यच्चोक्तम् 'अभावप्रतीतावनाहार्यारोपस्य कारणत्वे देवानां ..
मुक्तियोग्यानां मुक्तानां लक्ष्मीनारायणयोश्च निर्दोषत्वज्ञानसमर्थनम्
यच्चोक्तम् 'अभावप्रतीतावनाहार्यारोपस्य कारणत्वे देवानां देवत्वदशायां अनाहार्यारोपाभावेन रमाब्रह्मादीनां च कदाऽप्यनाहार्य-भ्रमाभावेन तेषां भगवति दोषाभावज्ञानानापत्तेश्च' इति तदप्यनेनैवापहस्तितम् । अनाहार्यारोपस्य सर्वत्र कारणत्वानङ्गीकारादेव । किञ्च तेषां देवत्वदशायामनाहार्यारोपासंभवेऽपि पूर्वकालीनारोपसंस्कारेण वा देवत्वदशायामेव दैत्यावेशादिवशादारोपसंभवेन तत्संस्कारवशाद्वा पर-कीयारोपानुवादरूपत्वेन वा प्रतियोगिस्मृत्यादिसंभवेन भगवति दोषा- भावज्ञानोपपत्तेः । न चेतरेषां आरोपस्य तेषामप्रत्यक्षत्वं शङ्कयम् । योगजसन्निकर्षेण प्रत्यक्षत्वोपपत्तेः । ब्रह्मादीनां तु अनुवादरूपमेव प्रतियोगिप्रत्यक्षम् । रमाया ज्ञानं त्वनालोचनेऽपि सर्वविषयकमिति चोद्यस्यैवानवकाशः । अनादित्वेनैव तत्र प्रतियोगिप्रतीत्यनपेक्षणात् ।
एतेन मनुष्योत्तमानामेव भगवन्निर्दोषत्वज्ञानापत्तिरिति चोद्यमपि समाहितम् । देवादीनामप्युक्तरीत्या प्रतियोगिज्ञानस्योपपादितत्वात् । एवं मनुष्योत्तमानां अपरोक्षज्ञानानन्तरमपि देवादिवदेव पूर्वकालीनारोप- संस्कारादिवशादित्याद्युक्तदिशा प्रतियोगिस्मृत्याद्युपपत्तिर्बोध्या । तत एव तेषां तदानीमपि न निर्दोषत्वज्ञानानुपपत्तिशङ्कावकाशः ।
यदप्युक्तं अन्यदीयारोपोपादाने 'आरोप्य प्रतिषिध्यत इति यावदि'ति ल्यपोऽयोगः । व्यधिकरणस्य कारणत्वासंभवाच्चे'ति तदपि न युक्तम् । आरोप्य इत्यस्यान्तर्णीतण्यर्थत्वोपगमात् । 'स्वातन्त्र्य-स्नेहयोरन्तर्णी तिणिजि' ति महाव्याकरणसूत्रात् । तत एव न व्यधि-करणस्य कारणत्वासंभवशङ्का । परारोपानुवादरूपप्रतियोगिज्ञानस्यैव निषेधधीप्रयोजकत्वोपगमात् ।
यच्च दूषणमभिहितं 'आरोपानन्तरं जायमानेऽभावज्ञानेऽभावे प्रकारतया प्रतियोगी भासते इति अङ्गीकार्यम् । अन्यथाऽनुभवविरोधः । तथा च तादृशाभावज्ञानातिरिक्तस्याभावाधिकरणे प्रतियोग्यारोपस्यानु भवविरोध' इति । तन्न । तुच्छभिन्नस्य अभावज्ञानात्प्राक्सत्वेनाप्रतिपन्नस्य अभावज्ञाने अभावे प्रकारतयाऽवभासस्यैवासंभवेन अवश्यं तस्य पूर्वं सत्त्वप्रतीतेरावश्यकत्वेन अनुभवविरोधानवकाशात् । प्रत्युत प्रतियोगिविशिष्टा भावज्ञानातिरिक्तप्रतियोगिज्ञानस्यापलाप एवानुभवविरुद्धः । अभावज्ञाने प्रतियोभ्युल्लेखसिद्ध्यर्थमेव प्रतियोगिप्रतीतेः सन्निकर्षत्वेनापेक्षणात् । अन्यथा विशिष्टज्ञानातिरिक्ततत्पूर्वभाविविशेषणज्ञानस्यापलापप्रसङ्गः । इयांस्तु विशेषः । विशिष्टज्ञाने विशेषणस्यापि विशेष्येण सह युगपल्लौकिकसन्निकर्षसंभवेन पूर्वं तन्नियमाभावः । अभावज्ञाने तु प्रतियोगिनो लौकिकसन्निकर्षासंभवेन तत्पूर्वभावघ्रौव्यमिति ।
स्वयमपि प्रतियोगिघटित एवाभावोऽवगम्यते इत्युक्तत्वेन घटं न प्रत्येमि किं तु घटाभावमेव प्रत्येमिइत्यनुभवकल्पनोक्तेः प्रौढिवादता-ssवश्यकत्वाच्च ।
यदयुक्त 'तौ विना न ह्यभावश्च' इत्यनुव्याख्यानेन 'अभाव : प्रतीयमानो धर्मिप्रतियोगिघटित एव अत्रेदं नास्तीति प्रतीयते न तौ विना केवल इत्यन्वयव्यतिरेकाभ्यां एकज्ञानसंबन्धेन व्याप्यव्यापक- भावोपपादनमेतत्' इति तदीयसुधया च स्पष्टं विरोधाच्च इति तदपि न ।
श्रीसुधावाक्यं अभावप्रत्ययस्य नियमेन प्रतियोगिविषयकत्वं प्रतिपादयत् नाभावप्रत्ययस्य तज्ज्ञानपूर्वकत्वं निरुणद्धि । प्रत्युत विशिष्टज्ञानस्योत्सर्गतो विशेषणज्ञानपूर्वकत्वात्तदुपोइलयत्येव ॥ तथा हि तौ विना इति तज्ज्ञानं विनेत्यर्थः । । तदनेन अन्वय-व्यतिरेकाभ्यां अभावप्रतीतेर्धर्मिप्रतियोगिप्रतीतिपूर्वकतया व्याप्तिरुप-पादिता भवति' इति । एवं वादावल्यामपि 'अभावज्ञानस्य धर्मिप्रति-योगिबोधपराधीनतया तदभावे तस्यानुभवितुमयोग्यत्वादि'ति स्पष्टोक्त्या अभावज्ञानं प्रति प्रतियोगिप्रतीतेः कारणत्वं उपपादितम् । भगवति दोषाभावप्रतीतिः प्रमारूपैवेति प्रकृते प्रतियोगिभूतदोषाणां प्रतीति-रारोपरूपैवेति निश्चीयते ।
यदपि कथितं 'झटित्येव परिज्ञानादि 'त्यत्र प्रतियोगिस्मृतिमतो-Sभावज्ञानं घटादिज्ञानवत् झटित्येव जायत इत्युपपादितत्वेन तद्विरोधाच्चेति तदपि न साधु अभावस्य समनस्कचक्षुः सन्निकर्षानन्तरं व्याप्तिज्ञानादिविलम्बाभावस्यैवात्रोक्तत्वेन प्रतियोगिज्ञानादिकृतविलम्बा-भावस्यानुक्तः । घटो नास्तीत्यत्र घटसंसर्गस्यैव निषेध्यत्वेन तस्यैवारोप्यत्वेन घटस्मरणं विहाय तत्संसर्गारोपासंभवेन तत्स्मरणादिप्रयुक्तविलम्बस्यानुमतेः । तदुक्तं प्रमाणपद्धतौ । 'नाम्नः पश्चात्स्मरणेना-भावस्य च प्रतियोगिस्मरणाधीनज्ञानत्वेन तद्विकल्पस्य प्रथमाक्षिसन्निकर्षा- नन्तरमेवोत्पत्यभावेऽपि द्रव्यादिविकल्पानां प्रथममेवोत्पत्तौ बाधकाभावेन निर्विकल्पानुपपत्तेः' इति ।
यदपि निरूपितं 'निर्दोषचक्षुष्मतो मार्गे कण्टकाद्यभावं जानतो दोषाभावेनानाहार्यारोपस्य कंटकादिप्रत्यक्षस्यानिष्टतया तदाहार्या-रोपस्य चायोगेन आरोपमात्रायोग' इति तन्न । कंटकादेरन्यत्र प्रमितत्वेन तत्प्रमाया एव मार्गे तत्संसर्गाभावज्ञाने हेतुतोपपत्त्या तत्रारोपकल्पनाऽयोगात् । मार्गकंटकसंसर्गस्यापि प्रागभावप्रतियोगि-त्वेन वा प्रध्वंसप्रतियोगित्वेन वा प्रामाणिकत्वात् तत्प्रतीतेः प्रमात्वेनैवाभावज्ञानहेतुतोपपत्तेः ।
संसर्गस्यात्यन्ताभावप्रतियोगिकत्वेऽपि मार्गत्वाद्यनुमानाभासादिनाऽनाहार्यारोपे बाधकाभावात् । आहार्यारोपे इच्छाया अकारणत्वेन तदाहार्यारोपेऽपि बाधकाभावाच्च ।
यदुक्तं ' तदभावस्य तज्ज्ञानपूर्वकत्वं चान्यत्र तस्य सत्त्वादेवेष्टमि'त्येतद्वाक्यव्याख्यानावसरे अन्यत्र प्रतियोगिज्ञानमभावज्ञाने कारणं न त्वभावाधिकरण इति स्पष्टमुपपादितत्वेन तद्विरोधश्च'ति तत्तु प्रामाणिक- प्रतियोगिकात्यन्ताभावस्य मुनित्रयसंमतत्वखण्डनावसर एव निरस्तम् । किं च अत्र तस्य इति मूलं तज्ज्ञानपरतयैव टीकायां व्याख्यातम् । तथैव लघुप्रभायां विवृतं च । तथा हि 'तस्य प्रतियोगिन इति । प्रतियोगिज्ञानस्य चेत्यर्थः । न चैवमध्यस्ताभावज्ञानं न स्यात् । तस्यान्यत्रासत्त्वात् । अन्यथा अन्यथाख्यात्यापातः । तथात्यन्तासदभावबोधो न स्यात् । तस्य काप्यसत्त्वादिति वाच्यम् । अस्यापि ज्ञानोपलक्षणतया व्याख्यातत्वादि'ति । तथा च मूलटीकयो: निषेधाधिकरणे प्रतियोगिसन्त्वनिषेध एव तात्पर्य इति स्फुटम् न तु अत्यन्ताभावप्रतियोगिनोऽन्यत्र सत्त्वे । तदुक्तं तत्रैव भावबोधे 'अत्र हि अभावदेशकालयोः प्रतियोगिसत्वं व्यवच्छेद्यम् । न तु देशकालान्तरयोरसत्वमिति ।
यच्चाभिहितं 'भगवतः स्वनिर्दोषत्वाज्ञाने अज्ञानरूपदोषस्य ' तज्ज्ञाने प्रतियोग्यारोपरूपभ्रमरूपदोषापच्त्या भगवन्निर्दोषत्व विचारे बहुविप्लवापत्तिरिति । तदपि न । परारोपानुवादरूपप्रतियोगि ज्ञानसद्भावस्य प्रागेवोपपादितत्वात् । भगवदीय निर्दोषत्वज्ञानस्य तत्स्वरूपभूतस्यानादिनित्यस्य प्रतियोगिप्रसक्त्यपेक्षाऽप्रसक्तेश्च । जीवीयारोपावच्छेदकत्वेन तद्विषयस्य तदंश एव निषेधप्रतियोगित्वांशे प्रमाणतमस्य ईश्वरज्ञानस्य भ्रमरूपत्वाप्रसक्तेः ।
यदप्यत्रैवोक्तं 'न चाहार्यारोपस्य न भ्रमत्वं इति वाच्यम् । प्रमाश्रमोभयबहिर्भूतज्ञानाभावेन प्रमात्वापत्या पुनर्दोषित्वापत्तेरिति तदपि न युक्तम् । आहार्यभ्रमस्यानुवादरूपत्वेन प्रमात्वात् । अन्यथा प्रत्यधिकरणं सूत्रकृता परकीयसंशयपूर्वपक्षाहरणानुपपत्तेः ।
यच्चात्राशङ्कितं न च गृहीताप्रामाण्यकत्वेन एतादृशभ्रमस्य न दोषत्वमिति न वाच्यम् । शङ्खश्वैत्यादिनिश्चयवतो जायमानस्य सोपाधिकस्य पैन्त्यादिभ्रमस्य दोषत्वानापत्तेरिति । तदसमञ्जसम् ।
शङ्खश्वत्याद्यंशे अविधिरूपस्य तत्पैप्त्याद्यंशे विधिरूपस्य तस्य दोषत्वेऽपि निषेधप्रतियोगित्वांशे विधिरूपस्य तत्सत्त्वाद्यंशेऽविधिरूपस्य केवलमारोपावच्छेदकतया तदुल्लिखतोऽनादेरीश्वरज्ञानस्य दोषत्वासंभवात् ।
यच्चोक्तं 'भ्रान्तिज्ञ एव भगवान् न तद्विषयज्ञ इति सिद्धान्तविरोधाच्चत्यलमि'ति तदपि न । भ्रान्तिविषयानुल्लेखे भ्रान्तिज्ञानस्यानुपपत्तेः । असदुल्लेखमात्रेण ज्ञानस्य प्रामाण्याहानेः ।
एतेनैतदपि निरस्तम् । यदुक्तार्थ विकल्प्य दूषणाभिधानम् । 'किमेषा दोषारोपपूर्विका प्रतीतिरीश्वरीयोत जैवी । नाद्यः । तस्या दोषारोपपूर्वकताया अनुपपत्तेः । न द्वितीयः । मुक्तप्रतीतावारोपपूर्वकताया भग्नत्वात् । न चेश्वरप्रतीतेः परारोपानुवादरूपता मुक्तप्रतीतेः सांसारिकारोपपूर्वकता विद्यत एवेति का नामानुपपत्तिरिति वाच्यम् । कल्पनागौरवात् व्यधिकरणविनष्टस्य कारणतानुपपत्तेश्चेति ।
उभयप्रतीतेरपि परारोपानुवादरूपप्रतियोगिपूर्वकताया उपपादितत्वेन मुक्तानां पूर्वावस्थायां भ्रान्तिप्रतिपन्नार्थस्य तदानीं स्मृतिसंभवाच्च । 'आजन्ममरणं स्मृत्वा मुक्ता हर्षमवाप्नुयुः' इति वचनात् । प्रमितेऽर्थे कल्पनाऽभावात् । अनुवादरूपज्ञानाङ्गीकारेण प्रतियोगितदभावज्ञानयोर्वैयधिकरण्याभावाच्च ।
मुक्तानां सांसारिकारोपस्य विनष्टत्वेऽपि तत्संस्कारवशात् प्रतियोगिस्मृत्युपपत्त्या अभावज्ञानसंभवाच्चेत्यलम् ।