृत्वभोक्तृत्वशक्तिसम्पन्नः परमशिव-साम्यस्वरूपयोग्यः । पाशस्तु मलः, कर्म, माया, महामाया, रोशक्तिरिति पञ्चप्रकारः । तत्प्रपञ्चनं यथा-मल: पुरुषस्य स्वाभाविकी अनादिरशुद्धिः । कर्म-धर्माधर्मौ । माया-कालनियत्यादित्रिंशत्तत्वात्मिका । महामाया-बिन्दु-शिवतत्त्वादिपदवाच्य शुद्धाध्वोपादानभूता । रोधशक्ति-पुरुषस्य ज्ञानक्रिया-शक्त्योराच्छादिका परमशिवसंबन्धिनी शक्तिः । अथैतस्मिन् दर्शने मोक्ष-साधनीभूतज्ञानविषयत्वेन हेतुना तत्त्वभूताः पतिपशुपाशरूपास्त्रयः पदार्था निरूप्यन्ते । सर्वज्ञत्यादिकैः सर्वैर्गुणैर्युक्तं सर्वशक्तिसमन्वितं जगद्विचित्ररचनाकर्तारं दोषवर्जितं सदाशिवमेते शैवाः प्रतिपादयन्ति ।
परिदृश्यमानानां तनुभवनादीनां भावानां सन्निवेशविशिष्टत्वेन कार्यत्वमवगम्यते । मुक्तात्मनान्तु विद्येश्वरादीनां शिवत्वे विद्यमानेऽपि परमेश्वर-पारतन्त्र्यात् स्वातन्त्र्यं परं नाभ्युपगम्यते । मुक्तात्मानां पारतन्त्र्यमनभ्युपगच्छन्तः केचन माहेश्वराः परमशिवस्य जगन्निर्माणे प्राणिकर्मानपेक्षत्व-मुद्घोषयन्ति । शैवदर्शनेतु वैषम्यादिदोषपरिहाराय तत्सापेक्षत्वमित्यनयोदर्शनयोर्वैलक्षण्यं सूक्ष्ममीक्ष्यते । प्राणिकृतकर्मसापेक्षत्वेन परमेश्वरस्य जगत्कर्तृवांगीकारेऽपि तदीयस्वातन्त्र्यादेः क्षतिः काचिदपि नास्तीति तेऽभिप्रयन्ति । करणापेक्षया कर्तुः स्वातन्त्र्यप्रच्युतेरदर्शनाद्दव्यदानविषये कोशाध्यक्षापेक्षस्य प्रभोः प्रसादादिना दानस्वातन्त्र्यदर्शनाच्च न कश्चिदोष इति तेषामभिप्रायः । पारिभाषिकमेव महेश्वरस्य स्वातन्त्र्यमेतैर्विवक्षितम् । प्रयोजक-शून्यत्वं हि तत् । प्रयोजकश्च स्वानभीप्सितकार्यप्रवर्तकः स्वापेक्षितकार्यविघासकश्चेति द्विविधश्चेतन एवात्र विवक्षितः । तेन जडस्य कर्मणः प्रयोजकत्वविवक्षायामपि नेश्वरस्य स्वातन्त्र्यहानिः । एवञ्च दर्शितप्रयोजकशून्यत्वे सति करणादिकारकसमुदायप्रयोक्तृत्व रूपमेव स्वातन्त्र्यं न तु कर्माद्यनपेक्षत्वरूपमिति तेषामाशयः ।
अस्मिन्सिद्धान्ते षट्त्रिंशत्तत्वान्यंगीकृतानि । परमशिवस्तु सर्वतत्त्वातीतः । तस्य च मायादिपाशासंभवात् प्राकृतं शरीरं न विद्यते । शाक्तं हि तदीय शरीरम् |
ईशानादिभिः पञ्चभिर्मन्त्रैः शक्तिरूपैर्मस्तकादिकल्पनायां " ईशानमस्तकः, तत्पुरुषवक्त्रः अघोरहृदयः, वामदेवगुह्यः, सद्योजातपादः, परमशिवः " इति प्रसिद्धिः दृश्यते । मन्त्रमये च शरीरे शरीरावयवा मन्त्ररूपा एव वक्तव्याः । मन्त्राणान्तु शक्तिरूपत्वं सिद्धम् । तत्रेशान इति मन्त्रो ( म. ना. २१) मस्तकस्थानीयः । तत्पुरुषाय ( म. ना. २०) इति मन्त्रो मुखस्थानीयः । अघोरेभ्य ( म. ना. १९) इति मन्त्रो हृदयस्थानीयः । वामदेवाय ( म. ना. १८) इति मन्त्रो गुह्यस्थानीयः । सद्योजातं ( म. ना. १७)
इति मंत्री पादस्थानीयः ।
अस्मदादिशरीरविलक्षणं अनुग्रह, तिरोभाव, सृष्टि, स्थिति, संहाररूप, कृत्यपञ्चककारणं स्वेच्छानिर्मितं परमशिवस्य शक्तिमयं शरीरम् ।
तदुक्तम् - "मलाद्यसंभवाच्छाक्तं वपुर्नैतादृशंविभोः " इति । तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ||
ईशतत्पुरुषा धोरकामाद्यैर्मस्तकादिमत् ॥ इति च ॥ सर्वतत्त्वातीतः परमशिवस्त्वनादिमुक्तः । मुक्तात्मानोऽपि शिवा एव । ते तु आदिमुक्ताः ।
महाप्रलये च तत्त्वत्रयमवशिष्यते । तत्तु माया, पुरुषः, शिव इत्यन्योन्यं विभक्तं वर्तते । सृष्टिस्तु शुद्धाध्या, कृच्छाध्वा चेति द्विविधा |शुद्धाध्वनि महामायाभिधानं बिन्दुपदवाच्यं शिवतत्त्वं शक्तितत्त्व, सदाशिवतत्त्वेश्वरतत्त्व, विद्यातत्त्वभेदेन चतुर्विधतत्वात्मना परिणम्य पञ्चतत्त्वात्मकं भवति । शिवतत्वन्तु तत्रादिकारणं जडात्मकं शुद्धाध्वमूलकारणम् एतच्च व्यापकं निरवयवं नित्यं ज्ञानक्रियास्वभावमुच्यते । एतदेवावरणं मुक्तिभाजां ज्ञानक्रिये प्रकटयति । स एव बिन्दुरित्युच्यते । सैव महामाया । तदेतत्परमशिवस्य परिग्रहशक्तिरिति कथ्यते । शक्तितत्वन्तु शिवस्य प्रथमः परिणामः । ज्ञानक्रियाशक्ति निमित्तीकृत्य शक्तितत्वव्यवहितः परिणामः सदाशिवतत्वम् । अशुद्धाध्वनि सृष्ठयादीनां कर्तृभूतानामनन्तादीनामधिष्ठानेन परमशिवस्य क्रियाशक्तिबहुलमीश्वरतत्त्वम् । अत्रैव विद्येशानामनन्तादीनामन्तर्भावः ।
विद्याख्यं तु पञ्चम तत्त्वं सप्तकोटिमहामन्त्राधिष्ठानेन परमशिवस्य ज्ञानशक्त्या प्रचुरम् |अत्रैव व्योमव्याप्यादीनां विद्यानां कामिकादीनामष्टादशतन्त्राणामन्तर्भात्रः ।
 
एतेष्वेव शक्त्यादिषु विचित्रभुवनादिसन्निवेशाः सन्ति ।
कृच्छ्राध्वनि मायातत्त्व त्रिंशत्तत्त्वात्मकं भवति । तानि च यथा- माया, कालो, नियतिः, कला, विद्या रागश्चेति ष ट्तत्त्वानि । तत्रापि कालेन नियत्या च सहकृता कला प्रकृतिमहदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपञ्चभूतभेदेन चतुर्विंशतितत्वात्मना परिणमते । आहत्य त्रिंशत्तत्त्वानि । मायाकार्यं सर्वमप्यशुद्धम् । महामायाकार्यं तु शुद्धमेव । तत्र सर्वशक्तिसमाहारात्मिका सर्वकारणावस्था वस्तुभूता मायेत्युच्यते ।
कालश्च क्षणदिनमासात्मकः प्रसिद्धः । नियतिस्तु नियमनरूपा शक्तिः । कला च पुरुषस्य कर्तृशक्तिव्यञ्जिका काचिच्छक्तिः । विद्या पुरुषस्य विषय-प्रकाशननिमित्तभूता इन्द्रियादिकरणस्थानीया ज्ञानशक्तिव्यञ्जिका शक्तिः । रागः आसक्तिः पुरुषप्रवृत्तिहेतुः । पुरुष एव पशुः । स च त्रिविधः । विज्ञानाकलः, प्रलयाकलः, सकलश्चेति । तेषु विज्ञानाकलः मलमात्रयुक्तः अत एव एकबन्ध इत्युच्यते । द्वितीयस्तु प्रलयाकल: मठकर्मयुक्तत्वाद्विबन्ध इत्युच्यते । तृतीयः मलकर्ममायायुक्तः सकलः बन्धत्रयसहित इति निगद्यते । तत्रापि प्रथमः समाप्तकलुषा समाप्तकलुषभेदात् द्विप्रकारः । तयोः पक्कमलान् परमशिव: बैन्दवशरीरयोगिनः कृत्वा विद्येशत्वं, सर्वज्ञत्वं शुद्धाध्वाधिष्ठातृत्व, पञ्चकृत्याधिकारं च तेभ्यो ददाति । अन्यान् महामन्त्राधिदेवान् विद्यातत्त्वनिवासिनः करोति । द्वितीयः प्रलयाकोऽपि पक्कपाशद्वयः तद्विलक्षणचेति द्विविधः । तयोर्मध्ये प्रथमः मोक्षं प्राप्नोति । द्वितीयस्तु कर्मवशात् नानाविधजन्म- भाग्भवति । तृतीयः सकलोऽपि द्विविधः । पक्ककलुषः अपक्ककलुषश्चेति । तयोराद्यान् परमेश्वरः तत्परिपाकपरिपाट्या मण्डल्याद्यष्टादशोत्तरशतमन्त्रेश्वरपदं प्रापयति ! अपक्ककलुषान् कर्मवशात् भोगभाजो विधत्ते । इति ॥

 

Load More