स्वतस्त्वे तु..

उत्पत्तौ स्वतस्त्वे अनुमानानि ।

तर्कताण्डवम्

स्वतस्त्वे तु अनित्यप्रमामात्रानुगतो गुण इति पक्षे अनित्य-यथार्थज्ञानत्वं अनित्यज्ञानत्वानवच्छिन्नकार्यतानवच्छेदकं अनित्य-ज्ञानावृत्तित्वरहितत्वात् ज्ञानत्ववत् । तत्समनियतधर्मघटितत्वात् यदेवं तदेवम् यथा पृथुबुध्नोदराकारघटितं घटत्वम् घटत्वान-वच्छिन्नकार्यतानवच्छेदकम् । भ्रमावृत्तिकार्यतानवच्छेदकं वा भ्रम-वृत्तित्वात् भ्रमत्ववत् ।

न चैतेषां हेतूनामसिद्धिः । भ्रमेपि धर्म्यंशेप्रमात्वस्य सत्त्वात् ।प्रमात्वस्य ज्ञानत्वघटितत्वाच्च । नाप्यप्रयोजकता । समनियतयो-रेकस्यैव कार्यतावच्छेदकत्वे आवश्यके लघावर्थेप्रमाणप्रसराल्लघुनोऽ-नित्यज्ञानत्वस्यैव तदौचित्यात् । भ्रमे ज्ञानत्वप्रमात्वयोर्व्याप्य-वृत्तित्वाव्याप्यवृत्तित्वे त्वेकसामग्रीप्रयोज्यत्वेपि त्वन्मते वेगविभाग-योरिव युक्ते ।

मन्मते तुप्रकारांशेप्रमात्वापवादकस्य दोषस्य सत्वात् तद्भावो युक्तः ।

न्यायदीपः

।। स्वतस्त्वे त्विति ।। मानमित्यनुकर्षः । उच्यत इत्यर्थः । अननु-गतगुणपक्षे सिद्धसाधनतावारणाय ‘इति पक्षे’ इति विवेकायोक्तम् । अनित्यप्रमात्वं अनित्यज्ञानत्वावच्छिन्नकार्यत्वप्रतियोगिककारणताभिन्न-कारणताप्रतियोगिककार्यतावच्छेदकं अनित्यज्ञानत्वव्याप्यकार्यतावच्छेदक-धर्मत्वादप्रमात्ववदिति मण्युक्तानुमानस्यप्रत्यनुमानमाह ।। अनित्येति ।। विशेष्यमात्रस्य नित्यवृत्तितया कार्यतानवच्छेदकत्वेन सिद्धसाधन-वारणायानित्येति पक्षविशेषणम् । यथार्थेत्युक्तिरपि तद्वारणार्थैव । साध्येऽ१नित्यज्ञाननिष्ठकार्यतानवच्छेदकत्वेन सिद्धसाधननिरासायानित्येत्यादि-कार्यताविशेषणम् ।प्रमानिष्ठेत्यपि योज्यम् । तेन घटादिनिष्ठकार्यता-नवच्छेदकत्वेन न सिद्धसाधनम् । हेताविन्द्रियत्वादिनेन्द्रियादिनिष्ठकारणता-प्रतियोगिककार्यतावच्छेदकेप्रत्यक्षत्वादौ व्यभिचारवारणाय नञ्द्वयम् । तत्रानित्यज्ञानवृत्तित्ववत्तदवृत्तित्वस्यापि सत्वेन तद्राहित्याभावात् । उक्तदोषनिरासायैवानित्यज्ञानेत्यप्युक्तिः । असिद्धिनिरासायानित्येति ।। ज्ञानत्ववदिति ।। तस्य नित्यवृत्तितया कार्यतानवच्छेदकत्वादनित्यज्ञान-वृत्तित्वाच्चेति भावः ।। तत्समेति ।। अनित्यप्रमात्वसमनियतो यो धर्मो अनित्यज्ञानत्वं तद्घटितत्वादित्यर्थः ।

भ्रमेपि धर्म्यंशेप्रमात्वेनानित्यप्रमात्वानित्यज्ञानत्वयोरन्योन्यं व्याप्य-व्यापकभावादिति भावः । अत एव तत्समनियतधर्मघटितत्वद्योतनायैव अनित्यप्रमात्वमिति पक्षनिर्देशमकृत्वाऽनित्ययथार्थज्ञानत्वमित्युक्तम् ।। यदेवमिति ।। यद्यत्समनियतधर्मघटितं तत्तदनवच्छिन्नकार्यता-नवच्छेदक-मित्यर्थः ।। पृथुबध्नेति ।। पृथुबुध्नोदराकारघटत्वं नाम धर्मः । स्वसमनियत-घटत्वधर्मघटितत्वात् तदनवच्छिन्नकार्यता पटादिनिष्ठा तदनवच्छेदक इत्यर्थः ।

प्राचीनपक्षनिर्देश एव साध्यान्तरमाह ।। भ्रमावृत्तीति ।। भ्रमावृत्ति-कार्यताप्रमादिनिष्ठा कार्यता तदनवच्छेदकमित्यर्थः । अनित्ययथार्थज्ञानत्वं तादृशज्ञाननिष्ठकार्यतानवच्छेदकमित्येव साध्यकरणे अनित्यज्ञानत्वे व्यभिचारः । तस्यात्ममनःसंयोगादिहेतुनिरूपितकार्यतावच्छेदकत्वात् । भ्रमवृत्तित्वाच्च । अतो भ्रमवृत्तीत्येवमुक्तिः । अनित्यज्ञानत्वस्य च तादृशघटादिनिष्ठकार्यतानवच्छेदकत्वान्न दोषः ।। न चैषामिति ।। त्रयाणामित्यर्थः । भ्रमेपीत्यनेनाद्यन्तयोरसिद्ध्युद्धारः ।।प्रमात्वस्येति ।। अनित्यप्रमात्वस्यानित्यज्ञानत्वघटितत्वादित्यर्थः ।

यद्वाप्रमात्वस्य ज्ञानत्वघटितत्वेऽनित्यप्रमात्वस्यानित्यज्ञानत्व-घटितत्वमर्थसिद्धमितिप्रमात्वस्येत्येवोक्तं लघुन इति ।।प्रमात्वस्य विषयसत्वघटितत्वेन गुरुत्वमिति भावः ।

Load More