किञ्च स्थूलमुत्पन्नं, स्थूलं नष्टं..

अथ अनुगतजातौ बाधकम् ।

भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि

इष्ट-साधनत्वज्ञानमेव प्रवर्तकम्

तर्कताण्डवम्

किञ्च स्थूलमुत्पन्नं, स्थूलं नष्टं, नीलमुत्पन्नं नीलं नष्टमितिवद्घट उत्पन्नो घटोनष्ट इत्यनुभवा१त्प्रत्यक्षावेव जात्युत्पत्तिविनाशौ ।।

न च विशिष्टोत्पत्त्यादिविषयेयं धीर्विशेष्यव्यक्तिमात्रोत्पत्त्यादि-नाऽपि युक्तेति वाच्यम् । वैपरीत्यस्यापि सुवचत्वात् । स्थूलमुत्पन्न-मित्यादिबुद्धेरपि तथात्वापाताच्च ।

न्यायदीपः

नन्वस्त्वेवं स्वर्णघटाद्युक्तस्थचतुष्टयेऽनुगतधर्माभावेनानन्यगत्याऽ-ननुगतधर्मैरेव शक्त्यादिग्रहोऽन्यत्र गवादावनुगतगोत्वदिसम्भवे तेनैव शक्त्यादिग्रहोऽस्तु । तत्रानन्यगतिकत्वाभावादित्यतः तत्रापि त्वदभिमत-नित्यैकानुगतधर्मो नास्त्येव । प्रमाणबाधात्, साधकमानाभावाच्चेति भावेन–

कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ।

एकत्वे नास्ति मानं च . . .  ।।

इत्यादिवैशेषिकनयानुव्याख्याने सुधावाक्यानि हृदि कृत्वा जातिविशिष्ट-वस्तूत्पत्तिनाशागोचरप्रत्यक्षेण समवाय्युत्पत्तिनाशादियुक्त्या जातेरुत्पत्तिनाश-बोधकागमेन जातिमात्रोत्पत्त्यादिग्राहिप्रत्यक्षेण श्रुत्या च जातेर्नित्यत्वादिक-मपाकुर्वन्नादौ तावद्विशिष्टप्रत्यक्षेण जातेरनित्यत्वमाह ।। किं चेत्यादिना ।। परिमाणस्य नीलरूपस्य चोत्पत्तिविनाशप्रत्ययाकाराभिनयोऽयं स्थूलमित्यादि ।। इत्यनुभवादिति ।। अस्य च १घटपटत्वादिजातिव्यक्त्युभयविषयकत्वा-त्प्रत्यक्षावेव जात्युत्पत्तिविनाशावित्युक्तम् ।।

ननु– जातिविशिष्टव्यक्तिविषयकोऽयमनुभवो न घटघटत्वोभयविषयकः । घटघटत्वे उत्पन्ने इत्युभयोत्पत्तिनाशाविषयीकरणात् । तथा चा२न्यथा-सिद्धोस्त्विति शङ्कते ।। न चेति ।। किमन्यतरमात्रविषयत्वेनोपपत्तौ उभयविषयकत्वे कल्पनागौरवादेवं कल्प्यते, अथ दण्डी नास्तीत्यादाविव विशेषणे बाधात् । आद्य आह ।। वैपरीत्यस्यापीति ।। जातिमात्रो-त्पत्त्यादिनेत्यस्यापीत्यर्थः । लाघवस्यैवमपि सम्भवात् । प्रत्युत एतदेव युक्तम् । विशेष्यं नाभिगच्छेत् क्षीणशक्तिर्विशेषणे इति न्यायादिति भावेनोक्तम् ।। सुवचत्वादिति ।। ननु प्राधान्याद्विशेष्यविषियत्वमेवोत्पत्त्यादिबुद्धेर्युक्तम् । न तु गुणभूतधर्मपरत्वमित्यत आह ।। स्थूलमिति ।। तथात्वेति ।। विशेष्योत्पत्तिपरत्वे

 

Load More