ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति

अथ शेषब्रह्ममीमांसा तात्पर्यवणनम्

श्रीकृष्णाय नमः ।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति

ॐ सर्वधर्मोपपत्तेश्च ॐ

पंच न्यायाः समीचीनं वर्णिता वनमालिना । मायावादिमुखं भङ्क्तवा मध्वतंत्रस्य मण्डने ॥

शेषग्रन्थस्य तात्पर्यं समासेन निरूप्यते । मायावादिमुखध्वंसः प्रसङ्गाद्धरितुष्टये ||

"तत्तु " समन्वयादित्यनेनोपक्रमादितात्पर्यलिंगैर्मुख्यवृत्या समन्वयः सिद्धवदुपन्यस्तो नतु तत्रोपक्रमादि र्विष्णावेव व्यवस्थित इति न्यायैः स्थापितम्, तद्यावद्वाक्यविशेषानुपहत्य पूर्वोत्तरपक्षग्रथनेन समन्वयो न प्रपंच्यते तावदयमनुपन्न्यस्तप्राय एव । अन्यथा शैवादयोऽपि समन्वयादित्येव सिद्धवदुपन्यस्य शिवादीनां शास्त्रगम्यत्वं प्रसाधयेयुरतः समन्वयविभागेन तत्प्रपंचनार्थमध्यायशेष आरभ्यते ।

त्तूपरितनेष्वधिकरणेषु विष्णौ समन्वय प्रपंचनरूपः सिद्धान्तः सृष्ट्यादिवाक्यरूपशास्त्रप्रतिपाद्यत्वं विष्णोर्न संभवतीति पंचमाधिकरणदूषणेन ग्रस्तो नोन्मजनमर्हतीति । तत्तुच्छम् । सदनन्तगुणालयस्य विश्वोदयादिकर्तुः परब्रह्मण एवोपास्यत्वस्य सृष्टयादिवाक्यगतपदवाच्यत्वस्य व्यवस्थापितत्वात् । एतेन तत्तद्वाक्यानां तत्तदधिकरणपूर्वपक्षोपपादितदेवतान्तरपरत्वस्य निराकरणमप्यनुपपन्नम् । विष्णौ समन्वितानामपि तत्तद्वाक्यानां तृतीयचतुर्थाधिकरणदृषणोक्तरीत्या देवतान्तरपरत्वस्यापि सम्भवादिति निरस्तम् ।

तुल्यवृत्या विष्णावन्यन्त्र चान्वयाभावात् । अन्यत्र व्यवहाराय यथाकथंचिदन्वितानामपि मुख्यवृत्या विष्णौ संमन्वयस्य समर्थनीयत्वात् । तस्यैव समन्वयसूत्रे संशब्देन प्रतिज्ञातत्वात् । तत्तदधिकरणविषयवाक्येषूपक्रमोपसंहारादिगतानां विष्णुविषयकश्रुतिलिंगानां निरवकाशत्वेन प्राबल्यम् । देवतान्तरविषयश्रुतिर्लिंगानां विद्वद्रुढ्या महायोगेन प्रवृत्तिनिमित्ततादधीन्येन तत्तदन्तर्यामिगतत्वेन च विष्णौ सावकाशत्वेन दौर्बल्यं चेति हि तत्तदधिकरणेषूपपाद्यम् । देवतान्तरविषयश्रुतीनां विद्वद्रव्यादिभिर्विष्णौ परममुख्यतया प्राबल्यम्, प्रसिद्धार्थेष्वज्ञरूढ्या केवलयोगेन प्रवृत्तिनिमित्ताश्रयत्वेन मुख्यमात्रतया दौर्बल्यं चोपपाद्यम् । न च श्रुतेरनेकार्थकत्वं वदतस्तव विरोध एव नास्तीति वाच्यम् । तुल्यवृत्याऽनेकार्थकत्वस्यानङ्गीकारात् । अन्यत्र योगेन हरौ महायोगेनान्यत्राज्ञरूढ्या विष्णो विद्वद्रूड्याऽन्यत्रोपचाराद्दरौ मुख्यतयेति ह्यस्माकं रीतिः ।

ननु विद्वदूड्यादयस्तव विष्णौ कुतो व्यवस्थिताः ? येन देवतान्तरविषयश्रुत्यादीनां हरौ सावकाशता, येन प्रसिद्धेषु स्वार्थेषु परममुख्यत्वाभावेन च दौर्बल्यं भवेत् । विष्णुरेव जगत्कर्तृ परं ब्रह्मेत्यवधारणाधीनं हि तद्व्यवस्थितत्वम् | अन्यथा विरिंच एव विद्वद्रूड्यादय इतिवक्तारं को वारयेदिति चेत् । न ।यो ब्रह्माणं विदधाति" "हिरण्यगर्भः समवर्तताग्रे" "तस्य ललाटाच्छूलपाणिरजायतइत्यादिश्रुत्या विरिंचादेरुत्पत्तेरुक्त्या सर्वेश्वरत्वासंभवेनोपक्रमाद्यविषयत्वात् । "आनन्दमयोऽभ्यासात्" इत्यत्र जगत्कर्तृत्वादिना प्रतिपादितोऽन्नमयादिर्विष्णुरेवेति साध्यं ब्रह्मशब्दाभ्यासं हेतूकृत्य, ब्रह्मशब्दस्य यद्यप्यन्यत्राप्यज्ञरूढिस्तथापि तस्य विष्णौ " तदेव ब्रह्म परमं कवीनाम्' इतिश्रुत्योपदर्शिता विद्वद्रूढि: प्रवलेति सैव निर्णयहेतुः ।

नच तदेव ब्रह्मेतिश्रुतिर्विष्ण्वेकपरेति कुतोऽवसेया ? "यमन्तःसमुद्रे कवयो वयन्तिइति प्रसिद्धतल्लिगात् । ननु " प्रजापतिश्चरति गर्भे अन्तः” “हिरण्यगर्भ इत्यष्टौइतिहिरण्यगर्भ प्रजापतिश्रुतिभ्यां विरिंचैकपरा सा कुतो नावसेया ? कुतश्च 'हिरण्यगर्भ इत्यष्टावित्यनेन गृहीतात् "य ईशे अस्य द्विपदश्चतुष्पदः" इति पशुपतित्वलिंगात् "पुरुषस्य विद्महे सहस्राक्षस्य महादेवस्य धीमही" स्याद्युपसंहाराच्च सा शिवैकपरा वा नावसेयेति चेन्न ।

"परमं यो महदुब्रम्ह परमं यः परायणम् । पवित्राणां पवित्रं यो मंगलानां च मंगलम् ॥

दैवतं देवतानां च भूतानां योऽव्ययः पिता । यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।

यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ तस्य लोकप्रधानस्य जगन्नाथस्यभूपतेः । विष्णोः

 इत्यादिस्मृत्युपबृंहितया 'तदेवेति श्रुत्या ब्रह्मपदस्यविष्णाववे विद्वद्रूढिसिद्धेः । नचेयं स्मृतिर्विष्णुस्तुत्यर्था ।

को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥

इति सामान्यतः प्रश्नोत्तरतयाऽस्याः प्रवृत्तेः । एवं सामान्यतः प्रश्नोत्तरस्य विशेषेण शिवादीश्वरत्ववोधकवचनस्य भारते दुर्लभत्वात् । किञ्च तत्तद्वाक्यगत-ब्रह्मशब्दानामप्यनेकार्थकत्वे 'तदेव ब्रह्म परम' मित्यवधारणासंगतिः स्यात् । न च तस्य त्वन्मते भूमशब्द रीत्या पुरुष भेदेन व्यवस्थितार्थबोधकत्वसंभवः । ब्रह्मादिशब्दैः शिवादेः पूर्णत्व सर्वोत्कृष्टत्वादिरूपब्रह्मत्वादिबोधने शिवाद्युत्पत्तिलयादिबोधकश्रुतिस्मृतीतिहासादि- विरोधवद्भुमशब्देन ब्रह्मानंदादीनामधिकारिभेदेन तारतम्येन बोधने बाधकाभावात् । किंच न प्रजापतिर्ब्रह्मशब्दार्थः । "ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्द" इतिब्रह्मप्रजापत्योरानन्दोत्कर्षापकर्षश्रवणात् । नच " ब्रह्म पुच्छं प्रतिष्ठाइति ब्रह्मानन्दयोरवयवावयवित्वश्रवणेऽप्यानन्दमयस्येव प्रजापतेरपि ब्रह्मत्वोपपत्तिः, त्वया ब्रह्मानन्द एव तारतम्यवदत्यन्तविशेषवत्वस्याङ्गीकृतत्वेनैकस्मिन्नुत्कृष्टापकृष्टानन्दवत्त्वं न भवतीति वक्तुं न शक्यमिति वाच्यम् । अवयवावयवित्वस्य सर्वेषां मते विवक्षितत्वात् । प्रजापत्यानन्दोत्कर्षादेर्विवक्षितत्वाच्च । अवयवावयविनोरभेदस्यावाभ्यां स्वीकृतत्वात्त्वया च विषमसत्ताको भेदो मया भेदप्रतिनिधिरवयवावयविनोः स्वीक्रियते । अधिकारिभिः स्वयोग्यतानुसारात्तारतम्येन ब्रह्मानन्दादेग्रहणेऽपि तस्यैक्येनोत्कर्षापकर्षयोरसत्वात् ।

न च 'अन्योऽन्तर आत्मा प्राणमयःइत्यादिसाक्षाद्भेदश्रवणमविगणय्यान्नमयादीनामभेदमंगीकुर्वतस्तव भेदश्रवणस्यात्यन्तमनादरणीयत्वं स्यादिति वाच्यम् । अन्नमयादीनां ब्रह्माभेदसाधकस्य ब्रह्मसमभिव्याहारस्य "एतमन्नमयमात्मानमुपसंक्रम्य" इतिमुक्तप्राप्यत्वादेव सत्वेन श्रूयमाणभेदत्यागेऽपि ब्रह्म प्रजापत्योरभेदसाधकाभावेन श्रूयमाणभेदत्यागानौचित्यात् । एवमग्रिमाधिकरणविषयवाक्यस्य तत्तदेवतानिराकरणमपि साधु संगच्छते । नच त्वन्मतेऽन्नमयादिष्विव ब्रह्मानन्दमययोरिव च भेदभेदकव्यपदेशयोरुपपन्नत्वेन तत्तदेवता विषयप्रसिद्धश्रुतिर्लिंगादिस्वारस्यानुरोधेन तत्तद्विषयवाक्यस्य पूर्वपदपभिमततत्तदेवतापरत्वमनिवार्यमिति वाच्यम् । "अन्नाद्धयेव खल्विमानि भूतानि जायन्ते" "एतमानंदमयमात्मानमुपसंक्रम्य" इत्यादेरन्नमयादौ ब्रह्माऽभेदबोधकमुक्तप्राप्यत्वाद्यसाधारणब्रह्मालिंगादिना विष्णु परत्ववद्देवतान्तरस्य ब्रह्मणा सहाऽभेदबोधकमानाभावात् ।

किंच सर्वेष्वधिकरणेषु साधारणेन ब्रह्मलिंगादिना विष्णुपरत्वनिर्णयः पूर्व पक्ष्यभिमततत्तद्देवताविषयश्रुतिलिंगानां प्रवृत्तिनिमित्ततादधीन्यादिभिः सावकाशत्वेन निराकरणम्, दृश्यते च यथा 'आकाशस्तल्लिंगादित्यधिकरणे । 'अस्य लोकस्य का गतिरित्याकाश इति होवाच' इत्यादिविषयवाक्यस्य स एष परोऽवरीयानुद्गीथः स एषोऽनन्त" इत्यादिवाक्यश्रुत परोवरीयस्त्वाद्यसाधारणब्रह्मलिंगेन विष्णुपरत्वनिर्णयः । आकाशश्रुतेस्तत्प्रवृत्तिनिमित्ततादधीन्यादिना विष्णुवाचकत्वसम्भवेन सावकाशतयाऽन्यपरत्वनिराकरणं च तथा 'ज्योतिश्चरणाभिधाना' दित्यधिकरणे "विमेकर्णापतयतो विचक्षुवींदंज्योतिर्हृदय आहितं यदि"ति मंत्रस्य कर्णादिविरुद्धचरणेन कर्णाद्यपरिच्छेद्यत्ववै भवस्वरूपेणासाधारणेन ब्रह्मलिंगेन विष्णुपरत्वनिर्णयः । तन्मंत्रगतज्योतिः श्रुतज्योतिःप्रकरणसम्पादकतत्पूर्वापरमन्त्रगत श्रुतीनां च पूर्ववद्विष्णौ सावकाशतया निराकरणं 'छन्दोऽभिधानादित्यधिकरणे । 'गायत्री वा इदं सर्व भूत' मित्यादिविषयवाक्यगतस्य गायत्रीशब्दस्य गानत्राणकर्तृत्वाद्यसाधारणब्रह्मलिंगादिभिर्विष्णुपरत्वनिर्णयः । गायत्रीश्रुतेः पूर्ववद्विष्णौ सावकाशत्वेन निराकरणम् । 'प्राणस्तथानुगमादित्यधिकरणे "ता वा एताः शीर्षच्छ्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राण" इत्याद्यैतरेयब्राह्मणे श्रुतस्य प्राणशब्दस्य "तं देवाः प्रणयन्तं भूरिति तं देवा उपासां चक्रिरइत्यादिश्रुतेर्देवोपास्यत्वादिब्रह्मलिंगैर्विष्णुपरत्वनिर्णयः । तत्र यन्मुख्यप्राणलिंगम् "ता अहिंसन्ताहमुक्थमस्मीति प्राण उदकामदित्यादौ श्रुतमिंद्रियैः सह कलह उत्क्रमणं प्रवेशः इत्यादि, च्च तत्र 'त्वामेव विजानीयामिति पृष्टवन्तं विश्वामित्रं प्रति प्राणो वाहमस्मीति इन्दुवचनं तत्सर्वमन्तर्यामिविषयतया सावकाशमिति निराकरणम् । एवं द्वितीयपादाद्यधिकरणेष्वपि तत्तद्विषयवाक्यानां ब्रह्मलिंगादिभिर्विष्णुपरत्वनिर्णयः । अन्यविधेयकश्रुतिर्लिंगानां सावकाशतया निराकरणमिति सिद्धान्ते विष्णोरेव सर्ववैदिकशब्दसमन्वयः ।

नन्विदमद्याप्यसिद्धं शिवादिविषयत्वमपि संभवतीतिशंकाग्रस्तत्वात् । तन्निराकरणार्थमेव त्वया प्रथमाध्यायशेषस्यारब्धत्वादिति चेन्न । विष्णुरेव विश्वोदयादिकर्ता सर्वेश्वरो न शिवादद्य इत्यस्य शास्त्रयोन्यधिरणसमन्वयाधिकरणाभ्यामेव सिद्धत्वात् । प्रथमाध्यायशेषेण श्रुतिलिंगादिना जीवादिविशेषपरत्वेन प्रतीयमानानां शब्दानामुपक्रमादिलिंगैः सावकाशत्वनिरवकाशत्वादिन्यायैश्च जीवपरत्वं निराकृत्येश्वरपरत्वस्य प्रतिपादनात् ।

नतु द्वित्रेष्वधिकरणेषु त्वया विष्णुश्रुतिर्लिंगानिसन्तीति लिखित्वा तैर्निर्णयः कृतोऽपि दृश्यते यथा 'अन्तस्तद्धर्मोपदेशा' दिव्यधिकरणे-

अन्तः प्रविष्टं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्तम् ।

सदैव सन्तं न विजानन्ति देवाइन्द्रस्यात्मानं शतधा चरन्तम् ॥

इत्यादिमन्त्रगतस्यान्तः प्रविष्टत्वस्य विष्णुपरत्वे "अन्तः समुद्रे मनसा चरन्तं यस्याण्डकोशं शुष्ममाहुः प्राणमुल्वम्" इति समुद्रशायित्वब्रह्माण्डवीर्यत्वरूपं विष्णुलिंगमस्तीति यथा वा 'त एव प्राण' इत्यधिकरणे "तद्वै त्वं प्राणोऽभवः महाभोगः प्रजापतेः भुजः करिष्यमाणः यद्देवान्प्राणयो न वेति प्राणशब्दस्य विष्णुपरत्वे "श्रीश्च ते लक्ष्मीश्च पत्न्या" विति तत्पूर्वानुवाकश्रुतं लक्ष्मीपतित्वलिंगमस्तीति । यथा च  "शब्दादेव प्रमित" इत्यधिकरणेअङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य स एवाद्य स  उ श्वःइति मन्त्रगताङ्गुष्ठमात्रशब्दस्य विष्णुपरत्वे

"ऊर्ध्वम् प्राणमुन्नयति अपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ।

इति मन्त्रश्रुतवामनश्रुतिरस्तीति-

अभावो रुद्रादेः प्रलयसमये वेदशिखरैरभाणि श्रीशस्य प्रथितवचनेनैव गदितः ॥

जनिर्वैकुण्ठेशाद्विशमुदिता सृष्टिसमये रमेशादन्योऽतः कथमिह परेशः खलु भवेत् ॥

समुद्रशायित्वादिविष्णुलिंगप्रतिद्वंद्वि" अन्तश्चन्द्रमसि मनसा चरन्तमन्तरादित्ये मनसा चरन्त" मिस्यष्टमूर्तेः शिवस्यापि लिंगमस्तीति विष्णुपरत्वपरिपंथिनी "प्रजापतिश्चरति गर्भे अन्तरिति प्रजापतिश्रुतिरस्ति । वामनश्रुतिप्रतिद्वन्द्वि "भूतभव्यस्य ईशान" इति शिवश्रुतिरस्तीति कथमुदाहृतश्रुतिलिंगै-र्विष्ण्वेकपरत्वनिर्णय इति चेत्।

अत्रोच्यते । शिवादेररीश्वरत्व"मेको वै नारायण आसीन्न ब्रह्मा न च शङ्कर" इति श्रुत्या-

ममान्तरात्मा तव च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्कचित् ॥ इत्यादीतिहासोपबृंहितया निराकृतम् । अन्तर्याम्यन्तरधिष्ठितस्य जीवविशेषस्य शिवादेजींव विशेषचन्द्राद्यन्तश्चरणस्य तन्नियामकत्वरूपस्यासम्भवात् । प्रजानां निरतिशयपतित्वस्य विष्णावेव सम्भवात् । 'ज्येष्ठः श्रेष्ठः प्रजापति'रिति प्रजापतिशब्दस्य विष्णावेव विद्वद्रूढे: सत्वाच्च । भूतभव्येशानत्वस्यापि जीवविशेषे निरवकाशत्वेन विष्णावेव सावकाशत्वाच्च । "ईशानः प्राणदः प्राणः" इतीशानपदस्य विद्वद्रूढे: विष्णावेव सत्वाच्च । भूतभव्यशब्दसमभिव्याहारेणेशानपदस्य शिवे रूढ्यसंभवाच्च । नचैवं वामनशब्दोऽपि प्राणापानमध्यस्थतोक्त्या पूर्वापरमन्त्रेषु बहुधाङ्गुष्ठमात्रतोतया च हस्वत्वपरो न तु विष्णौ रूढिमानिति त्वदभिमतश्रुतेरपि हानिः स्यादिति वाच्यम् | भूतभव्यस्येति षष्ठ्या भूतभव्यकर्मकेशनकर्तृत्वबोधवत्प्राणापानमध्यस्थत्वोक्त्याऽङ्गुष्ठमात्रत्वोत्तया

च न नियमेन हस्वत्वधीः । 'उपेन्द्रो वामनः प्रांशु' रिति-स्मृतेरार्यप्रसिद्धेर्वामन शब्दो विष्णौ रूढः । एवं च यथायद्योन्यां तदुत्तरयोर्गायतीत्यत्रोत्तराशब्द उत्तराग्रन्थे संज्ञारूपो निरपेक्ष इति तत्पर एव न तु योनिऋग्रूपप्रतियोगिसापेक्षोत्तरऋक्परस्तथा वामनशब्दोऽपि रूढ्या विष्णुपरो न तु दीर्घप्रतियोगिह्रस्वत्व पर इति । अंगुष्ठमात्रत्वं च मूर्तिविशेषस्य व्यक्त्यात्मनाऽगुष्ठमात्रस्थानस्य हृदयस्य तद्वते ब्रह्मण्युपचाराद्वा युक्तम् । किंच यस्य शब्दस्य प्रवृत्तिनिमित्तं यदाश्रितं तस्यैवार्थस्य स शब्दो वाचक इति न नियमः । किन्तु यस्य शब्दस्य प्रवृत्तिनिमित्तमाश्रितत्वेन यथेष्टविनियोक्तृत्वरूपस्वातन्त्र्यविषयत्वेन वा यदधीनं तस्यार्थस्य स शब्दो वाचक इति । अत एव भृत्यगतस्य विजयस्य राजाधीनाश्रितत्वेऽपि तदधीनत्वमात्रेण राजा जयतीत्यपि प्रयोगः । न चैवं सति रिपुगतदुःखबंधमरणादीनां राजाधीनत्वमात्रेण राजा दुःखी बद्धो मृत इत्यादि-प्रयोगप्रसंगः। तत्प्रयोजकत्वसत्वेऽपि राज्ञोऽपि दुःखादियोग्यतया राज्ञि सदेव दुःखादिकमुच्यत इति वा राज्ञि तदानीं दुःखाद्यभावनिश्चयेऽपि तस्मिन्दुःखा दिकमसदेवारोप्य राजविरुद्धेनोच्यते हति संशयापादकत्वादमंगलतया स्वस्थादिशब्दवत्तदप्रयोगोपपत्तेः । यद्वा स्वातंत्र्यमात्रं शब्दप्रवृत्तौ न प्रयोजकं किन्तु स्वगतत्वयोग्यत्वविशिष्टदोषत्वरहितं प्रति स्वातत्र्यम् ।एवं च जयस्य राजगतत्वयोग्यत्वेऽपि दोषत्वराहित्यात्तं प्रति राज्ञः स्वातन्त्र्यं जयशब्दप्रवृत्तौ प्रयोजकम् । दुःखबन्धादीनां राजगतत्वयोग्यत्वाद्दोषत्वाच्च तानि प्रति तस्य स्वातन्त्र्यं दुःखिबद्धादिशब्दप्रवृत्तौ न प्रयोजकं तेषां विष्णुगतत्वायोग्यत्वाद्दोषत्वेऽपि तानि विष्ण्वपेक्षयाश्रयत्वयोग्यत्वविशिष्टदोषत्वरहितानि भवन्तीति तानि प्रति तस्य स्वातन्त्र्यं दुःखिद्धादिशब्दप्रवृत्तौ प्रयोजकमेव । आश्रयत्वमपि न तन्मात्रप्रयोजकं धनवोढरि भृत्ये धनीत्यप्रयोगात् । एवं च जीवा एव तु दुःखिनः । कार्यकारणबद्धौ तावित्यादिश्रुतिगतदुःखिबद्धादिशब्दा जीवगतदुःखबन्धादिस्वतन्त्रस्य विष्णोरेव वाचकाः । न तु लोके दुःखिद्धादिशब्दा रिपुगतदुःखबन्धादिस्वतन्त्रस्य राज्ञो वाचका इति । '

नन्वेतदयुक्तम् । विविधकृष्णादिप्रतिमानिर्माणचतुरे शिल्पिनि तत्तत्प्रतिमासु कृष्णादिशब्दप्रवृत्तिनिमित्तं कृष्णाद्याकारं प्रति स्वातन्त्र्ये सत्यपि तस्मिन्-कृष्णादिशब्दप्रयोगादर्शनात् । न च प्रतिमासु कृष्णादिशब्दाः कृष्णाद्याकार सादृश्येन गौणा एव न तु वाचका इति न तासु कृष्णाद्याकारः कृष्णादि-शब्दप्रवृत्तिनिमित्तमिति वाच्यम् । 'इवे प्रतिकृता' वित्यधिकारे विहितस्य कन्प्रत्ययस्य जीविकार्थे वा पण्य इति लुपि कृते कृष्णादिशब्दानां कृष्णादिसदृशाकारप्रतिमावाचकत्वात् । न च प्रवृत्तिनिमित्ताश्रयत्वे सत्यपि धनवोढरि भृत्ये घनीतिप्रयोगादर्शनात्तदपि प्रयोजकं न स्यात्, प्रवृत्तिनिमित्तस्वातन्त्र्यस्यापि शब्दप्रयोजकत्वाभावे भृत्ये जयिनि राजन्यपि शब्दप्रयोगश्च न स्यादिति वाच्यम् । यतस्तदस्यास्त्यस्मिन्नित्यर्थे विहिता मत्वर्थीयाः प्रत्ययाः स्वभावात्केभ्यश्चित्प्रातिपदिकेभ्यो ऽस्यास्तीति षष्ठ्यर्थ एव भवंति केभ्यश्चिदस्मिन्नस्तीति सप्तम्यर्थ एव । षष्ट्या अपि एकशतं संबन्धाः सन्ति । तेभ्यस्तेभ्यः प्रातिपदिकेभ्यस्तत्तत्सम्बन्धविशेष एव भवति । केभ्यश्चित्षष्ठ्यर्थे सप्तम्यर्थे च भवन्ति । इयं च व्यवस्था प्रयोगानुसाराल्लभ्यत इति लाघवार्थे तदस्यास्त्यस्मिन्निति सामान्येन विधानम् । यथा पाय्यसान्नाय्यनिकाय्यधाय्यामान हविर्निवास सामिधेनीष्वित्यादिसूत्रेषु हविः

सामिधेनीविशेषादिवाचकानामपि सान्नाय्यादिशब्दानां सामान्येन हविराद्यर्थेषु विधानम् । एवं च धनप्रातिपदिकान्मत्वर्थीयाः षष्ठ्यर्था एव तत्रापि स्वस्वामिभाव एव भवन्तीति न वोढरि धनीतिप्रत्ययप्रसङ्गः । जयप्रातिपादकात्तु ते स्वस्वामिभावरूपे षष्ठ्यर्थे आश्रयरूपे सप्तम्यर्थे च भवन्तीति न राज्ञि भृत्ये च जयिशब्दप्रयोगानुपपत्तिः । यद्वा तत्फलभाजि राजन्युपचारेण जयिशब्दप्रयोगोऽस्तु । अत एव माघकाव्ये दृश्यते विजयस्त्वयि सेनायाः साक्षिमात्रेण दिश्यताम् । फलभाजि समीक्ष्योक्तेर्बुद्धेर्भोग इवात्मनि ॥ इति ॥

अतः सर्वेषामपि रूढानां यौगिकानां च शब्दानां प्रवृत्तिनिमित्ताश्रयत्वं तत्स्वातन्त्र्यं चेत्युभयमपि वाचकताप्रयोजकमिति रिक्तं वचः । नहि स्वस्थादिशब्दानामारोग्यादिमत्सु वाचकत्वे सत्यपि स्वर्गस्थस्वाद्यर्थान्तरप्रत्यायकत्वेनामङ्गलत्वादप्रयोग इतिवद्रिपूर्णां मारके राज्ञि मृतशब्दस्य वाचकत्वे सत्यप्यमङ्गलत्वादेवाप्रयोग इति कश्चिदपि मन्यत इति ।

त्रोच्यते । प्रतिमागताकारं प्रति शिल्पिनो न स्वातन्त्र्यं तदाकारस्य शिक्षाद्यधीनत्वात् । शिक्षा तूपदेष्टृपरम्परयाऽनवस्थिता । किंश्च प्रतिमायां कृष्णादिशब्द उपचारादेव वर्तते न वाचकः, उक्तं हि मनोरमायाम् अश्वक इत्यत्राश्वशब्दोऽश्व एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृशे इत्येके । अन्ये तु गौर्वाहीक इतिवदश्वशब्दः सादृश्यनिबंधनादभेदोपचारात्प्रतिकृतौ वर्तते कन्प्रत्यस्तु औपचारित्वद्योतक इत्याहुरिति । कृष्ण इत्यादौ लुप्तोऽपि कन्प्रत्यय औपचारिकत्वं द्योतयति । युक्तं चैतत् । कृष्णादिशब्दानां प्रतिमासु योगरूढ्योरभावात् । नहि श्रीपाणिन्यादिनाऽस्मिन्नर्थेऽयं प्रत्ययोऽस्मिन्नर्थे च प्रत्ययलुविक्तयुक्तेऽपि सोऽर्थोऽस्य शब्दस्य वाच्य इतिधीः संभवति । औपचारिकत्वादिनापि तदर्थतोपपत्तेः । किञ्चारोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोप इति शिल्पिनि कृष्णादिशब्दप्रयोगापादनासम्भवात् । नहि पंकजशब्दप्रवृत्तिनिमित्तस्य पंकजनिकर्तृत्वस्य कुमुदशृङ्गाटकादौ सत्वेऽपि पंकजशब्द-प्रयोग आपाद्यते, किन्तु पूर्वपूर्व प्रयोगानुसारेणोत्तरोत्तरप्रयोगः कुमुदादौ वार्यते पद्मरूढिर्वा कल्प्यते । जयी धनीत्यादिशब्दानामुक्तरीत्या कथंचिदुपपादनेऽपि राजा जयति जेता जयशीलः राज्ञा जितम्, ढ्यः सम्पन्न इत्यादिप्रयोगाणामस्मद्रीतिं विनानुपपत्तिरेव । किंच साक्षात्सम्बन्धेन स्वगतत्वयोग्यत्वेन विशिष्टं यद्दोषत्वं तद्रहितं स्वामित्वसम्बन्धेन स्वगतं यत्तदपि क्वचिच्छब्दप्रवृत्तौ निमित्तं भवति । दुःखि-बद्धादिशब्दानां प्रयोगस्य हरौ दर्शनेन तथा कल्पनात् । माघोक्तिस्तु जयस्य स्वामित्व संबंधेन राज्ञि उग्रसेन एव विद्यमानत्वेन श्रीकृष्णस्य राजत्वाभावेन तेन सम्बन्धेन तत्र जयस्याभाव इत्यभिप्रायः । मृतत्वस्य साक्षात्संबंधेन मारकराजगतत्वयोग्यत्वाद्दोषत्वाच्च न राजवाचकत्वम् ।

यत्तु पञ्चाधिकरणीदूषणार्थं दर्शितयैव त्वन्मतमर्यादया समन्वयाध्यायगताधिकरणानां शैथिल्येन त्वदभिमतस्य विष्णौ व्यवस्थितस्य समन्वयस्यासिद्धौ तदस्मिन्सम्भावितयुक्त्यादिविरोधनिराकरणार्थानि द्वितीयाध्यायगताधिकरणान्यभित्तिचित्रायमाणान्यचिन्त्याद्भुतमहिम्नि तर्कागोचरे च परमेश्वरे युक्तिविरोधादिकं न परिपन्थीति वदतस्तव मते तान्यकाण्डताण्डचरूपाणि तेषां तदुपजीवनेन प्रवृत्तानां साधनफलाध्यायगताधिकरणानां च शैथिल्यं स्पष्टमेव । यदि त्वदेकदृश्यैर्वाक्यैरेव समर्थनीयान्यधिकरणानि तदालं न्यायचिन्तनया । प्रत्यधिकरणं तव न्यायव्युत्पादनमपि नास्ति, "संभृतिद्युव्याप्त्यपि चात" इत्याद्यधिकरणानां वचनमात्रालम्बनानामपि त्वन्मते दर्शनात् संभृत्यधिकरणे हि सर्वगुणानामानन्दो ज्ञानं निर्दोषत्वरूपं सत्वं चेति त्रयो गुणा नियमेनोपास्याः प्रधानफलसिद्धये, प्रधानफलस्य मोक्षस्य निर्दोषज्ञानानन्दरूपतया तं यथायथोपासते इत्यनुसारेण फलानुसारिगुणोपसंहारावश्यंभावादित्यानन्दादयः प्रधानस्येत्यधिकरणप्रतिपाद्यत्वेन तवाभिमतमर्थात्त एव सर्वे मुमुक्षूपास्याः इत्याद्ययुक्तम् "उक्षा स द्यावापृथिवी विभर्ति" "एष हि सर्वेषु लोकेषु भाती" ति श्रुतयः संभृतिव्याप्त्योरपि सर्वमुमुक्षुपास्यत्वान्मोक्षे स्वाघममरणस्य प्रकाशव्याप्तेश्च सर्वापेक्षितत्वेन तयोरपि तत्क्रतुन्यायविषयत्वादित्याक्षिप्य यद्यप्येवं तथापि न ते सर्वोपास्ये ।

देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः । आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत् ॥

इतिवचनादिति किंचिद्वचनमेव लिखित्वा सिद्धान्तितमिति । तत्तुच्छम् । पंचाधिकरणी दूषणाभासनिराकरणेन समन्वयाध्यायगतैर्द्वदन्ययैर्विष्णौ समन्वयस्य सुसिद्धत्वेन तत्र संभावितयुक्त्यादिविरोधनिरासाय द्वितीयाध्यायारम्भस्य साधुत्वात् । अद्भुताचिन्त्यशक्तौ हरौ वास्तवयुक्त्यादिविरोधाभावेऽपि तद्विरोध भ्रान्तिनिरासाय तत्तदधिकरणानामारंभस्य सार्थक्यात् । वास्तवविरोधस्य न्यायसहस्रेणापि निराकर्तुमशक्यत्वात् । न हि तत्र विरोधशंकैव नावतस्तीतीत्यस्माभिः काप्युक्तम् । न वा तवेवास्माकं प्रमाणागम्यं ब्रह्मास्ति । संभृतिसूत्रे च 'अत इति सूत्रकृद्भिरेव न्यायस्योक्तत्वात् । अत एव योग्यताविशेषादिति भगवत्पादैरपि विवृतत्वात् । अतः योग्यताविशेषादेव संभृतिव्याप्ती अपि देवादीनामेवोपसंहर्तव्ये तेषां तत्र योग्यत्वात् ।यथा क्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवतीति सर्वसम्प्रतिपन्नसयुक्तिकश्रुतेः । यच्च प्रकाशाद्यपेक्षितं तन्तु भगवद्रूपप्रतीत्यविना भूतप्रकाशादिनैव लभ्यामिति टीकाकृदादिभिर्व्याख्यातत्वाच्च । स्वैकदृष्टवचनमात्रावलम्बनेनैवाधिकरणप्रवृत्तिर्न न्यायालम्बने नापीत्यादिदूषणोक्तिस्तु मोहादेव ।

यत्तु ब्रह्मानन्दो मैत्रजीवानन्दान्न भिद्यते तं प्रत्यनादिभावावृतत्वात्तद्भेोग्यत्वाच्च मैत्रजीवानन्दवत् । घटादीनां मैत्रं प्रति कुड्यादिभावावृतत्वेऽपि ज्ञानप्रागभावरूपानाद्यभावावृतत्वेऽप्यनादिभावावृतत्वं नास्तीति न तेषु व्यभिचारः, अनादिभावश्चाविद्यारूपः संसारदशायां जीवानन्दस्य ब्रह्मानन्दस्य च तं प्रत्याधारकस्तवापि संमतोऽस्तीति न पक्षे हेत्वसिद्धिर्नवा दृष्टान्ते साधनवैकल्यम् । जीवानन्दवद्ब्रह्मानन्दोऽपि मुक्तिदशायामभिव्यक्तो मुक्तानां भोग्य इति तदेतत् "प्रेयः पुत्रादि"ति श्रुतिं ब्रह्मविषयां वदतस्त: वापि संमतमिति न द्वितीयहेतोरप्यसिद्धिः । मन्मते यद्यपि संसारदशायामावृतो जीवानन्द एव ब्रह्मामन्दस्तथापि तत्र साध्यनिश्चयाद्दृष्टान्तत्वमुचितम् । साध्यनिश्चयो हि दृष्टान्तत्वे तन्त्रं न तु पक्षादन्यत्वमपि । यद्वा ब्रह्मजीवानन्दयोर्बिम्बप्रतिविम्वभावेन व्यावहारिक भेदसत्वात्पक्षदृष्टान्तभावः । प्रतिबिम्बे च चैतन्यांश एवानावृतः आनन्दांशस्त्वावृत इत्यभ्युपगमान्न साधनवैकल्यमिति । तत्तुच्छम् । अविद्यानिवृत्यनंतर मैत्रीयस्वरूपज्ञानविषयेष्वीश्वरीयलोकपार्षदादिष्वन्येषु चातीतानागतादिवस्तुषु चैत्रादिजीवान्तरेषु संसारदशायां मैत्रं प्रत्यनादिभावावृतेषु ततोभिन्नेषु व्यभिचारात् । संसारदशायामावृतो जीवानन्द एव ब्रह्मानंदश्चेति सिद्धचैवानुमितेः प्रतिबंधात् पक्षे साध्यनिश्चयं ब्रुवाणोऽनुमानं प्रयुंजानश्चाद्भुत एव, ब्रह्मप्रतिबिम्बस्य मैत्रादेरविद्याकल्पितस्याविद्यावृतत्वासम्भवेन दृष्टान्तस्य साधनवैकल्यात् । "आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला" इति त्वदीयोक्तेः । अज्ञानस्य स्वकल्पिताविषयकत्वेऽनाद्यकल्पिताधिष्ठानस्यासिद्धयापत्तेः । प्रतिबिम्बे आनन्दांशे आवरणोक्तिस्तु स्वसिद्धान्ताज्ञानादेव, प्रतिबिम्बस्य तदीयांशस्य चाविद्याकल्पितत्वेनाज्ञानाविषयत्वात् । अज्ञानकल्पितस्याज्ञानविषयत्वेऽन्योन्याश्रयाद्यापत्तेश्च । अनादित्वादुत्पत्तौ ज्ञप्तौ चान्योन्याश्रयाद्यभावेऽप्यपेक्षायां तत्सत्वात् । अन्यथाऽज्ञानमपि स्वाश्रयं स्वकल्पितब्रह्माश्रयं वा स्यादित्यज्ञानविषयतया ब्रह्मणोऽपि सत्यत्वं न सिद्धयेत् । न च परररीत्यैव परो बोध्यते, अस्मद्रीत्या व्यभिचारस्योक्तत्वात् । ब्रह्मानन्दस्य स्वविषयका परोक्षात्तत्प्रयोज्येश्वरप्रसादद्वारा स्वानन्दानुभवरूपभोगं प्रति प्रयोजकत्वेनमैत्रानन्दस्य व साक्षाद्भोग्यत्वेन पक्षदृष्टान्तसाधारणस्य हेतोरभावात् । पुत्राद्यपेक्षयातिप्रियत्वोक्तिस्तु पुत्राद्यपेक्षयाधिकानन्दानुभवहेतुत्वादेव, दुःखवत्त्वस्योक्तहेतू मैत्राभेदव्यभिचारिणौ दुःखवत्त्वव्यभिचारित्वात्, घटत्वादिवदिति व्यभिचारोन्नायकस्योपाधित्वात् । दुःखवत्त्वं तु स्वप्रयोजकाविद्यावत्त्वसबन्धेनाविद्या सहकृतस्वामित्वसम्बन्धेन वास्ति मैत्रस्वरूपानन्दे, नास्ति ब्रह्मानन्द इत्यस्ति साध्यव्यापकत्वं साधनाव्यापकत्वं चेति । ब्रह्मानन्दो मैत्रानन्दाद्भिद्यते दुःखासमानाधिकरणत्वात् घटत्वादिवदिति सत्प्रतिपक्षाच्च । दुःखा सामानाधिकरण्यं चोक्तसम्बन्धेनैव । किंचाभेदस्य ब्रह्मभिन्नत्वे सत्यत्वे चाद्वैतहानिर्मिथ्यात्वे भेदस्य सत्यत्वापत्तिः । ब्रह्मभिन्नत्वे त्वभेदत्वहानिः । प्रतियोग्यादिसापेक्षस्य भेदाभावरूपाभेदस्य भ्रमकाले निश्चितस्य निरपेक्षभ्रमकालनिश्चित निर्विशेषब्रह्मरूपत्वासंभवात् ।

यत्तु ब्रह्म जीवाभिन्नं निर्दुःखत्वे सति सुखवत्वात् । निर्विकारत्वे सति ज्ञानवत्त्वाज्जीववत्, मतद्वयेऽपि ब्रह्मणि जीवेऽपि स्वरूपसुखस्य स्वरूपज्ञानस्य चं धम्यभिन्नत्वेऽपि विशेषबलादविद्यावशाद्वा धर्मत्वमप्यस्तीति न पक्षदृष्टान्तयोर्विशेष्यासिद्धिर्नापि विशेषणासिद्धिः मतद्वयेऽप्यन्तःकरणस्यैव दुःखादिसकलविकाराश्रयत्वात् । यद्यप्याध्यासिकविकाराश्रयत्वं जीवस्य प्रपंचाश्रयत्वं च तदुपादानस्य ब्रह्मणोऽस्ति तथापि वस्तुतो निर्दुःखत्वं निर्विकारत्वं च विशेषणं तच्च धर्मिसमसत्ताकदुःखविकारशून्यस्वरूपम् । वैषयिकसुखाश्रये वृत्तिज्ञानाश्रये चान्तःकरणे व्यभिचारवारणाय रूपादिषु तद्वारणाय हेतुद्वयेऽपि विशेष्यभाग इति । तत्तुच्छम् । ब्रह्म धर्मिज्ञानाबाध्यजीवत्वावच्छिन्नप्रतियोगिताकभेदवत्, सर्वज्ञत्वाज्जगत्कर्तृत्वाद्व्यतिरेकेण जीववत् । ब्रह्म जीवप्रतियोगिक वैशिष्ट्यव्यासज्ज्य वृत्तिधर्मानवच्छिन्नप्रतियोगिताकस्वज्ञानाबाध्यभेदवत् दुःखाभाववत्त्वात् सुखाभाववत्त्वान्निरविद्यत्वादसंसारित्वाद्धटादिवदित्यादिसत्प्रतिपक्षात् । दुःखादिकं मनोवृत्तिरूपं अनेन तद्भावश्च स्वप्रयोजकाविद्यावत्त्वसम्बन्धेन । सम्बन्धेन दुःखादिकं यत्रास्ति स एव दुःखीति व्यवह्रियते । अस्ति च जीवेऽनेन सम्बधेन नास्ति च ब्रह्मणि । अप्रयोजकं च न हि ब्रह्माभेदं विना निर्दुःखत्वादिकमनुपपन्नम् । ब्रह्मभिन्नानामेवमुक्तजीवानां निर्दु:खत्वादिसंभवात् ।

यत्तु ब्रह्म देवदत्तजीवाभिन्नं तत्कर्मफलभोक्त्रभिन्नत्वाद्देवदत्तजीववत्, त्वया ब्रह्मणो जीवगतपुण्यफलभोक्तृत्वस्य गुहाधिकरणे उत्क्तत्वेन त्वन्मते तस्य कर्मफलभोक्त्रभिन्नत्वात् । मन्मते तथाभूतेन जीवेनाभिन्नत्वाच मतद्वये नासिद्धिरिति । तत्तुच्छम् । जीवे तत्कर्मफलभोक्तृत्वं हि तत्प्रयोजकाविद्यावत्त्वादिसंबंधेन सुखदुःखादिमत्वम् । तत्सम्बन्धेनाहं सुखी दुःखीति दुःखाद्यनुभवितृत्वं वा । ब्रह्मणि तु सुकृतस्य भक्तार्पितस्य स्वीकारमात्रम् । सर्वथा जीवविलक्षणमेव भोक्तृत्वमन्यथातयोरन्य: पिप्पलं स्वाद्वत्यनश्नन्नन्योऽभिचाकशीति" इतिश्रुतिविरोधः स्यात्, अतः पक्षदृष्टान्तयोरेकरूपेण हेतुरसिद्धः । ब्रह्म जीवाद्भिद्यते दुःखाधिकरणत्वाभावाद्घटवत्, दुःखाधिकरणत्वं च स्वप्रयोजकाविद्यावत्वसंबंधेन । ब्रह्म देवदत्तजीवाद्भिद्यते तत्पापफलभोक्तृत्वाभावात् घटवत् । न च तत्पापफलेत्यसिद्धिवारकत्वाद्वयर्थम् ? केवलभोक्तृत्वाभावात् तत्पापफलभोक्तृत्वाभावस्य भिन्नत्वेन धर्मिभेदेन वैयर्थ्याभावात् । एकस्य कर्मणः फलस्य विलक्षणभोक्तृत्वद्वयं जीवेश्वरयो भेदेनाप्युपपद्यत इत्यप्रयोजको हेतुः । नह्येकमेवैकरूपं वा भोक्तृत्वं जीवेशयोरस्ति । यत्तु हिरण्यगर्भादिजीवा ब्रह्माभिन्नास्तदीयदिव्य देहेन्द्रियैर्भोक्त्रभिन्नत्वाद ब्रह्मवत् ।

"ब्राह्मेंण जैमिनिरूपन्यासादिभ्यइत्यधिकरणे त्वया-

आदत्ते हरिहस्तेन हरिष्ठैव पश्यति । गच्छेच्च हरिपादाभ्यां मुक्तस्यैषा स्थितिर्भवेत् ॥ इत्यादिवाक्यं लिखित्वा सायुज्यमुक्तिगता हिरण्यगर्भादयो ब्रह्मणो देहं प्रविष्टास्तद्देहेंद्रियैरेव भुञ्जत इत्युक्तत्वात् न त्वन्मते हेत्वसिद्धिः । मयापि पर्यंकविद्यादिप्रतिपादितया रीत्या ब्रह्मणो देहेन्द्रियाणां भोगस्य च स्वीकृत देहेंद्रियैर्भोक्त्रा ब्रह्मणा हिरण्यगर्भादीनामभेदस्याङ्गीकारात् ममापि पूर्ववद्विशेषभेदेन हेतु साध्ययोर्भेद् इति । तत्तुच्छम् । हिरण्यगर्भादयो जीवा ब्रह्मप्रतियोगिकस्वज्ञानाबाध्य भेदवन्तः, सर्वज्ञत्वाज्जगद्कर्तृत्वाद्घटादिवदित्यादिप्रतिरोधात् ।

न चाज्ञत्वादकर्तृत्वादित्येवास्तु । शेषस्यासिद्धिवारकत्वेन वैयर्थ्यादिति वाच्यम् । ज्ञत्वकर्तृत्वाभावाभ्यां सर्वज्ञत्वजगत्कर्तृत्वाभावयोर्भिन्नत्वेन धर्मिभेदेन वैयर्थ्याभावात् । जीवान्तर देहप्रविष्टस्य पिशाचादेस्तदेहादिना भोगं कुर्वाणस्येव भेदे सत्यपि हिरण्यगर्भादेर्भोगोपपत्या हेतोरप्रयोजकत्वाच्च । यदपि जीवा ब्रह्माभिन्नास्तदिन्द्रियै भोक्त्रभिन्नत्वादाकाशादिप्रपंच स्रष्ठत्वाद्ब्रह्मवत् । यद्यपि मुक्तहिरण्यगर्भादीनामिव सर्वेषां जीवनां ब्रह्मदेहगतेन्द्रियै भोक्तृत्वं नास्ति । तथाप्यस्मदादिदेहगतान्यपीन्द्रियाणि ब्रह्मण एव करणानि । अस्मदादीनां तु स्वामिनः कुठारैभृत्यानामिव ब्रह्मकरणैरेव व्यवहार इति त्वया "ज्योतिराद्यधिष्ठानं त्वित्यधिकरणे व्यवस्थापितत्वात् त्वन्मते नाद्यहेतोरसिद्धिः । नापि द्वितीयहेतोरसिद्धि:, मनोराज्यविषयप्रपंचेषु जीवानां स्रष्टृत्वस्य त्वयाङ्गीकृतत्वादहमेव जगत्स्रष्टृ ब्रह्मेति जीवनां ध्यानादिसंभवाच्च । वासिष्ठरामायणे ऐन्दवोपाख्याने -

अन्तस्थेनैव मनसा चिन्तयामासुरादृताः । ब्रह्माहं जगतां स्रष्टा कर्ता भोक्ता महेश्वरः ॥

लोकपालसुरैः सार्धं भुवनानि चतुर्दश । निर्मितानि मयैतानि तेषामन्तरहं स्थितः ॥

इतीन्दुनामकब्राह्मणपुत्राणां तथा ध्यानप्रतिपादनाच्च । मन्मते तु पूर्ववद्धेतोरसिद्धिसाध्या वैशिष्टयनिरास इति । तत्तुच्छम् । जीवाः स्वज्ञानाबाध्यब्रह्मप्रतियोगिक भेदवन्तस्तन्नियम्यत्वाज्जडवदित्यादिप्रतिरोधात् । जीवानां ब्रह्मनियम्यत्वं च "य आत्मानमन्तरो यमयति" इत्याद्यन्तर्यामिब्राह्मणेन सिद्धमिति नासिद्धिः । इन्द्रियै भोक्तुर्विशिष्टस्य दृश्यत्वादिना त्वन्मते मिथ्यात्वेनास्मन्मतेऽसर्वज्ञत्वेन च ब्रह्माभेदासम्भवेनाद्यहेतोर सिद्धेः ब्रह्माधीनसत्ताकैरिन्द्रियैर्जीवभोगो न तु नित्यानावृताप्रतिवद्धसार्वज्ञवतो ब्रह्मण इति दृष्टन्तस्य साधनवैकल्यात् । इन्द्रियाधीनविषयभोगवतः परतन्त्रस्येश्वरत्वे मानाभावात् । नहीश्वराधीनैयैरिन्द्रियैर्जीवस्य भोगस्तैरन्यैवेन्द्रियैरीश्वरस्य भोग इत्यस्माभिः स्वीक्रियते । जीवेष्वसर्वज्ञेषु शुद्धे ब्रह्मणि च त्वन्मते जगत्स्रष्टृत्वाभावात्पक्षदृष्टान्तयोहैतोरभावात् । विशिष्टस्य तवातिरिक्तत्वान्मिथ्यात्वाच्च । मायाद्यवच्छिन्नस्य जगत्स्रष्टुरविद्याद्यवच्छिन्नस्य जीवस्य च भेदस्य त्वयाप्यङ्गीकारेण बाधाच्च । जीवानां मनोराज्यादिविषयप्रपञ्चस्रष्टुत्वेऽपि स्थूलबाह्य सर्वप्रपञ्चस्रष्टृत्वाभावेनास्मन्मते द्वितीयहेतोः पक्षेऽभावात् । विश्वामित्रादेरिव यत्किञ्चित्प्रपञ्चस्रष्टुर्जीवस्य "सर्वमसृजत" इत्यादिश्रुतिसिद्धेन सर्वत्रष्ट्रेश्वरेणाभेदं विनापि हेतोरूपपत्याऽप्रयोजकत्वात् । "अहं सर्वस्य प्रभव" इत्यादिस्मृतेश्च । वाशिष्ठरामायणस्य प्रामाण्ये तु तदुक्तध्यानस्य भ्रान्तिमूलकत्वेन विसंवादिनोऽर्थासाधकत्वात् । तत्साधकत्वेऽप्यान्तरमेव हि तत्सर्वं जगदन्तरं तेन सृष्टं न तु बाह्यम् । बाह्यदेहेन्द्रियादीनां तथा ध्यानादिहेतूनां तेनासृष्टत्वात् । न च ध्यानादिना स्रष्टेति जीवसृष्टेष्वीश्वरस्याप्यस्रष्टृत्वेन सोऽपि न वाच्यम् ? कुलालादिवदीश्वर प्रेरितस्यैव तत्र जीवस्य स्रष्टत्वेनेश्वरस्य सर्वत्रस्रष्टृत्वोपपत्तेः ।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ||

इतिस्मृतेः ।

किञ्च ब्रह्मजीवयोर्गुणोत्कर्षापकर्षसत्वाद्विरुद्वगुणाक्रान्त्यापि भेदः सिद्धयति । ननु ब्रह्मगतगुणोत्कर्षस्य तदभिन्नजीव साधारण्येऽपि जीवे त्वदभिमतस्य ज्ञानबलानन्दोत्कर्षस्येव संसारदशायामावृतत्वेनाप्रकाशसम्भवस्य त्वम्मते ब्रह्मणोऽचिन्त्याद्भुतशक्तिमहिम्ना तस्य तर्कागोचरत्वमहिम्ना च विरुद्धगुणाक्रान्तेस्तद्भेदासाकत्वस्य चोक्तत्वादिति चेन्न । नित्यस्य सदाप्रतिबद्धस्यानावृतस्येशगतस्य सार्वज्ञादेरेव जीवे स्वीकारे तत्प्रकाशस्य दुर्वारत्वात् । नह्येक एव गुणः क्वचिदधिकरणेऽनावृतः क्वचित्त्वावृत इति युक्तम् । जीवानन्दादेः स्वाधिकरणे सदा स्फुरद्रुपेभ्य ईश्वरानन्दादिभ्योभिन्नत्वादावरणोपपत्तेः । यत्तु त्वन्मतेऽस्मिन् शास्त्रे विशुद्धं ब्रह्म न विचार्यं तस्यानुपास्यत्वात्, किन्तु तत्प्रतिविम्बभूतमेवोपास्यम् । अतः सृष्ट्यादिवाक्यमन्यच्च सर्वं सगुणवाक्यमुपास्यप्रतिबिम्बपरमेव न तु विशुद्धब्रह्मपरम् । विशुद्धं तु ब्रह्म "यतो वाचो निवर्तन्ते" "यद्वाचानभ्युदितम्" इत्यादिभिः कैश्चिदेवास्मदभिमतनिर्गुणवाक्यैर्लक्षणया प्रतिपाद्यमिति न विशुद्धे ब्रह्मणि जगत्कर्तृत्वादिविरुदध्गुणसिद्धि: । येन तस्य जविाद्भेदः शंक्येतेति । तत्तुच्छम् । प्रतिमास्थानीयमनोनिर्मितमूर्तिगतस्य विशुद्धस्य ब्रह्मणो विश्वोदयादिकर्तुरेवास्माभिरुपास्यत्वाङ्गीकारात् । "तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इत्यस्य तदेव विश्वोदयादिकर्तृ सदनन्तगुणमुपासनाख्यमनोवृत्तिनिर्मितमूर्तिगतं ब्रह्म विद्धि । यदिदमुपासते उपासनाख्यमनोवृत्या योगिनो निर्मिमते तदिदंरूपं ब्रह्म न किन्तु प्रतिमावत्तदधिष्ठानमित्यर्थः । नहि प्रतिमैव ब्रह्मत्वेनोपास्यते किन्तु तद्गतं ब्रह्म । अतोऽस्मद्रीत्यज्ञानमेवैतादृशप्रलापे बीजम् । किञ्चैवं सत्याकाशादि-प्रपञ्चस्रष्टृत्वादिना जीवब्रह्माभेदसाधकानुमानानां दृष्टान्ते साधनवैकल्यंपक्षे हेत्वसिद्धिर्वा स्यात् । न च परमर्यादया पराभ्युपगन्तव्यार्थविरुद्धस्यापि पराभ्युपगममात्रमनुसृत्य हेतूकरणसम्भवादिति वाच्यम् । परार्थानुमानस्य स्वार्थानुमानपूर्वकत्वात् ।

यत्त्वर्जुनेन्द्रादीनां सुखादिवैचित्र्ये सत्यपि त्वदीयाऽभेदाभ्युपगमप्रदर्शनेन त्वन्मते ब्रह्मशक्त्यादिमहिना विरुद्धगुणवत्त्वस्य भेदासाधकत्वव्यवस्थापनेन विरुदध्गुणयोरपि जीवेशयोरभेदसिद्धिरिति तत्तुच्छम् । एकस्यैव कायव्यूहवतो योगिनो देहभेदेन सुखादिवैचित्र्यवदर्जुनेन्द्रयोरभेदेऽपि देहदेशादिभेदेन सुखादिवैचित्र्योपपत्तावपि सर्वज्ञत्वा सर्वज्ञत्वयोरेककालावच्छेदेनैकत्रानुपपत्तेः । न च "यथा ह्ययं ज्योतिरात्मा विवस्वानपा भिन्ना वहुधैकोऽनुगच्छन् उपाधिना क्रियते भेदरूपो देवक्षेत्रेष्वयमजोऽयमात्मा" इत्यादिश्रुतिभिर्जीवब्रह्माभेदसिद्धिरिति वाच्यम् । प्रतिजीवमन्तर्यामितया ब्रह्मणो बहुभावस्योक्तत्वात् । उपाधिनैकदेशोऽवच्छिद्यते कृत्स्नं वा ? द्ये सदेशत्वाद्वितीये कृत्स्नस्यजीवत्वाद्यापत्योपाधेर्भेदकत्वासम्भवात् । प्रतिबिम्बस्य बिम्बान्यून सत्ताकोपाधावेव सम्भवेन पारमार्थिकब्रह्मणः स्वन्यूनसत्ताकाविद्यादौ प्रतिबिम्बासम्भवात् । तादृशनियमाभावे मरीचिकाजलादावपि सूर्यादिप्रतिबिम्बापत्तेः । जीवेशयोरेकत्र स्थितिप्रतिपादकान्तर्यामिब्राह्मणविरोधस्य मतद्वयेऽपि सत्वात् । किञ्च त्वन्मते जीवाभिन्नमखण्डं त्वदभिमतं ब्रह्म श्रुतिभिर्न सिध्यति । वाक्यानां च तत्तत्पदार्थसंसर्गपरतायास्तदन्तर्गतपदानां प्रवृत्तिनिमित्तसंगर्गपरत्वस्य वक्तव्यतया सखण्डविषयत्वावश्यम्भावात् ।

ननु त्वया जीवे ब्रह्मणि च निर्विकारे गुणक्रियादीनां नित्यत्वेन धर्म्यभिन्नत्वेन समवायाश्रयाश्रयिभावादिसंसर्गरहितत्वेन चाम्युपगतत्वेन त्वन्मते श्रुतीनां तत्संसर्गविषयत्वं न सम्भवतीति चेन्न । अहिकुण्डलाधिकरणन्यायेन प्रमेयत्वं प्रमेयं घटाभावे घटो नास्तीत्यादिवच्चाभेदेऽपि धर्मधर्मिभावनिर्वाहस्य वस्तुस्वभावरूपस्य विशेषस्यास्माभिः स्वीकारात्त्वयानङ्गीकारात् । महावाक्यमपि तव व्यर्थम् । अतिरिक्तैक्यादेर्हि बोधने सखण्डार्थकत्वापत्तिरद्वैतहानिश्च । अबोधने स्वरूपस्याज्ञानाद्यधिष्ठानतयाऽवान्तरवाक्यादिना च ज्ञातत्वेन महावाक्यवैयर्थ्यम् । न च धर्मिण एव संसर्गविधया प्रतीतिश्चेत्तावताद्वैतापत्यभावेनाविरोध इति वाच्यम् । अभेदेऽपि वस्तुस्वभावाद्धर्मधर्मिभावस्वीकारेऽस्मन्मते प्रवेशापत्तेः । एतेन त्वदीयतत्तदधिकरणमर्यादालोचनयैव सविशेषाभिन्नमहातात्पर्यवेद्यं सच्चिदानन्दैकरसमद्वितीयं ब्रह्म सिद्ध्यत्त्वया निवारयितुं न शक्यत इति निरस्तम् । विविधविचित्र सत्याशेषविश्वस्य कर्तुर्नियन्तुर्नित्यनिरवद्यस्य नित्याप्रतिबद्धानावृतसार्वज्ञकस्येश्वरस्यजीवेऽल्पज्ञत्वादिगुणविशिष्टे सत्यस्य भेदस्योपपादितत्वेनास्मद्रीतिमनुसृत्य जीवेशाभेदप्रलापस्य निरर्थकत्वात् ।

भुक्त्वा श्यामाकमुष्टिं विपदमयद्दीनबन्धुर्द्विजाते-

र्दत्वा भूतीः पराः स्वाधृतकर इति मा देहिमां पद्मया यः ॥

द्रौपद्याः शाकलेशात्रि भुवनमपुषद्यज्वना दुःप्रसाध्यः ।

स्थित्वान्तःकारितत्वाद् वै मम यदुवरो ग्रन्थतः प्रीयतां सः ॥

श्रीगोविन्दादिहार भूषितभुवः श्रीगोकुलात्प्राग्दिशि क्रोशानां त्रियुगे पुरे द्विजवरा वंशे भरद्वाजतः ।

श्रीसन्नाहमुचो वसन्ति विबुधो वर्णी कुलेऽभूत्ततः ग्रन्थो मारुतमण्डनेऽस्ति परितः पूर्णः कृतोऽविघ्नतः ॥

विश्वोदयादिकर्त्तारं भर्तारं हि श्रियः सताम् ।

भवसन्तापहर्तारं वन्दे श्रीहयकन्धरम् ॥

भगवतोङ्घ्रिकञ्जस्य श्रीगोपालस्य रेणवः ।

क्रियासुर्वैभवं वाचामघराशेश्च शोधनम् ॥

इति श्रीमद्वनमालिविरचितो मध्वमुखालङ्कारः समाप्तः ।