'जनिकर्तुः प्रकृति

॥ अथ नैयायिकवैशेषिकमतभङ्गः ॥

'जनिकर्तुः प्रकृति'

इदानीं नैयायिकमतं निराक्रियते ।

नन्विदमनुपपन्नम्। " पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदास्स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ (याज्ञवल्क्यस्मृतिः १/३) अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्याह्येताश्चतुर्दश ॥ विष्णु पु. 1) इति चतुर्दशविद्यास्थानेषु परिगणितस्य न्यायविस्तरस्य धर्मप्रमित्युपयोगित्वेन धर्मशास्त्रादिवत्तस्य वैदिकैरनुसरणीयत्वात् । मन्वादिस्मृतिवत् गौतमस्मृतेरपि सकलवैदिकोपजीव्यत्वेन तत्कृतन्यायविस्तरस्यापि तथात्वावश्यंभावाश्च । गौतमप्रणीतन्याय-विस्तरस्य पक्षिलेन महामुनिना भाष्यप्रणयनपूर्वकं प्रवर्तितत्वाच्च । तस्मान्न्यायविस्तरदूषणं वैदिकेन कर्तुमयुक्तमिति चेन्न ।

प्रमाणस्वरूपनिरूपणांशे तस्योपजीव्यत्वेऽपि तत्प्रतिपादितस्य परमाणु कारणत्ववेदपौरुषेयत्वादेः पाषाणकल्पमोक्षादिपदार्थानां च वेदान्त विरुद्धतयाऽवश्यं निरसनीयत्वात् । उद्योतकरवाचस्पतिप्रभृतिव्याख्यात्रभिमतार्थान्तराणां च तथात्वेन तेषामपि निरसनीयत्वाच्च ।

...............................................................................................................................................................

1. आयुर्वेदो धनुर्वेदो गन्धर्वश्चेति ते त्रयः ।

अर्थशास्त्रं चतुर्थं च विद्याह्यष्टादशैव ताः ॥ विष्णु. पु.)

2. न्यायदर्शन भाष्य कर्तुर्महामुनेर्वास्यायनस्य पक्षिलस्वामीति नामान्तरम् ।

3. पद्मपुराणे ब्रह्मयोग दर्शनातिरिक्तानां दर्शनानां निन्दाप्युपलभ्यते । यथा तत्र पार्वतीं प्रतीश्वरवाक्यम्-

श्रुणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् ।

येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ॥

प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ।

मच्छक्यावेशितैर्विप्रैः संप्रोक्तानि ततः परम् ॥

………………………………………………………………………………………………………………………………………………….

वस्तुतस्तु न्यायविस्तराख्यं विद्यास्थानं भगवत् बादरायणकृत ब्रह्मतर्काभिधानं शास्त्रं न गौतमादिप्रणीतं, तस्य सर्वात्मना वेदविरुद्धत्वात् । तदुक्तमनुव्याख्याने ।

प्रमाणन्यायसच्छिक्षाक्रियते तर्कशास्त्रतः ।

मायान्यायैस्तु तत्सिद्वैमीमांसा मेयशोधनम् ॥

…………………………………………………………………………………………………………………………………………………

कणादेन तु संप्रोक्तं शास्त्रं वैशेषिकं महत् । ཊུ

गौतमेन तथा न्यायं साङ्खय्न्तु कपिलेन वै ||

द्विजन्मना जैमिनिना पूर्वं वेदमयार्थतः ।

निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥

धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् |

दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ॥

बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादिकम् ।

मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव च ।

मथैव कथितं देवि ! कलौ ब्राह्मणरूपिणा ॥

अपार्थं श्रुतिवाक्यानां दर्शयलोकगर्हितम् ।

कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते ।

सर्वकर्मपरिभ्रंशान्नैष्कम्यं तत्र चोच्यते ॥

परात्मजीवयोरैक्यं मयात्रप्रतिपाद्यते ।

ब्रह्मणोऽस्य परं रूपं निर्गुणं दर्शितं मया ।

सर्वस्य जगतोऽप्यस्य नाशनार्थं कलौ युगे ।

वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् |

मयैव कथितं देवि जगतां नाशकारणात् ॥ इति ॥

1. सामवेदीयकेनोपनिषदितस्मै तपो दमः कर्मेति प्रतिष्ठा । वेदा सर्वाङ्गानि सत्यमायतनम् " । इत्यत्र सत्यमितिपदेन तर्कशास्त्रं च सत्यमित्युच्यते ॥ अत्र तर्कशास्त्रं बादरायणकृतं ब्रह्मतर्काभिधं शास्त्रमेव विवक्षितम् ।

……………………………………………………………………………………………………………………………………………………..

 

ब्रह्मतर्के च भगवान् स एव कृतवान् प्रभुः ।

पंचाशत्कोटिविस्तारान्नारायणतनौ कृतात् ।

उद्धृत्य पंचसाहस्रं कृतवान् बादरायणः ॥ इति ॥

अतो गौतमानुसारिनैयायिकमतं निरसनीयम् ॥

तत्र प्रमाणादयः षोडशपदार्थाः, प्रमाणानि च प्रत्यक्षानुमानोपमानशब्द इति चतुर्विधानि, आत्मशरीरेन्द्रियादिरूपं प्रमेयं द्वादशविधमित्यादिरूपेण तन्मतप्रक्रिया प्रसिद्वैव । तत्र प्रधानप्रमेयदूषणं प्रथमं क्रियते । परमाणूनां जगदुपादानत्वं तावदयुक्तम् । यदा तमस्तं न दिवा न रात्रिः " । 'तमो वा इदमेकमास', मायां तु प्रकृतिं विद्यात् ' 'अजामेकां' (वे. उ. ४ अ. मं. ५) 'आसीदिदं तमोभूतम् ” (मनु.. स्मृ. अ. १ लो. ५)इत्यादिश्रुतिस्मृतिभिस्तमोमायाप्रकृत्यजादि शब्दितस्यान्यस्यैव जगदुपादानत्त्ववेदनात् । न च तमोमायादिशब्दानां परमाणुवाचित्वादविरोध इति युक्तम् । लोकवेदयोस्तेषां तद्वाचिताया प्रसिद्ध्यभावात् । न लक्षणया तत्परत्वम् । अर्थान्तरपरत्वेनापि तदुपपत्तेः ॥

………………………………………………………………………………………………………………………………………………………

1 प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्ताचयतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानान्निःश्रेयसाधिगमः (गौ.न्या. सू. १)

2. प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि । (गौ. न्या. सू. ३)

3. आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् । (गौ. न्या. सू. ९)

4. न सन्नचासञ्छिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञाच तस्मात्प्रसृता पुराणी ॥ इति शेषः । (श्वे. उ. ४ अ. मं. १८)

5. असीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।

अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥

………………………………………………………………………………………………………………………………………………………

ननु 'यदा तमः ' ( श्वे. उ. अ. ४, मं. १९) इति मन्त्रे तमः शब्देनान्धकारः उच्यते । न त्वदभिमतं जगदुपादानं प्रमाणाभावात् । प्रसिद्धिविरोधापत्तेश्च । 'मायां तु प्रकृतिं विद्यात्" (श्वे. उ. अ. ४, मं. १०) इत्यत्र च मायाप्रकृतिशब्दाभ्यां जीवादृष्टमुच्यते । तस्य जगत्सृष्टौ सहकारित्वात् । तदुक्तं न्यायकुसुमांजलौ (प्रथमस्तबकेऽन्तिमश्लोकः) " इत्येषा' सहकारिशक्तिरसमा माया दुरुन्नीतितो मूलत्वात्प्रकृतिः ॥ " इति ॥

'अजा' मन्त्रे च पार्थिवाप्यतैजस परमाणव एवोच्यन्ते । न त्वदभिमता प्रकृतिः । 'लोहितशुक्लकृष्णामिति विशेषितत्वात् । त्वदभिमतप्रकृते निरूपत्वात् । न चैवमेकत्व विशेषणानुपपत्तिः । तस्य सङ्घातनिष्टत्वेनाविरोधात् । त्वयापि मूलप्रकृतेरनेकावयवसङ्घातरूपत्वोपगमाच्च । एवं च कर्यानुरूपमेव जगदुपादानमङ्गीकर्तव्यम् । तच्च परमाणुरूपम् । कार्यानुरूपत्वादिति चेदुच्यते ।

यदा तम इति मन्त्रेणान्धकारः न प्रतिपाद्यते प्रलये तस्य अनवस्थानात् । प्रलयस्यादृष्टाद्यतिरिक्तकार्यनाशरूपत्वादन्धकारस्य च कार्यत्वोपगमात् । विनाशाभ्युपगमाच्च । प्रौढप्रकाशक यावन्तेजः संसर्गाभावरूपत्वेऽपि तस्योत्पत्तिविनाशाभ्युपगमाच्च । न च प्रलयेऽन्धकारातिरिक्तकार्यनाशाभ्युपगमात्तमः शब्दस्यान्धकारवाचित्वे विरोघाभाव इति वाच्यम् ।

" नाहो न रात्रिर्न नभो न भूमिर्नासीत्समोज्योतिरभून्न चान्यत् " इति विष्णुपुराणे प्रलयेऽन्धकारासत्वावेदनेन तथा सङ्कोचायोगात् । तथा च यदा तमः तमो वा इदमेकमास, आसीदिदं तमो भूतम्

...........................................................................................................................................................

1.       मायां तु प्रकृतिं विद्यान्माथिनं तु महेश्वरम् |

तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥

2.मूलत्वारप्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता ॥

देवोऽसौ विरतप्रपञ्चरचना कल्लोलकोलाहलः |

साक्षात्साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम ||

………………………………………………………………………………………………………………………………………………………

इत्यादिश्रुतिस्मृतिषु तमःशब्देन मूलप्रकृतिरेवोच्यते । नान्धकारः । तस्य विदादिप्रपञ्चानात्मकत्वात् । तल्लयानाश्रितत्वाच्च । अत एव न जीवादृष्टमपि तमः शब्दार्थः ।

किं च 'मायां तु प्रकृतिं विद्या (श्वे. उ. अ. ४, मं. १०) दित्यत्रापि मायाशब्देन न जीवाष्टमुच्यते । तथा सति तत्र प्रकृतित्वापर-पर्यायोपादानत्वविधानायोगात् । 'प्रकृतिं पुरुषं चैव विद्वधनादी उभावपि (भ.गी. अ. १३, श्लो. १९) । ' प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वेश: ' (भ्र. गी. अ. ३, श्लो. २७ ) । मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् " (अ. गी. अ. ९, श्लो. १०) इत्यादी प्रकृतिशब्दस्य प्रधान परत्वदर्शनेनात्रापि तत्परत्वमेव स्यात् । नोपादानपरत्वमिति चेत् । तथापि मायाया जीवा इष्टरूपत्वासिद्धितादवस्थ्यात् । 'जनिकर्तुः प्रकृति' ( व्या. सू. १-४-२० ) रित्यादौ प्रकृतिशब्दस्योपादानपरत्वदर्शनाच्च ।

किं च 'दैवी ह्येषा गुणमयी मम माया दुरत्यया' (भ.गी. अ. ७, श्लो. १४) इत्यादिस्मृत्यनुसारेण 'मायां तु प्रकृतिं विद्यादित्यत्र मायाशब्देन सत्वादिगुणका मूलप्रकृतिरेव ग्राह्या न तु जीवादृष्टम् । 'देवात्मशक्तिं स्वगुणैर्निगूढां पञ्चपूर्वामधीमः' इति परमोपक्रमे

…………………………………………………………………………………………………………………………………………………….

1. ' हेतुनानेन कौन्तेय जगद्विपरिवर्तते ति ||

2. गुणिका-पाठान्तरम् ।

3. ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् ।

यः कारणानि निखिलानि तानि कलात्मयुक्तान्यधितिष्ठत्येकः ॥ (श्वे. उ. प्र. अ. मं. ३)

4. पञ्चस्रोतोम्बु पञ्चयोन्युग्रक्राम् पञ्चप्राणोर्मिं पश्चबुध्यादिमूलाम् ।

पञ्चावर्तां पंचदुःखौघवेगां पञ्चाशद्भेदां । पञ्चपूर्वामधीमः || (खे. उ. प्र. अ. मं. ८)

……………………………………………………………………………………………………………………………………………………

प्रतिपन्नायाः मूलप्रकृतेरेव मायाशब्दार्थत्वौचित्यात् । न च 'मायया ' सन्निरुद्ध' (श्वे. उ. अ. ४, मं. ९) इति जीवनिरोधकत्वेनोकमाया जीव-कर्मरूपेति वाच्यम् । मूलप्रकृतेरपि बन्धकत्वोपगमात् । बम्धमात्रस्यापि तदधीनत्वाच्च । तथा च श्रुतिः- "अनीशया शोचति मुह्यमानः (श्वे. उ. अ. ४, मं. ७) इति ॥

किञ्चाजामंत्रे पार्थिवाप्यतैजस पर माणूनां प्रतिपादनमित्यनुपपन्नम् । 'अजो' ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ' । (श्वे. उ. अ. ४, मं. ८) इति तस्या एकेन जीवेन जुषमाणत्वस्यान्येन भुक्तभोगायास्तस्यास्त्यज्यमानत्वस्य च प्रतिपादनात्परमाणूनां तथात्वस्थानङ्गीकारात् । तदारब्धस्थूलशरीरस्यैव तथात्वाभ्युपगमाच्च । न चाजामन्त्रस्य तथाविधस्थूलशरीर परत्वमिति युक्तम् । एकत्वविशेषण-लेन जगदुपादानभूत मूलप्रकृति परत्वावश्यम्भावात् । एकशब्दस्य व्यक्त्यैक्यपरत्वे सम्भवति जात्यैक्यसमूहैक्यपरत्वायोगात् । मया प्रकृतेरनेकावयवात्मकत्वाभ्युपगमेऽपि जगतस्तपरिणामत्वाभ्युपगमेन (तदारब्धत्वानभ्युपगमेन) च वैषम्यात् । न च मूलप्रकृतेः नीरूपत्वाभ्युपगमेन 'लोहितशुक्लकृष्णा' मिति रूपविशेषप्रतिपादनमसङ्गतमिति वाच्यम् । गुणत्रयप्रतिपादनपरत्वेन विरोधाभावात् । तत्र रूपाभ्युपगमे विरोधाभावात् । तत्र लोहितादिशब्दस्य च कार्यकारणाभेदाभिप्रायेण

…………………………………………………………………………………………………………………………………………..

1.छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति ।

अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्रान्यो मायया संनिरुद्धः ॥ (श्वे. उ. अ. ४, मं. ९)

2. समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचसि मुह्यमानः ।

जुष्टं यदा पश्यत्यन्यमीशमस्यमहिमानमिति वीतशोकः ॥

3. अजामेकां लोहितशुक्लकृष्णां बहीः प्रजाः सृजमानां सरूपाः ।

अजो ह्योको जुषमाणोऽनुशेते जहात्येकां मुक्तभोगामजोऽन्यः ॥ (श्वे. उ. अ. ४, मं.: )

…………………………………………………………………………………………………………………………………………..

मूलप्रकृतावपि रूपविशेषप्रतिपादने विरोधाभावाच्च । तस्मात्प्रकृतेरेव जगदुपादानत्वं न परमाणूनाम् ।

न च पृथिव्यादिकार्यानुरूपमेव तदुपादानं वाच्यंमिति परमाणुसिद्धिरिति वाच्यम् । मूलप्रकृतेरपि जडत्वादिना कार्यानुरूपत्वात् । घटपटत्वादिना परमाणूनामपि कार्याननुरूपत्वाच्च । पृथिवीत्वादिना कारणस्य कार्यानुरूपत्वं विवक्षितमिति चेन्न । घटादिकारणस्य कपालादेर्घटत्वाद्यभावेऽपि घटाद्युपादानत्वाभ्युपगमेनोक्तविवक्षाया अननुसरणीयत्वात् । किंच त्वन्मते चक्षुरादीनामनुद्भूतरूपस्पर्शकत्वेऽपि कथं तदुपादानभूतानामणूनामुद्भूतरूपस्पर्शवत्वमङ्गीक्रियते । तत्तदद्दष्टरूप सहकारिवशेन तथाभूताणूनामप्यनुद्भूतरूपस्पर्श चक्षुराद्युपादानत्वाङ्गीकारे च मूलप्रकृतौ पृथिवीत्वाद्यभावेऽपि तथाविधाद्दष्ट्रवशेन पृथिव्याद्युपादानत्वसम्भवाच्चेति यत्किञ्चिदेतत् ।

ननु प्रकृतेरनेकावयवात्मकत्वाभ्युपगमेन रूपवत्वाभ्युपगमेन च परमाणुकारणवाद एवापन्न इति न कश्चिद्विशेष इति चेन्न । मतद्वयेऽपि परिमाणारम्भकत्वरूपविशेषस्य सत्वात् । अणूनां सावयवत्वाभ्युपगमेन क्वचिदपि विश्रान्त्यनभ्युपगमेन च वैषम्य सत्वात् ।

वस्तुतस्तु प्रकृतेर्न रूपस्पर्शादियोगित्वम् । तथा श्रीविष्णुपुराणवचनम् ।

अव्यक्तं कारणं यत्तत् प्रधानमृषिसत्तमैः ।

प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मका ॥

अक्षयं नान्यदाधारममेयमजरं ध्रुवम् ।

शब्दस्पर्शविहीनं तत् रूपादिभिरसंहितम् ॥

त्रिगुणं तज्जगद्योनिरनादिप्रभवाव्ययम् ॥ इति ॥

किं च परमाणुभिर्जगदारभ्यत इत्ययुक्तम् ।

तथाहि--

किं पृथिव्यादिमहाकार्यं युगपदेव परमाणुभिरारभ्यते । किं वा ह्यणुकादिप्रक्रमेण । नाद्यः । अनभ्युपगमात् । नानादेशस्थितानां परमाणूनां यौगपद्यायोगाच्च । न चेश्वरेच्छावशात्तेषां यौगपद्यं संभवतीति वाच्यम् । अयोग्यार्थविषयेश्वरेच्छाया एवायोगात् । अन्यथेश्वरः कदाचिज्जलादेरव्यौष्ण्यं कुर्यात् । न चैवं तस्येश्वरत्वव्याकोपः । उपपन्नसर्वार्थविषयत्वेनैव तदीश्वरत्वोपपत्तेः । तावतैवास्मदादिवैलक्षण्योपपत्तेश्च । न द्वितीयः । प्रथमं द्वाभ्यां परमाणुभ्यां अणुकमुत्पद्यते । अनन्तरं त्रिभिर्ह्यणुकैस्त्ररूणुकमित्येवमाकारेणोत्पत्ती नियमाभावात् । प्रथमं त्रिभिश्चतुर्भिर्वा परमाणुभिरेकद्रव्योत्पत्तौ विरोधाभावाच्च । न च प्रथमं द्वाभ्यामेव परमाणुभ्यामेकद्र्यणुकारम्भसम्भवे त्र्ययाणां चतुर्णां वा तदारम्भकल्पने गौरवमिति वाच्यम् । सत्यां सामग्रयां गौरवस्यापि सह्यत्वात् । न हि सामग्रीगौरवभयात् कार्येम् नार्जयतीत्यस्ति ।

किञ्चैवं एकस्या एव प्रकृतेर्जगदुपादानत्वसम्भवे अनेकेषां परमाणूनां तदुपादानत्वकल्पने गौरवमिति वैपरीत्यापत्तिः । किं च त्वदभिमतपरमाणुसद्भावे मानाभावः । पृथिव्यादिकार्यस्यास्मदभिमतप्रकृतिकार्यतया तदसाधकत्वात् ।

ननु यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतममुपलभ्यते तत् स्वल्पपरिमाणद्रव्यारब्धं कार्यत्वात् । घटादिवत् । न चासिद्धिः । चाक्षुषद्रव्यस्य कार्यत्वनियमात् । तदपि द्रव्यं कार्यं महद्रव्यारम्भकस्य कार्यत्वनियमात् । न च जालसूर्य मरीचिषुपलभ्यमानस्य द्रव्यस्य महत्वमसिद्धमिति वाच्यम् । तस्य चाक्षुषत्वेन महत्वस्याङ्गीकार्यत्वात् । महत्व समानाधिकरणोद्भूतरूपवत एव चाक्षुषत्वात् । एवं च द्रयणुकारम्भकतया परमाणुसिद्धिः । न च द्वयणुकारम्भकस्यापि कार्यत्वम् । अनवस्थापातात् । मेरुसर्षपयोरनन्तावयवारब्धत्वाविशेषे तुल्यपरिमाणत्वापाताच्चेति चेत् । न । बीजांकुरादाविवानवस्थाया अदोषस्वात् । घट करीरार्देरनन्तावयवारब्धत्वाविशेषेऽपि त्वया परिमाणकृतवैलक्षण्यस्याभ्युपगमाच्च । तत्रानन्त्ये विशेष सत्वे च प्रकृतेऽपि तथास्तु |

…………………………………………………………………………………………………………………………………………………

1. करीरः, अङ्करः । ' वंशाङ्करे करीरोऽस्त्री तरुभेदे घटे व ना' (इत्यमरः)

…………………………………………………………………………………………………………………………………………………

किंवेश्वरस्य त्वन्मते शानेच्छाकृतिमत्वमित्यङ्गीकारोऽनुपपन्नः । तस्यानन्त गुणकत्वात् । तथा च श्रुतिस्मृतयः-

अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः " (अथर्वशिरः, अग्निवेश्यश्श्रुतिश्च) मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे-इत्याद्याः ।

न चोदाहृतश्रुतिस्मृतीनां उपचरितार्थत्वमिति युक्तम् । मुख्यार्थपरत्वे बाधकाभावात् । न च कार्यत्वाद्यनुमानेन सिध्यनीश्वरो ज्ञानचिकीर्षाकृत्याश्रयत्वेनैव सिध्यतीति गुणान्तराणि तत्र नाङ्गीकार्याणीति वाच्यम् । ईश्वरस्यानुमानिकत्वस्यैवायोगात् । कार्यत्वाद्यनुमानस्य यथादृष्टोपसंहाररूपत्वेनास्मदादिवैलक्षण्यासिद्धेश्च । " नेन्द्रियाणि नानुमानं वेदाह्येवैनं वेदयन्ति--इत्यादिश्रुत्या तस्यानुमानगम्यत्वनिषेधपूर्वकं श्रुत्यैकसमधिगम्यत्वप्रतिपादनेन तद्विरोधापत्तेश्च ।

किं च त्वन्मते समवाय्यसमवायिनिमित्तभेदेन कारणत्रैविध्योक्तिरप्यनुपपन्ना | समवायिनिमित्तभेदेन तद्वैविध्यस्यैव युक्तत्वात् । अन्यथा अनिमित्तकारणमित्यपि परिगणनं स्यात् । न चानिमित्तस्य कारणत्वं विरुद्धमिति वाच्यम् । दण्डादेरेव निमित्ततया कुलालादेः कर्तुरनिमित्ततया च तथा विभागकरणेऽपि विरोधाभावात् । यदि च कर्तुः कुलालादेर्निमित्तेष्वेवान्तर्भावः तदा तन्तुसंयोगादेरपि तत्रान्तर्भाव इति सुवचम् । पृथक् परिभाषाकरणस्योभयत्रापि समानत्वात् ।

किं च षोडशपदार्थतत्वज्ञानस्य मोक्षसाधनत्वोक्तिरप्यनुपपन्ना । ब्रह्मज्ञानान्मोक्ष इत्यस्य श्रुति स्मृति' सिद्धत्वेन तद्विरोधापत्तेः । न च परम्परया मोक्षसाधनत्वाभिप्रायोऽस्येति वाच्यम् । तथा सति भ्रमादेरपि तथात्वेन तत्वज्ञानपर्यन्तानुधावनायोगात् । न च मिथ्याज्ञानस्य बन्धहेतुत्वात्तस्य च सर्वविषयकत्वेन तन्निवृत्यर्थं सर्वविषयकं

………………………………………………………………………………………………………………………………………………………

1. पिप्पलादश्रुतिः ।

2. " तमेवं विदित्वातिमृत्युमेति " इत्याद्याः श्रुतयः ।

3. यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा || इत्याग्नेये ||

ज्ञानान्मोक्षो भवत्येव li इति ब्रह्माण्डे ||

……………………………………………………………………………………………………………………………………………………….\

तत्वज्ञानमावश्यकं न तु ब्रह्ममात्रविषयकम् । तन्मात्रविषयक तत्वज्ञानेन तदितरविषयक मिथ्याज्ञाननिवृत्त्ययोगादिति वाच्यम् । "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे | " । इत्यादिश्रुत्यनुसारेण भिन्नविषयतत्वज्ञानस्यापि तथाविधमिथ्याज्ञाननिवर्तकत्वस्याङ्गीकार्यत्वात् । "आत्मा' वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । " इति परमात्मविषयक श्रवणादीनामेव कर्तव्यत्वविधानेन तद्विरोधापत्तेश्च । न प्राधान्याभिप्रायैव सा श्रुतिः । अन्यथा जीवाद्यर्थान्तरविषयश्रवणादिकं नानुष्ठीयेतेति वाच्यम् । तथाप्यत्यन्तव्यवहितसंशयादिनिवर्तकतत्वज्ञानस्य मोक्षसाधनत्वोक्त्यनुपपत्तेः ।

किंच आत्यन्तिकदुःखध्वंसो मोक्ष इत्यनुपपन्नम् | 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति । 'शोकातिगो' मोदते स्वर्गलोके तेषां सुखं शाश्वतं नेतरेषाम्' इत्यादि श्रुतिभिर्मोक्षे आनन्दानुभवस्य प्रतिपन्नत्वात् । न चोदाहृतयो दुःखाभावाभिप्राया इति युक्तम् । स्वर्गादिसुखस्यापि असिध्यापत्तेः । न च मोक्षे देहेन्द्रियाभावेनानन्दाभावः । स्वरुपानन्दस्यैव तदानीमनुभूयमानत्वात् । न च मोक्षे जन्यज्ञानानङ्गीकारेण स्वरूपानन्दानुभवः कथमिति शङ्कयम् । आत्मन एव ज्ञानरूपतया स्वविषयत्वलक्षणस्वप्रकाशत्वोपगात् । चात्मनो ज्ञानानन्दादिरूपत्वे स्वप्रकाशत्वे च प्रमाणाभावः शङ्कयः । एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष' इत्यादि श्रुत्या जीवात्मनो ज्ञानस्वरूपत्वसिद्धेः । सुखमहम-

…………………………………………………………………………………………………………………………………………………..

1. मुण्डकोपनिषत्, (द्वि. ख. मं. ८)

2. बृ. उ. (६-५-६)

3. तैत्तिरीय (२-२ )

4. कठोपनिषत् (प्र. अ. प्र. वल्ली, मं. १२, १८)

5. षट्प्रश्न. (खं. ४, मं. ९)

.......................................................................................................................................................

स्वाप्समिति तस्यानन्दरूपत्वसिद्धेश्च । 'अत्रायं पुरुषः स्वयंज्योति'"-रिति श्रुत्या तस्य स्वप्रकाशत्वसिद्धेश्च । न चेयं श्रुतिः परविषयेति शङ्कनीयम् । सुषुप्तिप्रक्रमात् परमात्मनोऽपि स्वप्रकाशत्वाभ्युपगमाच्च । न च स्वस्य स्वविषयत्वं विरुद्धम् । ईश्वरज्ञानस्य सर्वविषयत्वमभ्युपगच्छता त्वया तस्य स्वविषयत्वस्याप्यभ्युपगन्तव्यत्वात् । न चेश्वरज्ञानस्य स्वातिरिक्तसर्वविषयत्वमिति शङ्कनीयम् । तथा सङ्कोचे कारणाभावात् । 'यः सर्वज्ञ: सर्ववित्" इत्यादिश्रुतिव्याकोपापत्तेश्च । अत्रापि सङ्कोचं वदता उन्मत्तवदुपेक्षणीयत्वाच्च । प्रमेयत्वे प्रमेयत्वं वदता त्वया स्वस्य स्वविषयत्वस्याभ्युपगन्तव्यत्वाच्चेति । एवमस्मन्मतविरुद्धं नैयायिकाभिमतप्रक्रियान्तरमपि निरसनीयम् ।

एतेन वैशेषिकाभिमतप्रक्रियापि निरस्ता वेदितव्या । तन्मतप्रक्रियाया अपि सफलश्रुतिस्मृतिविरुद्धत्वेन अनादरणीयत्वात् । तथा च स्मृतिः-

काणादशाक्य पाषण्डैत्रयीधर्मो विलोपितः ।

त्रिदण्डधारणापूर्वं विष्णुना रक्षिता त्रयी ॥

इति । तत्रर्मं व्याख्यास्यामःइति धर्मनिरूपणं प्रतिज्ञाय द्रव्यादि-षट्पदार्थनिरूपणं कणादेन कृतम् । तदसङ्गतम् । 'आम्रान् पृष्टः कोविदारानाचष्ट' इतिवत्तथाप्रतिज्ञानिरूपणयोर्व्यधिकरणत्वादत एव धर्म व्याख्यातुकामस्य षट्पदार्थनिरूपणंसागरं गन्तुकामस्य हिमवद्गमनोपम" मिति काणादे प्रतिज्ञानिरूपणे परिहसन्ति सन्तः । न च द्रव्यादीनामपि धर्मत्वेनावैयधिकरण्यमिति शङ्कयम् । 'लोके धर्मिष्टं प्रजा उपसर्पन्ति चोदना 'लक्षणोऽर्थो धर्म ' इति श्रुतिसूत्राभ्यामलौकिक श्रेयः साधनस्याग्निहोत्रादेरेव धर्मत्वप्रतिपादनेन द्रव्यादीनामतथात्वात् ।

………………………………………………………………………………………………………………………………………………..

1. बृ. ६ अ - ३ बा. ९ मन्त्रः ॥

2. मुण्डकोपनिषत् खण्ड- १, मं. ७

3. धर्मे व्याख्यास्यामः इति सूत्रम् ॥ ( कणादसूत्रम् )

4. जै.सू. प्र. अ. प्र. पा. अधि. २, सू. २ ॥

…………………………………………………………………………………………………………………………………………………….

यद्यपि गुणादीनां द्रव्यधर्मत्वमभ्युपगतम् । तथापि धर्मशब्देन तेषामत्रग्रहणं न युक्तम् । प्रतिज्ञाया न्यूनविषयत्वतादवस्थ्यात् । न च धर्मशब्दे लक्षणामङ्गीकृत्य प्रतिज्ञायाः सर्वविषयत्वमिति शङ्कम् । तथा कल्पनायाँ प्रमाणाभावात् । अन्यथोन्मत्तवाक्यमपि लक्षणाकल्पनद्वारा प्रमाणं स्यात् । न चास्याप्तवाक्यतयोन्मत्तवाक्यवैलक्षण्यमिति वाच्यम् । " कणादशाक्यपापण्डैास्त्रयीधर्मो विलोपितः" इत्युदाहृतस्मृत्या कणादस्यानाप्तत्वावेदनादिति यत्किञ्चिदेतत् ।

किं च द्रव्याणि न वेत्यनुपपन्नम् । प्रकृतिमहदहङ्कारादेरन्धकारस्य वर्णात्मकशब्दादेश्च द्रव्यान्तरस्य सत्वात् । न च प्रकृतिमहदहङ्कारादयो न सन्तीति युक्तम् । श्रुतिस्मृतिपुराणादिषु तेषामुपलम्भात् । न च तेषां पृथिव्यादिष्वन्तर्भावः । तद्भिन्नतया श्रुतिस्मृत्यादिषु प्रतिपाद्यमानत्वात् । अन्यथा पृथिव्याद्यपलापप्रसङ्गात् । न चान्धकारस्य प्रौढ प्रकाशक यावत्तेजः संसर्गाभावरूपत्वेन द्रव्यत्वमेव नेति युक्तम् । पृथिव्यादेरिव रूपवत्व क्रियावत्व परिमाणवत्वादिना तत्रापि द्रव्यत्वस्य दुर्वारत्वात् । न च तत्र रूपवत्वादिप्रतीति: भ्रमः । बाधकाभावात् । वाचकाभावेऽपि भ्रमत्वाङ्गीकारे पृथिव्यादावपि रूपवत्वादिप्रतीते भ्रमत्वेनाद्रव्यत्वं स्यात् । न चोभयसिद्धालोकाभावेनैवान्धकारप्रतीतिव्यवहारयोरुपपत्तौ न तस्य द्रव्यान्तरत्वं कल्पनीयं गौरवादिति वाच्यम् । अनन्यथासिद्धस्य रूपवत्वादेर्द्रव्यत्वसाधकस्य विद्यमानत्वेन गौरवस्य प्रामाणिकत्वात् । अन्यथा त्वन्मते आकाशादिद्रव्यान्तरं न सिद्धयेत् । तत्राण्यावरणाभावरूपत्वेनान्यथासिद्धेर्वक्तुं शक्यत्वात् । न च शब्द-लक्षणगुणस्यान्यत्रासम्भवेनातिरिक्ताकाश द्रव्यसिद्धिरिति शङ्कयम् !

तथासत्यत्राप्यपाकजनीलरूपस्यान्यत्रासम्भवेनान्धकाराख्यद्रव्यसिद्धेर्दुर्वारत्वात् । वस्तुतस्तु ध्वन्यात्मकशब्दस्य नाकाशमात्रगुणत्वं किं तु पञ्चभूतगुणत्वमिति न भवदभिमतपरिशेषसिद्धिः ।

किं चान्धकारस्यालोकाभावरूपत्वं कथमभ्युपगम्यते । तद्भावस्थले एव तत्प्रतीतेरिति चेन्न । आकाशस्याप्यावरणाभावरूपस्यापाततः उक्तत्वात् । आलोकस्याप्यन्धकाराभावस्वरूपत्वापाताच्च । तमशिच्छेद भगवानित्यादिस्मृत्यान्धकारस्य छेद्यत्वादिप्रतिपादनेन द्रव्यत्वस्य दुर्वारत्वाच्च । न च वर्णात्मकशब्दस्याप्याकाशादिगुणत्वेन द्रव्यत्वं नेति युक्तम् | 'यावद्ब्रह्म' विष्टितं तावती वागिति ब्रह्मवत् विभुद्रव्यत्वावेदनात् । 'वाचा' विरूप नित्यया' इति तन्नित्यत्वावेदनाच्च । न चोत्पन्नोकारो विनष्टटो कार इति वर्णात्मकशब्दस्योत्पत्तिविनाशानुभवेन कथं नित्यविभुद्रव्यत्वमिति युक्तम् । उत्पत्तिविनाशयोर्व्यन्जकवायुगतत्वेन वर्णगतत्वासिद्धेः । न च विनिगमनाविरहः । तन्नित्यत्वस्य प्रमाणसिद्धत्वात् । ' स एवायं गकारः' इति प्रत्यभिज्ञायाः सार्वजनीनत्वाच्च । न च नित्यत्वं गौणम् । प्रत्यभिज्ञा सजातीयविषयिणीति युक्तम् । बाधके सत्येव नित्यत्वस्य गौणनित्यत्वरूपताया: प्रत्यभिज्ञायाश्च जातिविषयत्वस्य चाङ्गीकर्तव्यत्वात् । न हि प्रकृते शब्दनित्यत्वस्य मुख्यत्वे प्रत्यभिज्ञाया व्यक्तिविषयत्वे च बाधकमस्ति । उत्पत्तिविनाशप्रतीतिश्च व्यञ्जकविषयिणीति युक्तम् ॥

किं चेन्द्रियाणां भौतिकत्वोक्तिरसङ्गता । तैजसानीन्द्रियाण्याहुरिति तेषां तैजसाहङ्कार कार्यत्वावेदनात् । न च रूपादिषु पञ्चसु मध्ये यदिन्द्रियं यदिन्द्रियगुणं गृह्णाति तदिन्द्रियं तद्गुणयुक्तमिति व्याप्तिबलादिन्द्रियाणां भौतिकत्वं सिद्धयतीति युक्तम् । सर्वेष्वपीन्द्रियेषु भौतिकत्वाहङ्कारिकत्वविवादे व्याप्तेरेवाभावेनानुमानप्रवृत्त्ययोगात् । रूपादिषु पञ्चसु मध्ये इत्यादिविशेषणविवक्षायाः कुसृष्टियुक्तत्वेन तत्सिध्यर्थमागमस्यैवानुसरणीयतया धर्मिग्राहकमानेनाऽऽहङ्कारिकत्वस्यैव सिद्धेश्च|

किं च श्रोत्रेन्द्रियस्याकाशात्मत्वमसङ्गतम् । श्रोत्रेन्द्रियस्यापि चक्षुरादेरिवोत्पत्यादेः श्रवणात् । एवं वागादिकर्मेन्द्रियपञ्चक-

…………………………………………………………………………………………………………………………………………….

1. ऋ. मं. १०, सू. १९४, मं. ८ ॥

2. ऋग्वेदे मं. ८, सू. ७५, मं. ६ ॥

3. भागवतम्

……………………………………………………………………………………………………………………………………………….

प्यङ्गीकार्यम् । इन्द्रियाणि दशैकं चेत्यादि स्मृत्या वागादीनामपि इन्द्रियत्वसिद्धेः । एवमाकाशस्य मनसश्च नित्यत्वं नाङ्गीकार्यम् । तयोरपि सृष्टिप्रकरणेषूत्पत्तिविनाशयोरावेदनात् । न हि श्रुतिविरोधेऽनुमानं मानं भवति । अन्यथा श्रुत्यर्थः सर्वोऽपि दत्तजलाञ्जलिः स्यात् । न च तद्युक्तम् । वैदिकेन श्रुत्यर्थस्य सर्वस्यानुसरणीयत्वात् । न च तत्र श्रुतेरतात्पर्यम् । तत्र हेत्वनुपन्यासात् । निष्कारणमेव तत्र तात्पर्यानभ्युपगमे अतिप्रसङ्ग इति उक्तम् ।

किं च तदभिमताखण्डकालेऽपि न प्रमाणम् । भूतभविष्यद्वर्तमानकालातिरेकेण कालान्तरस्याभावात् । यथा चैतत्तथाऽग्रे वक्ष्यते ।

किं च जीवात्मनो विभुत्वमपि नाङ्गीकार्यम् । तत्र प्रमाणाभावात् । प्रत्युत 'बालाग्रशतभागस्ये "त्यादिश्रुत्या तस्याणुत्वेनैव सिद्धेः । न चैषोऽणुरात्मा चेतसा वेदितव्यः अणोरणीयानित्यादिपरविषयाणुत्व श्रुतीनामिव 'बाला' त्यादेरपि सौक्ष्म्याभिप्रायत्वमेव नत्वणुपरिमाणप्रतिपादनपरत्वमिति वाच्यम् । 'महतो महीयान्' 'महान्तं विभुमात्मानम्' इत्यादिश्रुतिभिः इत्यादिश्रुतिभिः परमात्मनः सर्वव्यापकत्वप्रतिपादनेन तत्राणुत्वप्रतिपादकश्रुतीनां सौक्ष्म्याभिप्रायत्वकल्पनेऽपि जीवात्मनि 'बलाग्रे'त्यादेर्यथा विशिष्यव्यापकत्वप्रतिपादकश्रुतिस्मृत्याद्यदर्शनेन

श्रुतार्थत्वस्यैव न्याय्यत्वात् । न च 'नित्यः सर्वगतः' स्थाणु'रिति स्मृत्या तस्य सर्वगतत्वसिद्धिः । 'अग्नि' र्यथैको भुवनं प्रविष्टः' इत्यादावग्नेः

……………………………………………………………………………………………………………………………………………….

1. गी. अ. १३, श्लो. ८ ॥

2. तै. श्रु. नं. वल्ली ॥

3. श्वेताश्वतरोपनिषदि अध्या. ८, मं. ९ ॥

4. श्वेताश्व. अ. मं. २० ॥

5. कठ अ. १, बल्ली १, मं. २२ ॥

6. गीः अ. २, श्लो. २४ ॥

7. कठ अ. २, बल्ली २, मं. ९ ॥

……………………………………………………………………………………………………………………………………………………

सर्वगतत्ववत् सर्वजीवापेक्षया तत्र सर्वगतत्वोपपत्तेः अन्यत्वप्रतिपादकश्रुत्यनुसारेण सर्वगतस्थश्चासावणुश्चेति स्मृत्यर्थस्य वर्णनीयत्वेन विरोधाभावाच्च । न चाग्नेरूर्ध्वज्वलनं वायोस्तिर्यक् पवनमणुमनसश्चाद्यं कर्माद्दष्टकारितमित्यभ्युपगन्तव्यम् (वै. सू. )। अदृष्टं चात्मगुणः एवं सर्वत्रादृष्टस्यावश्यकत्वात् । गुणस्य च गुणिनं विनाऽत्स्थानानुपपत्तेर्जीवस्य विभुत्वमङ्गीकरणीयमिति वाच्यम् । व्यतिरेकोगन्धवदित्यादिन्यायेनादृष्टस्य गुणस्य गुणिनं विनाऽव्यवस्थानोपपत्तेः । कार्यकारणभावादिसंबन्धान्तरेणाणुपरिमाणजीवनिष्ठादृष्टगुणस्य सर्वदेश संबन्धोपपत्तेश्च । अदृष्टस्यात्मगुणत्वे प्रमाणाभावाच्चेति यत्किञ्चिदेतत् ।

किं चास्माभिर्द्रव्याणां गुणक्रियादीनां चाभेदाभ्युपगमेन त्वदीयो विभागो न युज्यते ।

किं च त्वदभिमता जातिरपि नाङ्गीकार्या । घटत्वादीनां सकलघटादिव्यक्तिनिष्टत्वे नित्यत्वे च प्रमाणाभावात् घटत्वादीनां प्रतिव्यक्तिभिन्नत्वादनित्यत्वाश्च । न चैवमनुगत प्रतीत्यनुपपत्तिः । त्वन्मते घटत्व पटत्वादिजातिष्वनुगतप्रतीतिवत् सादृश्यात् घटोऽयं पटोऽयमित्यनुगत प्रतीत्युपपत्तेः ।

किं च नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इत्यङ्गीकारोऽनुपपन्नः । " भेदहीनेत्वपर्यायशब्दान्तरनियामकः । विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः " (अनुव्याख्याने) इत्यस्मदभिमतविशेषातिरेकेण नित्यद्रव्यमात्रवृत्तिविशेषसद्भावेप्रमाणाभावात् । विशेषनियामकाभावेन तादृशविशेषाणामनित्यद्रव्येष्वप्यङ्गीकार्यत्वाच्च | तत्र व्यावर्तकान्तरसत्वेन विशेषानभ्युपगमे च नित्यद्रव्येष्वपि व्यावर्तकान्तरसत्वेन तेषामनङ्गीकर्तव्यत्वात् ।

किं च समवायञ्चानभ्युपगन्तव्यः । स्वरूपसम्बन्धेनैव रूपादिवैशिष्टयप्रतीतेरुपपादनीयत्वात् । समवायवैशिष्टयप्रतीते स्त्वया स्वरूप-

...........................................................................................................................................................

1.       ब्र. सू. अ. २, पा. ३, अधि. १३, सू. २७ ॥

……………………………………………………………………………………………………………………………………………………..

सम्बन्धविषयत्वोपगमात् । न चैवं संयोगस्याष्यसिध्यापातः । अन्यतरकर्मादिजन्यसंयोगस्य प्रत्यक्षसिद्धत्वेन दुरपह्नवत्वात् । न चेह तन्तुषु पटसमवाय इति समवायोऽपि प्रत्यक्षत एवानुभूयत इति न तदपलापः कर्तुं शक्यते इति युक्तम् । तथाविधप्रतीतेरेवाऽसिद्धेः । कल्पितप्रतीतिमात्रेण वस्तुसिध्यङ्गीकारेऽतिप्रसङ्गात् । प्रत्युत तन्तव ए पट इति तन्तुपटादीनामभेदानुभवाच्च । अस्तु वा घटादीनां रूपादीनां च कञ्चन सम्बन्धः ! तथाऽपि स एको नित्यश्चेत्यत्र प्रमाणाभावः । न च धर्मग्राहकमानेन सिध्यन् समवायरूपसम्बन्धो लाघवान्नित्य एव सिध्यतीति वाच्यम् । प्रतिव्यक्तिभिन्नभिन्नतया आगन्तुकत्वेन चानुभूयमानस्य तथाविधसम्बन्धस्यानेकत्वविनाशित्वयोरभ्युपगन्तव्यत्वात् । एवं संसर्गाभावस्यातिरिक्तस्य सत्वेऽप्यतिरिक्तान्योन्याभावो नाभ्युपेयः । सर्वत्र त्वदङ्गीकृतस्वरूपभेदेनैव भिन्नत्वव्यवहारोपपत्तेः । अन्यथा वैरूप्याश्रयणापातादित्यन्यत्र विस्तरः ।

तस्मान्नैयायिकमतं वैशेषिकमतं च न प्रेक्षावदुपादेयम् ।

इति श्रीमत्परमहंसपरिवाजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थं पूज्यपादानां शिष्येण सर्वतन्त्र स्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्त-सारासारविवेचने नैयायिकवैशेषिकमतभङ्गो नाम षष्ठः परिच्छेदः ||