अत्यन्ताभावस्य नित्यत्वात्कालभेदेन विरोधपरिहारासंभवेन..

अत्यन्ताभावमात्रस्य अप्रामाणिकप्रतियोगिकत्वे बाधकनिरासः

अत्यन्ताभावस्य नित्यत्वात्कालभेदेन विरोधपरिहारासंभवेन देशभेदेनैव विरोधः परिहरणीय इति मन्दारमञ्जरी तु परन्यायेन प्रवृत्ता । न च तत्र नियामकाभावः । परोक्तस्वात्यन्ताभासामानाधि-करण्यनिरासप्रकरणे उक्तत्वात् ।
यच्चोक्तं प्रामाणिकप्रतियोगिकात्यन्ताभावानङ्गीकारे बाधक-सत्वाच्चति । तदपि न । तथा हि ।
बाधवार्ताऽतिदूरे द्वे रामे दोषातिदूरता ।
अत्यन्ताभावमात्रे च तुच्छस्य प्रतियोगिता || तथा हि ।
यदत्रोक्तं प्रामाणिकस्य घटत्वादेरन्योपाधावभावस्य प्रागभाव-प्रध्वंसत्वानुपपत्तौ अत्यन्ताभावस्याप्यभावे अभावत्वम्यैवायोगोऽभाव-चातुर्विध्यप्रसङ्गो वेति तन्न । प्रामाणिकस्यान्योपाधौ निषेधस्य तत्संसर्गाभावरूपताङ्गीकारात् । तत्र नियतसंबन्धि संबन्धस्य घटत्वादेः संसर्गाभावः संसर्गप्रतियोगिकोऽत्यन्ताभाव एव । अनियतसंबन्धि-संबन्धस्य घटादेः संसर्गाभावस्तु संसर्गस्य भावित्वे प्रागभावः भूतत्वे ध्वंसः कदाप्यसत्त्वेऽत्यन्ताभावः इति । अत एवोक्तं तत्त्वसंख्यान-टीकायां तस्यापि यथासंभवं प्रागभावादिष्वन्तर्भावादिति । तस्यापि संसर्गाभावस्यापीत्यर्थः । तथा चास्य नाभावत्वायोगः नाप्यभाव- चातुर्विध्यमिति ।
अवश्यं चैतदेवं निषेधस्य संसर्गविषयकत्वम् । निषेधस्य प्राप्तिपूर्वकत्वेन अप्रामाणिकस्यैव तस्य निषेद्धव्यत्वात् । घटपटत्वयोः स्वरूपेण निषेधे निःस्वरूपत्वापत्त्या शून्यवादापत्तेः । उक्तं च वादावलीटिप्पण्यां श्रीपरिमळाचार्यै: 'स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वे निःस्वरूपस्याऽत्यन्तासन्त्वापत्तेः । शशशृङ्गादेरपि निःस्वरूपत्वातिरिक्ता-त्यन्तासच्त्वाभावादिति ।
यदपि पृष्टं 'अपि च प्रामाणिकस्य अत्यन्ताभावो नास्तीति वदन् वादी प्रष्टव्यः । किं अभाव एव नास्ति उत तस्यात्यन्तिकत्वं नास्तीति । नाद्यः । सुधायां स्वोपाधावनिषेधात् परोपाधौ निषेधादिति व्यवस्थया सदसत्वस्वीकारात् इति । तत्र ब्रूमः । प्रागभाव-प्रध्वंसयोः प्रामाणिकप्रतियोगित्वनियमात् प्रामाणिकस्य तयोः सद्भावेऽपि अत्यन्ताभाव एव नास्तीति वदामः । सुधाविरोधस्तु संसर्गाभाव-परतायाः तद्वचनस्य प्रदर्शितत्वेन प्रागेव परिहृतः ।
यच्चोक्तं 'आत्यन्तिकत्वमपि त्रैकालिकत्वरूपं निषिध्यते सार्वत्रि-कत्वविशिष्टं तद्वा । नाद्यः । घटत्वादिनिषेधस्य पटादौ सर्वदा प्रतीयमानत्वेन त्रैकालिकत्वस्य निषेद्धुमनर्हत्वात् । द्वितीये निषिध्यतां न नो हानि:' इति । अत्रोच्यते । स्यादप्येवं विकल्प्य दूषणाभिधानं यदि अत्यन्ताभावे केवलं सार्वकालिकः एकः, सार्वत्रिकत्वविशिष्टोऽपर इति द्वैविध्यं प्रामाणिकं स्यात् ॥ न चैतदस्ति । आकरे कुत्राप्येवं- विधविभागानुक्तेः । 'कचित्कदाचिन्मूर्तसद्भावेऽपि तदत्यन्ताभावा- नुपपत्तिरि'ति सुधायां, सार्वदेशिक सार्वकालिकस्यैकस्यैव अत्यन्ताभावत्वं व्यवस्थाप्य विभागस्य खण्डनात् । एवं 'यद्धि सकलदेशकालासत् तदत्यन्ताभावप्रतियोगीत्युच्यते यथा शशविषाणादिकम् ' इत्यत्रापि । अयुक्तश्चायं विभागः । कालासंबन्धिनः यत्किञ्चिद्देश संबन्धासंभवादेव । अत एवोक्तं युक्तिमल्लिकायां 'अत्यन्ताभावमात्रे तु प्रतियोगिन्यसत्यता नियते 'ति । अत्र मात्रपदेन विभागनिराकरणं सुस्फुटम् । तत्रैवोत्तर- ग्रन्थेनोपपादितं च युक्तिभिः । उक्तं च प्रमाणलक्षणटीकायां ' न चा-त्यन्ताभावोऽपि सर्वधर्मरहितः किमु प्रामाणिकप्रतियोगिकः प्रागभावा-दिरिति शेष' इति अत्यन्ताभावशब्दस्य अप्रामाणिक प्रतियोगि कार्थमेव सिद्धवत्कृत्य । एतेन असदिति अत्यन्तासदिति च विभागोऽपि प्रत्युक्तः ।