यदत्र अभिहितम् अयुक्तं चेदं लक्षणम् ..
आरोपस्य आहार्यत्वानाहार्यत्वविकल्पदोषनिरासः
यदत्र अभिहितम् । अयुक्तं चेदं लक्षणम् । तथा हि । निषेधधीकारण आरोप आहार्यो वा अनाहार्यो वा । नाद्यः । तस्य बाधाप्रतिबध्यतया अप्रामाणिकदोषाभावनिश्चयेऽपि ईश्वर इव प्रधाना-विरोधितया च दोषवत्स्वपि तत्संभवे तत्पूर्वकनिषेधप्रतीत्युपपत्त्या अतिव्याप्तिः । इति । तत्र तावद् ब्रूमः । अनाहार्य एवेति । पराभिमताहार्यस्वरूपस्यैवाभावात् । बाधकालीनेच्छाजन्यत्वं इति परोक्ताहार्यारोपलक्षणस्यैवायुक्तः । इच्छामात्रेण ज्ञानाजननात् । जननेऽपि किं तज्ज्ञानं इन्द्रियादिजम् । उत न । नाद्यः । इन्द्रिया-दिभिर्विषयाद्यभावनिश्चयस्यैव जातत्वात् । न द्वितीयः । अज्ञानत्वस्य नित्यज्ञानत्वस्य वाऽऽपत्तेः ।
आहार्यत्वाग्रहेऽपि प्रवृत्त्यादिफलान्तरानाधायकस्य अभावप्रतीतिमात्रफलकस्य फलीभूताभावबुद्धिसमानकालीनत्वमात्रेणैव तस्यापि संभावनाच्च ।
यदप्यत्र जीवेऽतिव्याप्तिरुक्ता न तद्युक्तम् । जीवे दोषाभाव प्रतीत्युपपत्तावपि प्रतीतेर्दोषवद्विशेप्यकत्वेन प्रमात्वासंभवेन प्रमिति-विषयाभाववत्त्वरूपलक्षणस्य तत्रानतिप्रसक्तेः । तत्र दोषप्रत्ययस्य प्रमात्वेन आरोपत्वस्यैवानुपपत्तेः । अत एव आरोपपूर्वकत्वविशिष्ट-प्रमितिविषयाभाववस्वरूपलक्षणस्य कथञ्चिदपि जीवे असंभवात् ।
यच्चात्रैवोक्त आहार्यारोपस्य स्वविषयप्रतियोगिकाभावनिश्चयरूप- बाघकालीनेच्छाजन्यतया अभावप्रतीतिं प्रति आहार्यारोपस्य कारणत्वे अन्योन्याश्रयादिति । तदपि न चारु । तस्य अनिच्छतोऽपि सूच्यग्रे हस्तिशतमस्तीति वाक्याभासादिनोत्पादस्याविवादत्वेन तस्येच्छाजन्यत्व-नियमाभावात् ।
किञ्च न सर्वत्र आरोप एव निषेधधीकारणम् । नापि चक्षु-रादिवत्साक्षात् । येनोक्तदोषः । किन्तु प्रतियोगिप्रतीत्यपरपर्यायतत्प्रसक्तित्वेनैव । सूच्यग्रे हस्तिशतं नास्तीत्यादावाहार्यारोपस्य, राजद्वारे हस्तिशतं नास्तीत्यादावाहार्यारोपस्य, निर्गुण ब्रह्मत्यादौ गुणप्रमायाश्च अभावप्रत्ययं प्रति हेतुत्वोपलम्भात् । प्रमाश्रमसाधारणाभावप्रत्यय- त्वावच्छिन्नं प्रति प्रतियोगिप्रतीतित्वेनैव कारणत्वनिर्णयात् । अत्यन्ता-भावप्रमात्वावच्छिन्नं प्रति च कारणं प्रतीति: भ्रमरूपैवेति भगवति दोषाभावप्रमां प्रति आवश्यकं प्रतियोगिभूतदोषज्ञानं स्वयमेवारोपरूपं वा अनुवादरूपत्वेऽपि विषयसिद्ध्यै परारोपसापेक्ष वा भवतीति सर्वथा दोषाभावज्ञानस्य तदारोपसापेक्षत्वात् दोषारोपपूर्वकप्रतीतिविषयाभावत्वेन लक्षणं विवक्षितम् ।
प्रागभावप्रध्वंसज्ञाने तु प्रतियोगिज्ञानं प्रमारूपमेव ।
यदप्युक्तं 'न द्वितीयः । प्रतियोगिनोऽनाहार्यारोपस्य अभाव-ज्ञानविरोधितया तत्कारणत्वायोगादि'ति । तदप्यसमञ्जसम् । विरोधिनोऽप्यभावज्ञाने प्रतियोगिसमर्पकत्वमात्रेण कारणतोपपत्तेः । अत्र विरोधित्वं न फलोपहिततत्प्रतिबन्धकत्वम् । तथात्वे इदं रजतं इति भ्रमानन्तरं नास्ति रजतमित्यभावप्रत्ययानुपपत्तेः । एवं वदतोऽसञ्जात-बाघभ्रमस्यैवापत्तेः । अपरीक्षितप्रत्ययस्य प्रतियोगिज्ञानविधया कारणत्वे-नोपजीव्यत्वमुपेत्यैव सुपरीक्षितबाधकज्ञानाप्रतिबन्धकत्वस्य ततो दौर्बल्यस्य च 'यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने । दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम्' इत्यनुव्याख्यानसुधयोः स्पष्टमुक्तेः । अत्र विस्तरो न्यायामृते प्रत्यक्षस्योपजीव्यत्वेन प्राबल्यविवरणभङ्गे ।
यच्चोक्तं 'यत्र भूतले घटाद्यभावज्ञानं तत्र सर्वत्रानानुभविकाना-हार्यभ्रमकल्पनापत्तेरिति । तदयुक्तम् । दत्तोत्तरत्वात् । प्रागभाव-प्रध्वंसज्ञाने प्रति प्रतियोगिप्रमायाः कारणत्वं अत्यन्ताभावप्रमां प्रत्येव प्रतियोगिभ्रमस्य कारणत्वमित्युक्तत्वेन सर्वत्रानाहार्यारोपसापेक्षताऽनङ्गीकारात् ।
एतेन सूच्यग्रे हस्तिशतं नास्तीत्यत्रानाहार्यारोपासंभव इति यो दोष उक्तः सोऽनङ्गीकारपरास्तः ।
संसर्गाभावप्रतियोगिनो हस्तिशतस्य प्रमितत्वेन तत्रारोपाभावेऽपि सूच्यग्रे तदभावज्ञानोपपत्तेः । सूच्यग्रहस्तिशतयोराधाराधेयरूपसंसर्गस्य तुच्छत्वेन तदभावप्रतीतौ पृथक् प्रतियोगिज्ञानानपेक्षणात् ।
एवं 'दुःखादेरनाहार्यारोपासंभवेन मयि दुःखादिकं नास्तीत्य-भावप्रत्ययानापत्तिरित्युक्तदोषोऽपि । तत्प्रत्ययस्य दुःखादिध्वंसप्रागभावविषयकत्वात् ।
तदत्यन्ताभावविषयकत्वस्य वक्तुमशक्यत्वेन तस्येहानुदाहरणीय-त्वात् । मयि परकीयदुःखं नास्तीत्यादिप्रत्ययस्य तत्संसर्गाभावविषयकत्वात्- तादृशसंसर्गारोपस्य मायिनामभेदवादिनामनाहार्यस्यैव दर्शनाच्च ।