यदप्युक्तं 'अनुभूयमानारोपस्थले प्रामाणिकस्याप्यारोपोपगमेन..

आरोपितदोषात्यन्ताभावमात्रस्य लक्षणत्वानुपपत्तिः
यदप्युक्तं 'अनुभूयमानारोपस्थले प्रामाणिकस्याप्यारोपोपगमेन नेमौ चूतौ किं त्वेक एवेतिवन्नावा दोषिणौ किन्त्वेक एवेति बाधप्रतीति- संभवेन नानिष्टस्य प्रामाणिकप्रतियोगिकत्वस्य हानिसिद्धिरिति । तन्न । नावा दोषिणाविति बाघबुद्धेरुभयत्र दोषात्यन्ताभावानवगाहित्वात् । तथात्वे अहमेवेत्यनेन व्याघातात् । बाधकालेऽपि चूतचूतत्वयोरनुवृत्ति- दर्शनेन तादात्म्यसंसर्गयोरेव नास्तित्वं बाधबुद्ध्या बोध्यते न तु चूत- चूतत्वयोः । तन्न्यायेन ईश्वरे दोषसंसर्गस्यैवात्रापि निषेध्यत्वसिद्धिः ।
यच्चोक्तं 'न ह्यस्मन्मते प्रामाणिकस्यैव निषेध इति नियम:' इति न्यायामृतवाक्यं तु अप्रामाणिकाभावबोधकम् । एवकारनियमपद- स्वारस्यात्' इति तन्न 1 प्रकृतदोषस्य स्वमतासंस्पर्शकथनव्याजेन नैयायिकादिमते संलग्नकत्वस्य कथनस्यापि तत्राभिप्रेतत्वात् ।
अत्र केचिचोदयन्ति । आरोपितदोषात्यन्ताभाव इत्येव लक्षणमस्तु । आरोपितदोषात्यन्ताभावस्य प्रतियोगिनेव प्रतियोग्यारोपे यत्प्रधानं तेनापि साकं विरोधात् प्रधानभूतदोषाधारे जीवे तदत्यन्ता- भावा योगेनातिव्याप्तेरनवकाशात् । स्वारोपितेतिस्वपदोपयोगाभावेन किं दोषारोपपूर्वकविषयाभावरूपस्वारोपितदोषात्यन्ताभावस्य लक्षणस्य विवक्षयेति । तदसमञ्जसम् । अत्यन्ताभावस्या सार्वत्रिकताप्रसङ्गात् । न चेष्टापत्तिः । 'त्रिकाल सर्वदेशीयनिषेधाप्रतियोगिता । सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी' इति सार्वत्रिकनिषेधप्रतियोगित्वरूप-सदन्यत्वस्यैव तत्त्वादित्यादिना न्यायामृते परिष्कृतत्वेन तद्विरोधापातात् ।
न च वाच्यं 'आरोपिताभावो द्विविधः । एकः सार्वत्रिकः अपरोऽसार्वत्रिकः प्रधानविरोधी इति । ततश्च न्यायामृतादौ प्रथमाभावमादाय तत्प्रतियोगिताकथने तात्पर्यान्न विरोधः । द्वितीयाभाव एव हि श्रीनिवासतीर्थानां विवक्षित' इति ॥ अभावद्वयकल्पनायां गौरवात् । न ह्येकस्य युगपद्वावत्यन्ताभावौ उचितौ प्रमितौ वा ।
किं चैव वदन् प्रष्टव्यः । किमारोपितं प्रधानाधिकरणेऽस्ति न वेति । आद्ये आरोपितस्यान्यत्र सत्वप्रात्या साधुसमर्थितोऽमिनवान्यथाख्यातिवादः ॥ द्वितीये कथं तदभावः ।
अपि चारोपितात्यन्ताभावः प्रधानोत्पत्तेः प्राक् प्रध्वंसानन्तरं च सन्नसन्वा । आद्ये विरोधिनोऽभावेन तदुत्पत्तेः प्राक् तदधिकरणे स्थितस्य उत्पत्यनन्तरं तत्स्थानपरित्यागापत्तिः । ध्वंसानन्तरं च पुनस्तत्र प्रधानाधिकरणे आगमनापत्तिः । अत्यन्ताभावस्य प्रधानेनेव तत्प्रागभावप्रध्वंसाभावाभ्यां च विरोधात्तदधिकरणे कदापि स्थितेरेवा- भावात् न गमनागमने प्रसज्येते इति चेन्न । कल्पनागौरवात् । एवमेव प्रधानावस्थितिकालेऽपि तस्य भूतलादिसंयोगविभागानुक्रमणेन गमनागमनप्रसङ्श्च
द्वितीयेऽनित्यत्वापत्तिः ।
किञ्चारोपितप्रतियोगि कात्यन्ताभावस्य प्रधानपरित्यागेनान्यत्र स्थित्यङ्गीकारे उत्तरक्षणे पूर्वक्षणारोपे प्रधानभूतस्य पूर्वक्षणस्य सर्वगतत्वेनारोपित पूर्वक्षणात्यन्ताभावस्य प्रधानविरोधिनः तत्क्षणे कुत्राप्यवस्थितिरेवानुपपन्नति तस्य तदा विनाशो द्वितीयक्षणे च पुनरुत्पादोऽङ्गीकार्य इति त्रैकालिकत्वसिद्धान्तभङ्गप्रसङ्गः ।
एतेनासत्सामान्यस्याभावः सार्वत्रिकः रजताद्यध्यस्तत्वावच्छिन्नाभावस्त्वसार्वत्रिक इत्युक्तिरपि परास्ता । यदधिकरणेऽध्यस्ताभावो नाङ्गीक्रियते तत्राध्यस्तसत्ताया अवश्याङ्गीकारप्रसङ्गात् । परस्परविरुद्धयोरिति न्यायात् ।
एतेनैतदपि निरस्तम् । यत्कश्चिदाह । अध्यस्तत्वावच्छिन्नरजताद्यभावः सार्वत्रिक एवं रजताद्यभावमात्रं त्वसार्वत्रिकम् । स एव हि प्रधानविरोधीति । असार्वत्रिकरजताभावस्य रजतसंसर्गाभावत्वस्य मञ्जर्यादावुपपादितत्वेन तस्य रजतात्यन्ताभावत्वाभावात् । भावेऽपि तस्यारोपसापेक्षत्वाभावात् प्रधानसापेक्षत्वाभावात् प्रधानविरोधित्वेन पक्षीकर्तुमशक्यत्वात् । ननु तर्हि अत्यन्ताभावस्य प्रतियोगिनेव प्रतियोग्यारोपे यत्प्रधानं तेनापि साकं विरोध इति श्रीश्रीनिवासतीर्थी योक्तेः का गतिरिति चेदुच्यते । जीवे वास्तवदोषाणामेव विद्यमानत्वेनारो- पितदोषात्यन्ताभावोऽस्तीति लक्षणस्यातिव्याप्तौ चोदितायां तत्परिहाराय आरोपितदोषात्यन्ताभावो नाम दोषारोपपूर्वकप्रतीतिविषयाभाव इति परिष्कृत्येदमुच्यते । अतिव्याप्तिश्च न लक्ष्यगतलक्षणस्यैवालक्ष्ये वृत्तिः किं नाम तत्सजातीयस्य । प्रकृते च न जीवे भगवन्निष्ठजातीयारोपि तदोषात्यन्ताभावो वक्तुं शक्यते । वास्तवदोषाधारे दोषारोपस्यैव कर्तुमशक्यत्वेन तत्पूर्वक निषेधस्य सुतरामशक्यत्वात् । अत्यन्ताभावो हि स्वस्य प्रामाणिकत्वे स्वाधिकरणे स्वप्रतियोगिनोऽसत्त्वमपेक्षते । तस्य सत्वे तु प्रतियोगित्वस्यैवायोगेन प्रधानत्वप्रात्या तदत्यन्ताभावः स्वयमेवाप्रामाणिको भवति । तथा चात्यन्ताभावस्य प्रतियोगिप्रतियोग्यारोपप्रधानाभ्यां विरोधस्य व्यवस्थितत्वेन प्रधानाधिकरणे जीवे न तदत्यन्ताभावः संभवतीति नातिव्याप्तिरित्यभिप्रायः इति ।
एतेनैव यदुक्तं 'वास्तवस्य जैवदोषस्य ब्रह्मण्यभावाभावे आरोपासंभवात् । तत्सत्वे तेनैव निर्दोषत्वापत्या कल्पनावैयर्थ्यात् । दोषारोपपूर्वकप्रतीतिविषयाभावस्यापीश्वरगतस्यैवाधिकरणभेदेनाभाव- भेदाभावेनाप्रामाणिकप्रतियोगिकतया केवलान्वयित्वेन च जीवादौ सत्वेनातिव्याप्तितादवस्थ्याच्च इति तदपि समाहितं वेदितव्यम् । तादृशाभावस्य निषेध्यप्रधानविरोधित्वस्यासकृदुक्तत्वेन तत्केवलान्वयित्वा- प्रसक्तेः ।

तस्मादत्यन्ताभावस्य केवलान्वयित्वात् आरोपितदोषात्यन्ताभावस्य जीवेऽतिव्याप्तेर्दुर्वारत्वेन तद्वारणाय दोषारोपपूर्वकप्रतीति- विषयाभावरूपस्वारोपितदोषात्यन्ताभावो अत्र लक्षणत्वेन विवक्षित इति सकलमकलङ्कम् ॥
एतेन यदत्रोक्तं वास्तवदोषाभावाभावं भगवति प्रतिज्ञाय प्रधानदोषाणामेवाभावेनेति वास्तवदोषाभावेनारोपितदोषाभावसाधने स्ववचनव्याघातादिति तदपि निराकृतम् । वास्तवदोषाणामेवाभावे- नेति वाक्यस्य संसर्गाभावपरत्वात् । अन्यथा भगवतीति सप्तम्यन्तपद- प्रयोगायोगात् । किं च स्यादप्येषा कथञ्चिद् व्याघातोद्भावना यदि 'ईश्वरः आरोपितदोषाभाववान् वास्तवदोषाभावात्' इति साधनमिहाभिप्रेतं भवेत् । न चैवम् । अपि तर्हि भगवति दोषाभावस्तावत् । प्रमाणसिद्धः । स च वास्तवदोषप्रतियोगिको न भवति । प्रामाणिकस्य निषेधानङ्गीकारादित्येव अतः कुतो व्याघातः ।
यच्चात्रोक्त दोषारोपपूर्वकाभावप्रतीतिविषयत्वस्य लक्षणत्वाङ्गीकारे व्यर्थविशेष्यत्वमिति तदनङ्गीकारपरास्तम् । लक्षणस्य अभावरूपत्वानुपपत्तिः इति यद्दोषान्तरमुक्तं तत्तु इष्टापत्या निरस्तम् । ब्रह्मीयदोषात्यन्ताभावाधिकरणत्वस्यैव लक्षणतया स्वीकारात् । तस्य च भावरूपत्वात् । अवश्यं चैतदेवम् । भगवतोऽशेषाणां समन्वीयमानानां निर्दोषत्वादीनां लक्षणानां भगवद भिन्नत्वस्य एवं धर्मानि'ति

श्रुत्युक्तत्वात् । जन्मादिनये अत्तृत्वनये च समर्थितत्वात् । अभाव- धर्माणां भावस्वरूपभगवदभिन्नत्वानुपपत्तेः । अत एव 'विजरो विमृत्यु:' इत्यादि सामानाधिकरण्यप्रयोगाः श्लिष्टा भवन्ति । निर्दोष- चासौ अशेषसद्गुणश्यति टीकाऽपि सङ्गच्छते । क्वचिद्भिन्नलक्षणोक्तिः भगवदितरवस्तुलक्षणपरेत्यवधेयम् ।
किं च सदाऽभावे क्वचित्कत्वप्रभेदाङ्गीकारे 'भावाभाव- स्वरूपत्वान्नान्योन्याभावता पृथक' इति मूलटीकाद्यसाङ्गत्यापत्तिः । अभावत्रितयमिन्नस्यान्योन्याभावस्य सत्त्वात्कथं त्रित्वं इति शङ्कोत्थाने खलु तत्परिहारार्थत्वेन सङ्गतिर्वाच्या । न चैव संभवति । अन्योन्याभावस्यापि प्रामाणिकप्रतियोगिकक्काचित्काभावत्वस्यैव संभवात् । 'तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते' इत्याद्यनुव्याख्यानतट्टोकाद्युपजीवनेन तस्यापि सदात्वोपपादनोपपत्तेः । अस्मन्मते तु प्रतियोगिसमकालीनत्वादन्योन्याभावस्य प्रागभावप्रध्वंसत्वासंभवात् प्रामाणिक- प्रतियोगिकत्वेनात्यन्ताभावापरपर्यायसदाऽभावत्वस्याप्यसंभवात् युक्तस्त्रि-तयबहिर्भावः
अपि चात्यन्ताभावद्वैविध्यमङ्गीकुर्वाणा अपि येषां वाक्याभासादिनाऽनाहार्यारोपसंभवस्तेषां दोषारोपपूर्वकप्रतीतिविषयाभाव-लक्षणनिर्दोषत्वज्ञानमभ्युपगच्छन्त्येव । केवलं येषां तु प्रामाणिकदोषाणां कथञ्चित्स्मरणमात्रं तेषां तादृशदोषनिरूपित संसर्गात्यन्ताभावविषयकं ज्ञानमित्याहुः । तदयुक्तम् । स्मरणरहितानां परमात्मादीनां सर्वेषामेकविधमेव दोषारोपपूर्वकप्रमिति-विषयाभाववच्त्व लक्षणनिर्दोषत्वज्ञानमिति निपुणतरमुपपादितत्वाच्च । परमात्मादीनां इतरवृत्त्यनाहार्यारोपतद्विषयविषयकाहार्यज्ञानाभावे असार्वज्ञापत्तेश्च ।