मह्यं प्रदद्यादनिशं मुकुन्दस्तत्त्वावबोधं सकलार्थदर्शी
॥ श्रीः ॥
सर्वसिद्धान्तसारासारविवेचनम् ।
सर्वतन्त्रस्वतन्त्र श्रीमद्विजयीन्द्रतीर्थगुरु सार्वभौमविरचितम् ।
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः |
|| श्रीवेदव्यासाय नमः ॥ ॥ हरिः ॐ ॥
उपोद्घातभागः
मह्यं प्रदद्यादनिशं मुकुन्द-
स्तत्त्वावबोधं सकलार्थदर्शी ॥
सङ्कल्पतो यस्य जगत्यनेके
मिथो विरुद्धाः समयाः प्रवृत्ताः ॥ १ ॥
सर्वतन्त्र स्वतन्त्रेण विजयीन्द्राख्यभिक्षुणा ।
क्रियते सर्वसिद्धान्तसारासार विवेचनम् ॥२॥
मिथ्याज्ञाननिमित्तोऽयं बन्धस्तत्त्वधियं विना ।
न शाम्यतीति युक्तं तत्सारासारविवेचनम् ॥ ३ ॥
यस्य यस्य मते या या प्रक्रियास्मद्विरोधिनी ।
तस्य तस्य मते सा सा पुष्कलानूद्य दृष्यते ॥ ४ ॥
ननु तत्तत्समयिभिः स्वस्वसमयस्य सारत्वोपगमात् समयान्तराणामसारत्वापगमाच्च कथं व्यवस्थेति चेन्न । सकललौकिकवैदिकप्रमाणसामञ्जस्यं यत्र तन्मतं सारम् । अतथाभूतं त्वसारमिति निर्णयसंभवेन व्यवस्थोपपत्तेः । ननु सकलप्रमाणसामञ्जस्यं स्वस्वसमय एवेति सर्वेषामपि निर्णयोऽस्तीति कथं व्यवस्थेति चेन्न । तत्त्वदर्शिनां मध्यस्थदृष्टीनां च सर्वेष्वपि मतेषु प्रमाणमूलत्वनिश्चयाभावेन प्रमाणानुसारेण व्यवस्थाया उपेयत्वात् । ब्रह्ममीमांसायां भगवता बादरायणेन न्यायाभासमूलानां बहूनां समयानां निराकृतत्वात् । मनुना च-
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टय: ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्टा हि ताः स्मृताः ॥
इति वेदविरुद्धा (मतानां) गमानामापातप्रतिपन्नवेदार्थमूलमतान्तराणां च पारलौकिकफलाभावस्य (फलशून्यत्वस्य) तामसपुरुषोपादेयत्वस्य प्रतिपादनाच्च | अतस्तत्त्वबुभुत्सुभिः समयेषु सारासार विवेचनं कर्तव्यम् । यथाहुः-
आवापोद्वापतः स्युः कति कति कविधीचित्रवत्तत्तदर्थेष्वानन्त्यादस्तिनास्त्योरनवधिकुहनायुक्तिकान्ताः कृतांताः । तत्त्वलोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान्समस्तान् पुंस्त्वे तत्वेन दृटे पुनरपि न खलु प्राणिता स्थाणुतादिः ॥ इति । (तत्त्वमुक्ताकलापे जडद्रव्यसरे श्लो. ५) ननु तत्त्वज्ञानजनकत्वेनाभिमतानां श्रुतिस्मृतिपुराणादीनां परस्परविरुद्धत्वेन न तैस्तत्त्वज्ञानं संपादयितुं शक्यम् । न च तर्कापरपर्यायमीमांसासहितैस्तैः तत्वज्ञानं संपादयितुं शक्यमिति वाच्यम् । तर्काणाप्रमाणत्वात् । तथा च पारमर्षे सूत्रम्-"तर्काप्रतिष्ठानादपी" ति (त्र. सू. २-१-१२) श्रुतिरपि नैषा तर्केण मतिरापनेया इति । (कठ. श्रु. १-२-९)
न च श्रुतिसूत्रयोः कुतर्कविषयत्वमिति शंकनीयम् । विशेषहेत्वभावादिति चेन्न । 'श्रोतव्यो मन्तव्यः (बृ. उ. ६-५-६) "सोऽन्वेष्टव्यः ", " यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः । " "अथातो धर्मजिज्ञासा", (जै. . सू. अ. १ अ. १ सू. १) अथातो ब्रह्मजिज्ञासा, (ब. सू. अ. १ अ. १ सू. १) इत्यादिश्रुतिस्मृतिसूत्रानुसारेण बुद्धिमत्पुरुषव्युत्पादितानां श्रुतिमूलतर्काणां प्रतिष्ठितत्वसिद्धया तत्सहितानां श्रुतीनां तत्त्वज्ञानजनकत्वसंभवात् । 'नेषा तर्केण मतिरापनेया' (कट. श्रु. १-२-९) 'तप्रतिष्ठानादपीति ( ब. सू. अ. २ अधि. १ सू. १२) श्रुतिसूत्रयोः कुतर्कविषयत्वोपपत्तेश्च । अन्यथोदाहृतश्रुतिसूत्राणां व्याहतभाषित्वापत्तेः । अत एव "पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश " इति स्मृत्या मीमांसाया अपि धर्मप्रमितिहेतुत्वमेवोक्तम् । यथाहुः ख्यातस्तर्कोऽप्रतिष्ठः स्वयमिह मुनिना सूत्रितं चैवमेतत्तस्मान्मीमांसमानैरपि निगमगतिः दुर्निरूपेति चेन्न । तर्कस्य ह्यप्रतिष्ठां क्वचिदभिधता दर्शितो यस्तु पंथाः तत्संवादेन सर्व न भवति शिथिलं शिक्ष्यमाणं सुधीभिः ॥ इति । ( मीमांसा पादुका श्रीवेदान्ताचार्यविरचिता श्लो. २६) न चैवं 'शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणं' इत्यादिवचनविरोध इति वाच्यम् । तस्य तत्त्वज्ञानं बहुक्लेशसाध्यं न च शीघ्रं भवतीत्येवंपरत्वात् । उपदेशमात्रेण संशयनिवर्तकज्ञानाजननाच्च । यथाहुः-
शास्त्रज्ञानं' च बुद्धेश्चलनजनकमित्युक्तिरन्वाशया स्यात् नोचेद्रोचेत शंकाकबलितमनसे केवलः क्वोपदेशः ॥ इति । तस्मात् तत्त्वज्ञानस्य सत्तर्कै: सुसंपादत्वात् तर्काभासमूलानि मतान्तराणि निरसनीयानीति तत्त्वबुभुत्सुभिः समयेषु सारासारविवेचनमवश्यं कर्तव्यमिति ॥
तत्र समयास्त्रिविधाः । अवैदिकाः, वैदिकावैदिकाः, केवलवैदिकास्चेति । तत्रावैदिकमतान्यनेकविधानि । (लौ) लोकायतिक बौद्धार्हतपाशुपतादिभेदेन | एतेषां वेदप्रामाण्यानभ्युपगमादवैदिकत्वम् । वैदिकावैदिकानि च मतानि सांख्ययोगनैयायिक वैशेषिक कौमारिलवैयाकरणाख्यानि । एतेषामाचारविषयकर्मसु प्रामाण्याभ्युपगमेऽप्य वश्याभ्युपगन्तव्यवेदान्तप्रामाण्यानभ्युपगमात् वेदान्तानां न्यायसिद्धार्थानुवादित्वोपगमाश्च मिश्रत्वम् । वैदिकमतानि च शङ्कर, यादव (भट्ट) भास्कर, रामानुज, श्रीकण्ठमध्वाचार्यप्रवर्तितानि । एतेषां कर्मब्रह्मकाण्डरूपसर्ववेदप्रामाण्याभ्युपगमात् । यद्यपि शङ्करयादव भास्कररामानुजश्रीकण्ठप्रवर्तितानि मतानि क्वचित्क्वचित् वेदान्तानभिप्रेतार्थमूलतया वैदिकावैदिकेष्वेव निक्षेप्तुमुचितानि । तथापि तेषां कर्मब्रह्मकाण्डरूपसर्ववेदप्रामाण्याभ्युपगन्तृत्वाभिमानेन वैदिकतया तत्प्रवर्तितमतानामुपादानम् । यद्यपि च मृषावादिना
(1. नास्तिक्यारम्भकत्वं मुनिभिरभिहितं यस्तु मीमांसकानां तत्प्रायो हैतुकेषु प्रविशति यदि वा पूर्वपक्षप्रवृत्तौ । ( इति पूर्वार्ध)) श्रीकण्ठेन च योगाचारमतं पाशुपतमतं च औपनिषदीकृतमिति न तयोः पृथक् परिगणनं दूषणं वा युज्यते । तथाप्योपनिषदत्वनिराकरणार्थं तयोः पृथक् परिगणनं दूषणं च युज्यते । मध्वाचार्यप्रवर्तितं तु मतं श्रुत्यभिप्रेतार्थमूलं सकलप्रमाणाविरुद्धं चेति तदेव तत्त्वबुभुत्सुभिः मुमुक्षुभिश्च परिग्राह्यम् । यथाचैतत्तथा स्पष्टीकरिष्यते । चापस्तंवादिसूत्राणामिवोदाहृतसमयानां विकल्पेन प्रामाण्यम् । वस्तुनि विकल्पायोगात् तदुक्तम्-
कर्तव्यानां विकल्पे मुनिवचनमिते धर्मतैवोभयत्र ।
व्याख्याभेदाद्विकल्पेत्वनवगतिभवे शिष्टमेवैकशेष्यम् ॥ इति ।
(मीमांसापादुका श्लोक.२८)