ननु तथाऽपि वर्णसमुदायरूपस्य वेदस्य न नित्यत्वम्

वर्णवादः

तर्कताण्डवम्

वर्णानित्यत्वस्य प्रत्यक्षत्वभङ्गः

ननु तथाऽपि वर्णसमुदायरूपस्य वेदस्य न नित्यत्वम् । शान्तः कोलाहलः श्रुतपूर्वो गकारो नास्तीत्यादिप्रत्यक्षेण, वर्णोऽनित्यः भावत्वे सति कृतकत्वादित्यनुमानेन च वर्णानामेवानित्यत्वादिति चेदुच्यते । शान्तः कोलाहल इति धीः ध्वनिविषयैव । ध्वनिविशेष-स्यैव कोलाहलत्वात् । श्रुतपूर्वो गकारो नास्तीति धीस्तु नास्त्येव । श्रुत एव गकारः पुनः श्रूयते एक एव गकारोऽसकृदुच्चारित इत्यादि-प्रत्यभिज्ञाविरोधात् । किन्तूच्चारणेनोपलब्धवर्णस्यानुपलब्धिमात्रेण श्रुतपूर्वो गकारो न श्रूयत इत्येव धीः ।

उक्तं हि टीकाकारैः ‘‘प्रागुच्चारणादनुपलब्धा वर्णा उच्चारणे सत्युपलभ्यन्ते इत्येवानुभवसिद्धम् । न तु तेषामुत्पत्तिर्विनाशो वा’’ इति ।

न्यायदीपः

।। तथापीति ।। पौरुषेयवाक्ेयन धर्माद्यसिद्धावपि, पौरुषेयत्वे कल्पनागौरवदोषभावेऽपि, वेदपौरुषेयत्वे मानाभावेऽपीत्यर्थः ।। न नित्यत्वमिति ।। नानादिनित्यत्वमित्यर्थः ।

द्वितीयस्तबके कुसुमाञ्जलावुदयनोक्तमाह ।। शान्त इति ।। श्रुतेति ।। पूर्वं श्रुतः श्रुतपूर्व इत्यर्थः । शब्दोऽनित्य उत्पत्तिधर्मत्वादित्युदयनानुमानस्य परिष्कारपूर्वं मणावुक्तस्यायमनुवादो ।। वर्ण इत्यादि ।। मणौ वर्णात्मकशब्द इत्युक्तावपि मणिकृन्मतेंऽशतस्सिद्धसाधनस्यादोषत्वाद् वर्णपदानर्थक्यम् । वर्ण इत्येव वा पूर्तौ शब्दपदानर्थक्यम् । रूपादिनार्थान्तरवारकं तदिति तु च्छलत्वात्तथाशङ्कैव न युक्तेति वर्णोऽनित्य इत्येवानुवादः कृतः ।

वर्णानामनित्यत्वेऽपि न वेदनित्यत्वक्षतिः । तथाप्यभ्युपेत्य तत्समाधत्ते ।। उच्यत इत्यादिना ।। व्यक्तं चैतद्वादान्ते ग्रन्थ एव ।१

।। ध्वनिशेषस्यैवेति ।। यत्तु वर्धमाने अनभिव्यक्तवर्णत्वव्याप्यजाति-विशेषो वर्णसमूह एव कोलाहल इत्युक्तम् । तन्न । वर्णशून्यध्वनिविशेषेऽपि कोलाहलपदप्रयोगात् ।।प्रत्यभिज्ञेति ।। तदभ्रान्तित्वं त्वग्रे निरसिष्यत इति भावः ।। उक्तं हीति ।। ‘‘न चोच्चारणकाल एव वर्णानामुत्पत्तिरिति वाच्य’’मिति तत्त्वनिर्णयवाक्यसम्बन्धिटीकायां वर्णजन्मवर्णाभावबुध्यो-रुच्चारणक्रियाविषयत्वम् इत्येतदुक्तमित्यर्थः ।

Load More