अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता

अज्ञतासर्वज्ञतादीनां विरोधविमर्शः

यदत्रोक्तम् 'अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्व-ज्ञत्वादीशगुणा विरुद्धा ह्यनुभूतिगाः' इत्युक्तदिशा अन्योन्यवन्निष्ठा-त्यन्ताभावप्रतियोगित्वरूपविरुद्धतायाः स्वीकार्यतया अत्यन्ताभावस्य प्रामाणिक प्रतियोगिताया आवश्यकत्वादिति । तन्न ।
अज्ञता सर्वज्ञतादीनां च जीवेश्वरनिष्ठानां स्वस्वाधिकरणे परस्पर-सजातीयसत्ताऽसहिष्णुत्वरूपविरुद्धत्वाङ्गीकारेण भवदभिमतान्योन्यव-निष्ठात्यन्ताभावप्रतियोगित्वरूपविरुद्धत्वमस्मदसम्मतमेव ।
अस्तु वा अन्योन्याभाववन्निष्ठात्यन्ताभावप्रतियोगित्वं विवक्षितम् । न तावता अत्यन्ताभावस्य प्रामाणिकप्रतियोगिकत्वप्रत्याशा । तथा हि । किमत्र सहानवस्थानलक्षणविरोधोक्तिरित्याश्रित्य अत्यन्ता-भावस्य प्रामाणिकप्रतियोगिकत्वं सिषाधयिषितम् । उत वध्यधातुक-भावलक्षणविरोधोक्तिम् । न तावदाद्यः पक्षः । सहानवस्थानं नाम एकाधिकरणवृत्तित्वाभावः । अज्ञतादीनां सर्वज्ञताधिकरणवृत्तित्वस्य सर्वज्ञतादीनां चाज्ञताधिकरणवृत्तित्वस्य च अप्रामाणिकत्वेन अप्रामाणि-कयोरेवात्यन्ताभावप्रतियोगित्वस्यात्र वर्णनात् ।
यदत्रोक्तं 'अन्यथाऽभावाभावे भाव इति नियमेनाज्ञतादीनां प्रात्या भेदवादभङ्गप्रसङ्गादि'ति । तन्न । किमत्र अज्ञतादीनां स्वरूपेण प्राप्तिः आपाद्यते उत ईश्वरसंसृष्टतया । नाद्यः । जीवसंसृष्टतया
तत्सङ्गावेन इष्टत्वात् । भेदवादभङ्गभ्रान्त्या तत्स्वरूपस्यैवापलापेशून्यवादस्यैवापत्तेः । ईश्वरसंसृष्टतया तत्प्रात्यापादनं तु तत्संसृष्टत्वेन तदभावस्यैव जागरूकत्वेन न युज्यते । एवं च विरुद्धधर्माधिकरणत्वस्य अक्षतत्वेन न भेदवादभङ्गप्रसङ्गः ।
वध्यघातुकलक्षणविरोधपक्षेऽपि न दोषलेशोऽपि । ननु 'नाजात एकोऽन्यं हन्ति नाप्यन्यमन्याधार' इति न्यायेन अज्ञता सर्वज्ञतयोरैकाधिकरण्यापत्तिरिति चेन्न । फलोपहितवध्यधातुकभावपक्षे तदापत्तावपि इह अभिमते तद्योग्यतापक्ष तदप्रसङ्गात् । गृहारण्यस्थमूषक मार्जारयो-स्तद्योग्यताऽनपायात् । सवितरि प्रकाशान्धकारयोरैकाधिकरण्यस्याभावात् । 'प्रभाजालोल्लासोपहतसकलावद्यतमसे' इत्यत्र उपहतशब्देन वध्यघातुकभावस्यैवोक्तेः । एवमपि नित्योपहतेत्यनेन अत्यन्ताभावस्यैव सिद्धेः । न चैवं सति गुणित्वनिर्दोषत्वयोः क्रमिकत्वापत्तिः । इष्ट-त्वात् । न च तथात्वे अनादिनित्यत्वानुपपत्तिः । मत्स्य कूर्म रूपयोरिवोपपत्तेः ।