यच्चोक्तं..

ज्ञप्तौ परतस्त्वानुमानभङ्गः

मन्यूक्तपूर्वपक्षानुमानम्

तर्कताण्डवम्

यच्चोक्तं स्वाश्रयविषयकनिश्चयावधिकतृतीयक्षणवृत्तिसमानाधि-करणसंशयविषयीभूतं ज्ञानप्रामाण्यम् । (सा.१) ग्राह्यज्ञानप्रकार-प्रकारकतया तद्विशेष्यविशेष्यकतया च स्वाश्रयग्राहकयावज्ज्ञाना-ग्राह्यम् । (सा.२) तज्ज्ञानविषयकसमानाधिकरणज्ञानाजन्य-समानाधिकरणज्ञानाप्रकारो वा । (हे.१) स्वाश्रयविषयकनिश्चया-वधिकतृतीयक्षणवृत्तिसमानाधिकरणसंशयकोटित्वात् । (हे.२) स्वाश्रयविषयकनिश्चयसमानकालीनसामग्रीजन्यसंशयविषयत्वात् । (हे.३) स्वाश्रयविषयककिञ्चिन्निश्चयधर्मिकप्रामाण्यसंशयजन्यसंशया-विषयत्वाच्च । अप्रामाण्यवत् ।

युक्तिरत्नाकरः

स्वतस्त्वानुमानेषु तत्प्रतिपक्षतां प्रतिक्षेप्तुं परोक्तपरतस्त्वानुमानान्ये-वानुवदति ।। यच्चोक्तमिति ।। यद्यपि मणौ विवादपदमित्येव पक्षनिर्देशः कृतः तथा विवादविषयतावच्छेदकाज्ञाने विवादपदस्यैव दुर्ग्रहतया तदभिप्रेतं तदवच्छेदकमादायैव पक्षनिर्देशः कृतः ।। स्वाश्रयेति ।। स्वस्य स्वप्रमाण्यस्याश्रयो यो व्यवसायः तद्विषयकनिश्चयोऽनुव्यवसायः तदधि-करणावधिकोयस्तृतीयक्षणस्तद्वर्ती स्वाश्रयनिश्चयसमानाधिकरणश्चय संशयस्तद्विषयो ज्ञानप्रामाण्यमित्यर्थः । अत्र ज्ञानप्रामाण्यमात्रपरत्वे संशयविषये तत्र हेतेरसिद्धिः । तथा निश्चितव्यधिकरणसंशयविषये चतुर्थाधिकरणवृत्तिविषये यत्किञ्चिदवधिकतृतीयक्षणवृत्तिसंशयविषये चासिद्धिरित्यतः सकलविशेषणोपादानम् । नचैवं हेतोरेव पक्षतावच्छेदकतया व्याप्तिग्रहावसर एव पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेस्सिद्ध-साधनम् । ज्ञानप्रामाण्यस्याधिकस्योपादात् । न च तद्व्यर्थं ईश्वरानुमाने प्रकृतविशेषणजन्यत्वस्येव पक्षे उपरञ्जकस्यापि दानात् । युक्तसंशयविषयत्व-स्येव पक्षतावच्छेदकत्वेऽप्रामाण्यस्यापि पक्षतापत्त्या तवोक्तसाध्यसिद्ध-तयांशतः सिद्धसाधनवारकत्वाच्च । प्राचीनमते पक्षतावच्छेदकैक्येप्यंशतः सिद्धसाधनवारणस्यैव प्रयोजनत्वाच्च ।। ग्राह्येति ।। अप्रामाण्याग्राहकत्वस्य अस्यां विवक्षायां व्यर्थत्वात्तद्विहायैव साध्यं कृतम् । स्वाश्रयग्राहकत्व-मग्राह्यत्वमविषयत्वम् । इदमुपलक्षणं तदप्रामाण्यविषयकसविषयकज्ञान-विषयकयावज्ज्ञानग्राह्यत्वमित्यपि बोध्यम् । तदर्थश्च तदीयस्वतस्त्व-निरुक्तिव्याख्यानावसर एवोक्तः ।

।। तज्ज्ञानविषयकेति ।। मतद्वयेपीश्वरज्ञानसद्भावात्समानाधिकरण-पदद्वयमप्रसिद्धिबाधवारकतया सार्थकमेवेति भावः ।। स्वाश्रयेति ।। स्वाश्रयनिश्चयोत्तरक्षणावधिकेत्यर्थः । अन्यथा निश्चयस्थाने पक्षेपि निश्चयस्य सत्वेन तदधिकतृतीयक्षणवर्तित्वस्य तदधिकरणक्षणावधिक-तृतीयक्षणवर्तित्वस्य चाहार्यसंशयेपि सत्त्वनार्थे व्यभिचारापत्तेः । उक्तं संशयविषयत्वमात्रं स्वाश्रयग्राहकग्राह्ये तद्धर्मिणि व्यभिचारीति तत्कोटित्वा-दित्युक्तम् । न च कोटित्वप्रकारत्वरूपतया धर्मितावच्छेदके पुनर्व्यभिचारः । यत्कारणत्वावच्छेदेन संशयत्वं तादृशप्रकारस्यैव कोटिपदेन विवक्षणात् । धर्मितावच्छेदकप्रकारत्वावच्छेदेन तस्य निश्चयत्वमेवेति नोक्तदोषः । कोटित्वं व्यधिकरणं अतो न संशयहेतुप्रामाण्यके व्यभिचारः । रूपं गुण इति ज्ञानानन्तरं रूपगुणे जानीयामित्यनुव्यवसाये तदुत्तरद्वितीयक्षणे गुणत्वेतदभावकोटिस्मृतौ तृतीयपक्षे रूपं गुणविज्ञानगुणो न वेति संशयो यत्र तत्र तत्कोटिभूतगुणत्वे व्यभिचारः । तस्य स्वाश्रयप्रकारकतयेत्या-द्यनुव्यवसायग्राहकग्राह्यत्वेन साध्यभावात् । न च साध्ये स्वपदस्योक्त-तृतीयक्षणवर्तिसंशयविषयप्रामाण्यपरतयोक्ततृतीयक्षणे गुणत्वसंशयेपि प्रामाण्यसंशयाभावेन विशिष्ट१भावरूपसाध्यकत्वेन सत्वान्नव्यभिचारः । रूपं गुण इति ज्ञानं गुणो न वा प्रमाणं न वेति चतुष्कोटिकसंशयस्याप्युक्तलक्षणे सम्भवेनोक्तगुणत्वे व्यभिचारपरिहारात् । नचोक्तसंशयविशेष्ये स्वाश्रय-ग्राहकग्राह्यत्वाभावो साध्यः । एवं च रूपे गुणत्वनिश्चयेप्युक्तसंशयविशेष्ये ज्ञाने गुणत्वाग्रहात्साध्यसत्वान्न दोषः । हेतोर्व्यभिचारवारणाय साध्ये विशेषणोपदानायोगात् । विवक्षितसाध्यस्यार्थेपि सत्वेन तत्र व्यभिचारः । हेतौ विशेषणोपादानायोगाच्च ।

यदत्रोक्तं स्वाश्रयग्राहकानिवर्तनीयसंशयविशेष्येन स्वाश्रयग्राहक-ग्राह्यत्वमिति साध्यं एवं च स्वाश्रयग्राहकेणानुव्यवसायेनानुवर्तनीयं ज्ञानं गुणो न वेति संशयं प्रति विशेष्ये उक्तानुव्यवसायेन गुणत्वाग्रहा-त्साध्यसत्वान्नव्यभिचारः । प्रामाण्यसंशयाहितार्थसंशयस्य स्वाश्रयग्राहका-निवर्तनीयतया तद्विशेष्ये घटादौ स्वाश्रयग्राहकेण घटत्वादेर्ग्रहणार्थं साध्याभावेन व्यभिचारात् तद्वारणायहेतुविशेषणसार्थकतेति । तत्र उक्त-चतुष्कोटिकसंशयानन्तरं प्रामाण्यसंशयाहितस्य रूपं गुणो न वेति संशयस्यापि सम्भवेन तद्विशेष्ये रूपगुणत्वग्रहणोक्तव्यभिचारतादवस्थ्यमिति । न च स्वाश्रयनिश्चयाधिकरणक्षणावधिकतृतीयक्षणवर्तिस्वाश्रय ग्राहकानिवर्तनीय-संशयविशेष्यस्वाश्रयग्राहकग्राह्यत्वं विवक्षितम् । ज्ञानं गुण इति ज्ञानान्तरं तज्ज्ञानरूपोभयकोटिगुणत्वे व्यभिचारात् । समूहालम्बने सति कोटि-चतुष्टयस्मृतौ न रूपं गुणो न वा इदं ज्ञानं प्रमा न वेति समूहालम्बन-संशयकोटिगुणत्वे व्यभिचारात् । तृतीयक्षणवर्तिसंशयग्राहकानिवर्तनीयोक्तं चतुष्कोटिसंशयविशेष्ये ज्ञानं गुणज्ञानस्वाश्रयग्राहकेण गुणत्वस्य ग्रहणात् । स्वाश्रयनिश्चयाधिकरणलक्षणावधिकतृतीयक्षणवर्तिव्यधिकरणसंशयविशेष्यत्वरूपेपि सत्त्वेन साध्येपि समानाधिकरणत्वलक्षणसंशयस्य विशेषणीयतयोक्त-साध्यस्यार्थेपि सत्वेन तत्रानेकोत्यवारकविशेषणवैय्यर्थ्याच्च ।

यदपि नवीनोक्तं हेतौ द्वित्वमात्रकोटिकात् संशयविशेषणोक्तसंशयविशेष-गुणत्वेनानैकान्त्यम् । साध्यपदस्य तृतीयक्षणविषयप्रामाण्यपरतया द्विमात्रकोटिके ज्ञानधर्मिकसंशये विषयगुणत्वे तृतीयक्षणवृत्तिसंशयवृत्तित्वस्य तत्प्रामाण्ये सम्भवे विशेषणादावप्रयुक्तविशेषणाभावसत्वेन साध्यसत्वादेव नानैकान्तम् । यदा साध्य एव द्विमात्रकोटिकत्वं संशयविशेषणं इत्युक्तचतुष्कोटिकसंशयविषयगुणत्वं साध्ये सत्वान्नोक्तदोष इति तन्न ।

रूपं न ममेति ज्ञानानन्तरं ज्ञानधर्मिकस्य प्रमात्वाप्रमात्वकोटिकस्य संशयस्य तृतीयक्षणेपि सम्भवेन तत्कामात्वे हेतुसत्वेनोक्तसंशयविषय-प्रामाण्याश्रयतज्ज्ञानग्राहकग्राह्यत्वेन साध्याभावेनानैकान्त्यस्य तथापि वज्रलेपत्वात् । न च रूपे यत्प्रमात्वात्यन्ताभावो विषयः ततोन्यस्यैव तज्ज्ञाननिवृत्तित्वनियमेन तज्ज्ञानधर्मिकसंशये विरोधाभावेन न तस्याभावस्य कोटितेति वाच्यम् । रूपेन तज्ज्ञाननिवृत्तिप्रमात्वमिति तत्प्रमात्वाभावस्य विषयत्वसम्भवेन तत्कोटिकस्य विषयत्वतस्यैव कोटित्वसम्भवात् तज्ज्ञान-निवृत्तिप्रमात्वभावयोर्विरोधभ्रमसम्भवेन तत्कोटिकस्य सौलभ्याच्च । रूपं न यावत्यः प्रमा इति सकलप्रमान्योन्यभावानां विषयत्वेन तज्ज्ञाननिष्ट-प्रमात्वस्यापि तज्ज्ञानविषयान्योन्याभावात्यन्ताभावत्वेन विरोधितया कोटित्वसम्भवेनेदं ज्ञानं प्रमा न वेति सन्देहविषयान्योन्याभावे नेत्याकांक्षस्य दुरुद्धरत्वाच्च । रूपे यावत्प्रमात्ववानिति यावत्प्रमात्वात्यन्ताभावविषयक-ज्ञानस्यापि सम्भवेन तन्निष्टप्रमात्वात्यन्ताभावस्यापि विषयत्वेन तदन्योन्या-भावेप्यनैकान्त्याच्च । गुणप्रमात्वयोर्विरोधभ्रमदशायां रूपं गुण इति ज्ञानानन्तरमुक्तभ्रमरूपं गुणः प्रमा वेति संशयविषयविशेषगुणत्वा-नैकान्त्याच्च । ज्ञानं गुणो न वा प्रामा न वेति ज्ञानं प्रमा न वा अप्रमान-वेत्यादि चतुष्कोटिकसंशयमात्रविषयप्रामाण्यविशेषे असिद्धेश्च । संशय-सिसाधयिषयोः पक्षताप्रयोजकयोः सत्वेपि स्वसामर्थेन तादृक्प्रामाण्यस्य पक्षबहिर्भावायोगाच्चेत्यलम् । तस्मादयुक्तोयं हेतुरिति ।

अत्र ब्रूमः । उक्तप्रामाण्यं नोक्तसंशयधर्मितावच्छेदकावच्छेदेनोक्त-स्वाश्रयग्राहकग्राह्यं तद्धर्मितावच्छेदकावच्छेदेनोक्तसंशयकोटित्वादिति विवक्षितम् । एवं च रूपं गुण इति ज्ञानं गुणो न वेति संशयविषयगुणत्वेन साध्यसत्वान्नानैकान्त्यं स्वाश्रयग्राहकेण रूपगुणत्वग्रहे युक्तसंशयधर्मिता-वच्छेदतज्ज्ञानत्वावच्छेदेन गुणत्वाग्रहात् । न च हेतावनैकान्त्यवारणाय साध्ये विशेषणदानयोगः उद्देश्यसिध्यर्थं तदुपादानात् । न च तावत्पर्यन्त-मुद्देश्यत्वे मानाभावः । इदं ज्ञानं प्रमेति धर्मितावच्छेदकावच्छेदेन प्रमात्व-ग्रहस्यैव प्रवर्तकतया प्रवर्तकप्रामाण्यग्रह एव विवादादिति संक्षेपः ।

स्वेति स्वाश्रयनिश्चयसमानकालीनाया सामग्री तज्जन्यसंशयकोटिता-पर्याप्त्यधिकरणत्वादित्यर्थः । ननु प्रामाण्यसंशयस्यापि स्वाश्रयांशे निश्चयत्वेन तत्समानकालीनसामग्रीजन्यत्वादित्यर्थः । ननु प्रामाण्यसंशयस्यापि तदाहितार्थसंशयार्थेनैकान्त्यम् । न च सर्वांशनिश्चयत्वं तदर्थः । परमतेऽनु-व्यवसायस्यातद्वत्वांशे निश्चयत्वाभावेन हेतोरन्यतरासिध्यापत्तेरिति चेत् निश्चयत्वस्य संशयान्यज्ञानत्वरूपतयान्योन्याभावस्य तन्मते व्याप्यवृत्तितया प्रामाण्यसंशयस्य तदन्यत्वाभावात् ।

न चैवमपि कोटिस्मृत्यन्तरस्मृतिरूपधर्मिज्ञानात्प्रामाण्यसंशयतद्घटित-सामग्य्राः स्वाश्रयनिश्चयसमानकालतया तज्जन्यसंशयविषयेऽर्थेनैकान्त्यम् । धर्मिज्ञानस्य साधारणधर्मदर्शनतया कोटिस्मृतिहेतुत्वेन तदजन्याया धर्मिज्ञानपूर्वकालीनकोटिस्मृतेः संशयहेतुत्वेन स्वाश्रयनिश्चयद्वितीयक्षणे प्रामाण्यसंशयासम्भवेनार्थसंशयसामग्य्राः स्वाश्रयनिश्चयसमानकालीनत्वा-भावेनानैकान्त्यायोगात् । अत्र स्वाश्रयनिश्चयसमानाधिकरणत्वं च विशेषणम् । तेन पुरुषान्तरीयस्वाश्रयनिश्चयसमानकालीनपुरुषान्तरीयसंशयविषयेर्थे नानैकान्त्यम् ।

रूपं गुण इति ज्ञानानन्तरं संशयविषयविगुणत्वेनैकान्त्यनिरासस्तु पूर्ववद्बोध्यः ।। स्वाश्रयेति ।। स्वाश्रविषयको यः कश्चिन्निश्चयोऽनु-व्यवसायस्तद्धर्मिको यः प्रामाण्यसंशयस्तज्जन्यसंशयाविषयत्वादित्यर्थः । यद्यपि स्वाश्रयनिश्चये प्रामाण्यसंशयं विना वा सन्दिह्यमानत्वादिति मणेः स्वाश्रयनिश्चयविशेष्यप्रामाण्यसंशयजन्यसंशयायोग्यत्वादित्येवार्थो व्याख्यात्रोक्तस्तथापि तत्र स्वाश्रयनिश्चयत्वावच्छिन्नविवक्षायां प्रामाण्यानुमितेरपि स्वाश्रयनिश्चयतया तत्प्रमाण्यसंशयजन्यसंशययोग्यत्वा-ध्यवसायप्रामाण्यस्यासिद्ध्यापत्या स्वाश्रयनिश्चयोऽनुव्यवसायत्वे विवक्षणीय इत्याशयेन किञ्चिदित्यनूदितम् ।

न च यत्रानुव्यवसायो प्रामाण्यसंशयोन जानतः तत्रानुव्यवसाय-धर्मिकप्रामाण्यशंशयजन्यसंशयविषयत्वमनुव्यवसायग्राह्ये घटत्वं प्रकार-कत्वेनैकान्तिकमिति वाच्यम् । संशयविषयत्वादित्यनेन  नायोग्यत्वादित्यस्य विवक्षितत्वात् तत्प्रकारकत्वादेश्चानुव्यवसायग्राह्यतया तत्र प्रामाण्य-संशयजन्यसंशययोग्यत्वात् । न च चाप्रामाण्यसंशयशून्यार्थनिश्चय-त्वेनार्थसंशयं प्रतिबन्धकत्वादप्रामाण्यसंशयस्योत्तेजकत्वमेव नार्थसंशय-हेतुत्वमित्यर्थेनानैकान्त्यमेवेति वाच्यम् । निश्चयोत्तरार्थसंशये प्रामाण्यसंशयस्य विशेषहेतुतेतिमतेनैतदभिधानात् । न चानुव्यवसाये प्रामाण्यसंशयानन्तरं यत्रानुव्यवसायविषये संशयस्तत्रोपनीतप्रामाण्यस्यापि भानसम्भवेन तज्जन्यसंशययोग्यत्वमसिद्धमिति वाच्यम् । प्रामाण्यसंशयजन्यतायां यद्धि यत्सत्यन्तावच्छेदकं तस्यैव विवक्षितत्वात् ।

न्यायदीपः

एवं स्वतस्त्वानुमानानां बाधं विपक्षेऽनवस्थाद्वयस्यानुमित्यसम्भवस्य चोक्त्याऽप्रयोजकत्वं चोद्धृत्य परोक्तानुमानविरोधनिरासाय तानि दूषयितु-मनुवदति ।। यच्चेति ।। परोक्तस्वतस्त्वनिरुक्तिभङ्गेन संशयस्यान्यथोप-पादनेन च परोक्तहेतूनामप्रयोजकत्वाद्युक्तावपिप्रबलदोषोक्त्यर्थं पुनरारम्भः ।

‘‘विवादपदं न यावत्स्वाश्रयग्राहकग्राह्यं स्वाश्रयनिश्चये सत्यपि तदुत्तरतृतीयक्षणे अप्रामाण्यसंशयं विना सन्दिह्यमानत्वादप्रामाण्यवत्’’ इति मण्युक्तावपि ‘‘विप्रतिपत्तौ यथा साध्यमुक्तं तदभाव इह साध्यं ज्ञेयं’’ इति पक्षधरादितट्टीकोक्तरीत्या परिष्कारपूर्वकं तदीयप्रयोगानुवादं करोति ।। स्वाश्रयेति ।। किमवच्छेदेन विवादविषय इत्यज्ञानात्तदभिमतं विवाद-नियामकं पक्षतावच्छेदकं टीकाद्यनुक्तमपि स्वयं व्यक्तीकृतवानिति ज्ञेयम् । स्वस्य प्रामाण्यस्याश्रयो व्यवसायः । तद्विषयकनिश्चयोऽनुव्यवसायः । तदुत्पत्तिक्षणावधिको यस्तृतीयः क्षणः तद्वर्ती स्वाश्रयनिश्चयसमानाधिकरणो यः संशयः तद्विषयीभूतं ज्ञानप्रामाण्यमित्यर्थः । संशयाविषये प्रामाण्ये तथा निश्चिते व्यधिकरणसंशयविषये तथा चतुर्थक्षणवर्तिसंशयविषये यत्किञ्चि-दवधिकतृतीयक्षणवर्तिसंशयविषये चासिद्धिरित्यतो विशेषणानि । ज्ञान-प्रामाण्यांशस्याधिकस्यात्रप्रवेशान्न पक्षतावच्छेदकैक्यनिमित्तं सिद्धसाधनं शङ्कयम् । अप्रामाण्येन सिद्धसाधनतानिरासाय ज्ञानप्रामाण्यमित्युक्तिः । तादृशानुमित्यादिग्राह्यत्वेन बाधनिरासाय साध्ये यावदित्युक्तिः । ज्ञानं घटज्ञानमित्यादिशब्दजन्यज्ञानाग्राह्यत्वस्य स्वतस्त्वेपि सत्वाद्ग्राह्यज्ञानप्रकार इत्युक्तिः । दलद्वयकृत्यमपि प्रागेव व्यक्तम् ।

अत्र मण्युक्तमेकं साध्यं विप्रतिपत्तावुक्तसाध्यान्तरस्याप्युपलक्षणं मत्वा दूषणसौकर्याय स्वयमाह ।। तज्ज्ञानेति ।। तदर्थो विशेषणकृत्यं च परोक्तस्वतस्त्वनिरुक्तिभङ्गे व्यक्तम् । मतद्वयेपीश्वरज्ञानसत्वात्क्रमेणाप्रसिद्धि-बाधवारणाय समानाधिकरणपदद्वयम् ।। निश्चयावधिकेति ।। निश्चयोत्पत्ति-क्षणावधिकेत्येर्थः । तेन स्वाश्रयविषयकनिश्चयस्थितिक्षणावधिकतृतीयक्षण-वृत्त्यर्थसंशयकोटावर्थे व्यभिचारो न शङ्क्यः ।

‘‘स्वाश्रयनिश्चये सत्यपि तदुत्तरतृतीयक्षणे सन्दिह्यमानत्वात्’’ इति मण्युक्तहेतोः सतिसप्तमीबलेन सामानाधिकरण्यलाभरूपं तट्टीकोक्त-मेकमर्थमुपेत्यैको हेतुरुक्तः । समानकालीनतारूपमर्थान्तरं चोपेत्य हेत्वन्तर-माह ।। स्वाश्रयविषयकेत्यादि ।। संशयविषयत्वादित्यस्य पूर्ववत्संशय-कोटित्वादित्यर्थः । तेनात्र पूर्वत्र च न व्यवसाये व्यभिचारः ।

स्वाश्रयनिश्चयेऽप्रामाण्यसंशयं विना सन्दिह्यमानत्वात् इति मण्युक्त्यभि-मतं हेतुं व्यनक्ति ।। स्वाश्रयविषयककिञ्चिदित्यादि ।। स्वाश्रयविषयक-निश्चयशब्देन यावन्निश्चयो मणिकृतो नाभिमतः । प्रामाण्यानुमितेरपिप्रमाण्याश्रयविषयकनिश्चयत्वेन तद्धर्मिकप्रामाण्यसंशयजन्यसंशयविषयत्वेना-सिद्ध्यापत्तेः । किन्तु यत्किञ्चिदनुव्यवसायरूपनिश्चय एवाभिमत इति भावेन किञ्चिन्निश्चयधर्मिकेत्युक्तम् ।। अप्रामाण्यवदिति ।। पक्षीभूतप्रामाण्यसंशय-कोटीभूताप्रामाण्यवदित्यर्थः । मतद्वयेपि तस्य परतस्त्वेन साध्यहेतू सम्मताविति भावः ।

Load More