मयाऽध्यक्षेणप्रकृतिः सूयते सचराचरम्

अथ शास्त्रयोनित्वन्यायवर्णनम्

मयाऽध्यक्षेणप्रकृतिः सूयते सचराचरम्

ॐ शास्त्रयोनित्वात् ॐ

श्रीकृष्णायनमः । मुमुक्षुज्ञेयजगदुत्पादादिकर्तृत्वं ब्रह्मणोऽसाधारणं लक्षणमुक्त्वा तत्र प्रमाणमाहशास्त्रयोनित्वादिति । ननु जगदनेककर्तृकं महाकार्यत्वात्, शिवो जगत्कर्ता सर्वज्ञत्वादत एव ब्रह्मापि जगत्कर्तेति कथं विष्णुरेव जगत्कर्तेति प्राप्ते जगत्कारणं धर्मादिवच्छास्त्रैकप्रमाणकमेव नत्वनुमानादिगम्यम् । अनुमानस्योपाध्यादिदोषसंभवात् । शास्त्रेण तु विष्णवेकनिष्ठमेव कारणत्वं प्रतिपाद्यते ।

ननु त्वन्मते शिवादेर्जगत्कर्तृत्वं दुर्वारम् । जगतः सामान्यतोऽनेककर्तृकत्वसाधकानुमानेन विशिष्य शिवादिकर्तृकानुमानेन च तात्पर्यनिर्णायकोपपत्यादिलिंगैश्चानुगृहीतानां 'सदेव सोम्ये' स्यादिवाक्यानामनेकस्रष्टपरत्वसंभवात् । त्वन्मते हि श्रुतिवाक्यस्यैक एवार्थ इति नियमो नास्ति । 'ज्योतिरुपक्रमात्तु तथा ह्यधीयत एक' इत्यधिकरणे हि तावत्कृत्स्नकर्मकाण्डस्त्वया कर्मब्रह्मोभयपरतया व्याख्यातः । तथाहि तत्र वसन्तवाक्येषु यथा वसतीति वसः "पचाद्यच्" । तनोतीतितिः श्रौणादिडिप्रत्ययः । पूर्वपदस्य च नकारागमः । वसंश्चासौ तिश्च वसन्तिः । सर्वत्र व्याप्तो वर्तमानो जगत्कर्ता चेत्यर्थः । तत्र संबुद्धिर्वसन्ते द्विरुक्तिरादरार्थी, जिजातं पूर्ववज्जनेडिप्रत्ययः ओति ओतं अवतेः क्तिः जातं जगत्। श्रोतं प्रविष्टं यस्मिन्स ज्योतिः, षः प्राणः वेष्टकत्वात् "षकारः प्राण आत्मेतिश्रुतेः । ज्योतिश्चासौ षश्चेति ज्योतिषः तस्य संबुद्धिज्योतिषेति । आयजेतेत्यपि संबुद्धि: आसमन्तात् यजैः यज्वभिः । इत प्राप्तेत्यर्थः । यजेर्धञर्थे कविधानमिति कप्रत्ययः संप्रसारणाभावश्च्छान्दसः । इन्द्रागच्छेत्यत्र इन्द्र इति अ इति गच्छ इति संबोधनानि गमेर्छदेश्च डप्रत्यये सति गं गतं छं छादनं यस्मादसौ गच्छः निरवद्य इत्यर्थः । स्वाहाशब्दे स्वमात्मीयं यज्ञादिषु दत्तं हविरादि आहरति स्वीकुरुत इति स्वाहः हिजो डप्रत्ययः । तदनन्तरं इति विष्णुनाम तयोः समासे सम्बुद्धिः नमःशद्वे नमतेरधिकरणार्थेऽसुन्प्रत्ययः । नमंति नियमेनास्मिन् वर्तन्ते कल्याणगुणा इत्यर्थः इति । तथोपनिषत्स्वपि ब्रह्मवाचिशब्दा ब्रह्मस्वार्थोभयपरतया व्याकृताः । तद्यथा प्राणो वा आशाया भूयानितिप्रकरणे प्राणशब्दो भूमाधिकरणे ब्रह्मपरतया व्यतीहाराधिकरणे च मुख्यप्राणपरतया व्याख्यातः इत्येवमन्यत्रापीति चेत् 'नामानि सर्वाणि यमाविशन्ति' 'सर्वे वेदा यत्पदमामनन्तीत्यादि श्रुतेः 'वेदैश्च सर्वैरहमेव वेद्य' इत्यादिस्मृतेश्चानुसारेण ज्योतिरादिशब्दानामन्यपरतया प्रसिद्धानां योगादिना भगवत्परत्वेन वर्णनेऽपि कारणवाचकानां 'सदेव सोम्येदमग्र आसीत्' 'ब्रह्म वा इदमग्र आसीदित्यादिसृष्टिवाक्यगतानां सदुब्रह्मादिशब्दानामन्यपरत्ववर्णनं न युक्तं बीजाभावात् ।

न च श्रुतीनामनेकार्थपरत्वं मन्वानस्य तवान्यपरत्वशंका स्यादेवेति वाच्यम् ? 'एको ह वै नारायण आसीन्न ब्रह्मा न च शंकर' इत्यादिविशेषवचनैर्विरोधेनोक्तशङ्कानुयात् । लोकादितोऽन्यत्र प्रसिद्धानां शब्दानां भगवति सर्वशब्दसमन्वयाय योगादिना भगवत्परत्ववर्णनेऽपि भगवदेकनिष्ठतया प्रसिद्धानामन्यपरतया वर्णने बीजाभावात् । अत एव भगवदेकवाचकतया सुप्रसिद्धानां नारायणादिशब्दानां समन्वयो न कीर्तित करे । किंचास्तु सृष्टिवाक्यगतसदादिशब्दानामनेकार्थकत्वं तथापि नानेककर्तॄणां सिद्धिः । न हि हर्यादिपदवाच्यस्य मण्डूकादेः सिंहत्वं सिद्धयति । एकमेव जगत्कारणत्वादिरूपं धर्मं निमित्तीकृत्यानेकत्र प्रकृतौ चानेकार्थकत्वहानिः घटादिपदतुल्यत्वात् । किं च सृष्टिवाक्यादिप्रतिपाद्या बहवः कर्तारः परब्रह्मरूपाः स्युस्तदैतेषां 'पराऽस्य शक्तिर्विविधैव श्रूयते' इति श्रुतिबलात् प्रत्येकमचिन्त्यापरिमितशक्तिमतां तेषां सम्भूय स्रष्टृत्वकल्पनमयुक्तम् । लोके प्राकारादिषु शिल्प्यादीनां संभूयकारित्वस्याशक्तिनिबंधनत्वात् । अतः सृष्टिवाक्यानामेकस्मिन्नेव स्रष्टरि पर्यवसानावश्यंभावे विशेषवचनबलान्नारायणपर्यवसानम् । अनेकेषां सर्वनियामकत्वस्य परमस्वातन्त्र्यस्य चासंभवात् ।

ननु त्वन्मते चेश्वेरस्य जगत्स्रुष्टौ नियमेन प्रकृत्यादिकमपेक्षमाणस्य तत्रापि प्रकृतिमुपादानत्वेनैव कालादिकं निमित्तत्वेनैवापेक्ष्य प्रकृत्यैव महान्तं महतैवाहंकारमित्यादिक्रमनियमं वापेक्ष्य सृजतः किं नाम स्वातन्त्र्यम् १ स्वातन्त्र्ये सति कदाचित्प्रकृत्यादिकमनपेक्ष्य निमित्तोपादानकार्यक्रमादिकं व्युदस्य सृष्टिप्रसङ्गादिति चेन्न । प्रकृत्यादीनां तदधीनानां तत्स्वातन्त्र्याविरोधित्वात् । तन्नियामकत्वेनैश्वर्याधिक्यसिद्धेश्च । स्वयमेव गन्तुं शक्तस्यापि गमनसमये लीलया दण्डावष्टंभवत्स्वेच्छामात्रेण प्रकृत्यादिकं स्वाधीनं जगत्सृष्ट्यादौ स्वीकुर्वतः स्वातन्त्र्याविरोधात् । न चैवं प्रत्येकमखिलजगत्सृष्टिशक्ता अपि परमेश्वराः केवलं लीलया संभूय जगत्सृजन्तीति वक्तुं शक्यमिति वाच्यम् । अनेकेषां परमस्वातन्त्र्यासंभवेन तादृशलीलाया असंभवात् । 'तद्वेदं तव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियते । तस्मान्मायी सृजते विश्वमेतदित्यादिश्रुतेः ।

'मयाऽध्यक्षेणप्रकृतिः सूयते सचराचरम् । प्रकृतिं पुरुषं चापि प्रविश्यात्मेच्छया हरिः ।

क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥

इत्यादिस्मृतेश्चानुरोधेनेशाधीन प्रकृतिपुरुषयेोरंगीकारेपि नानेश्वरांगीकारे मानाभावात् । 'द्यावाभूमी जनयन्देव एक' इत्यादिश्रुतिविरोधाच्च । न च कर्त्रैक्यश्रुतिर्ब्रह्मविष्णुशिवानां मध्ये एकैकस्यैव कर्तुः 'तदैक्षत बहुस्यां प्रजायेय' इत्यादिषु श्रुतैर्षहुभवनमुखैरुपस्थापिताया भेदप्रसक्तेर्निवारणेनार्थवतीति वाच्यम् । भवनकर्तृनिष्ठबहुत्वशंकाया भवनप्रयोजककर्तृनिष्ठैकत्वज्ञानेनाविरोधात् । नह्येक एव कुलालो घटं जनयति स्वयं न बहुभवतीत्यत्रविरोधगंधोऽस्ति । ईश्वरीयबहुभवनमात्रनिषेध परतया संकोचे मानाभावाच्च ।

ननु तथापि न त्वन्मते परमेश्वरैक्यसिद्धि:- तथाहि 'यो वै भूमा तत्सुखमित्यादिश्रुतौ भूमशब्दस्तवापि ब्रह्मपरः । तत्रायं त्वन्मते विशेषः बहोर्लोपो भूचबहोरिति भावे निष्पन्नोऽपि भूमशब्दो 'यो वै भूमा तदमृतमित्यादिषु धर्मिण्येवप्रयोगाद्धर्मिण्येव रूढः । तस्य च परब्रह्मणि धर्मिणि बैकुंठे प्रवृत्तौ निमित्तं अवधिविशेषगणनानिरपेक्षपूर्णत्वं नत्वस्मादेवायं पूर्ण इति प्रतियोगिविशेषापेक्षम् । प्रकरणोपपदादिसंकोचकाभावात् । नामवागाद्युत्तरोत्तरोत्कृष्टनिरूपणे चरमकतापन्नत्वान्नाल्पे सुखमस्तीतिनिरुपपदेनाल्पपदेन सर्वस्याप्यल्पस्य प्रतियोगित्वेन निर्देशाच्च । तच्च निरवधिकं पूर्णत्वं न धर्मिण एव परममहत्वरूपं किन्तु तत्सद्गुणानामानंदादीनां निरतिशयत्वरूपम् । 'वाग्वाव नाम्नो भूयसीत्यादौ वैपुल्यरहितेषु वाक्संकल्पध्यानादिष्वपि तत्र प्रकरणे भूमशब्दसमानार्थकभूयः शब्ददर्शनेनात्रापि तदैकरूप्याय गुणतो वैपुल्यस्यैव तदर्थतौचित्यात् । तच्च पूर्णत्वं सर्वेषामधिकारिणां नैकप्रकारेण श्रवणमननध्यान साक्षास्कारेषु प्रतीयते, किन्तु तत्तद्योग्यतानुसारिणा तारतम्येन । न च पूर्णत्वे तारतम्यस्यासंभवः । क्षणानन्त्य इव तदुपपत्तेः । अस्ति हि पूर्वोत्तरकल्पापेक्षयाऽतीतक्षणेषु सतोरानन्त्ययोस्तारतम्यमिति तदेतदुभू माधिकरणादौ स्पष्टम् |

तत्रेदमुच्यते । इयत्तापरिच्छेद राहित्यमात्ररूपं संभवति तारतम्यमानन्त्ये । न तु निरतिशयत्व सर्वोत्तत्वसर्वोत्कृष्टत्वापरपर्यायतया तेष्वधिकरणेषु त्वयोद्घोषिते भूमब्रह्मशब्दयोः प्रवृत्तिनिमित्ततया त्वभिमते ब्रह्मानन्दादीनां पूर्णत्वे निरतिशयत्वस्य व्याधातात् । नहि ये तारतम्यशालिनस्ते निरतिशया: सर्वोत्तमा इति च युज्यते तेषु यस्य यदपेक्षया निकर्षस्तस्य तेन सातिशयस्योत्तमत्वस्य चावर्जनीयत्वात् । यद्युच्येत परमेश्वराचिन्त्यशक्तिमहिम्ना तदानंदादिविशेषाणां परस्परतारतम्यवतामपि निरतिशयत्वादि संभवतीति तदा परमेश्वराणामचिंत्यशक्तिमहिम्ना परस्परं भिन्नानामप्येकत्वं संभवतीति किमिति वक्तुं न शक्यम् ? तस्मात्परब्रह्मानन्दैकदेशात्सातिशयत्वेन भूम्न एव भूमरूपतया तत्तद्धिकारिणं प्रति भूमशब्दः प्रतिपादयतीति त्वया वक्तव्यमिति ।

अत्रोच्यते । परब्रह्मानंदादेर्भूमशब्देन तारतम्येनाधिकारिणं प्रति बोधनेऽपि न सातिशयत्वाद्यापत्तिः तस्यैक्यात्तदेकदेशिनोरभेदात् । ब्रह्मानंदा देरुत्कृष्टत्वं तु जीवानन्दाद्यपेक्षया । तच्च तत्तदधिकारिभिज्ञेयं सर्वदेशेषु प्रत्येकमपि सर्वघटादिषु घटत्वादिवत्पर्याप्तम् । एकस्य घटस्य तदेकदेशस्य वा दृष्टे स्पृष्टे च घटत्वं दृष्टं स्पृष्टं यथा तथा ब्रह्मानन्दाद्येकदेशे ज्ञाते प्राप्ते वोत्कृष्टं ज्ञातं प्राप्तं च भवत्येव । भूमब्रह्मादिशब्दैः सर्वानधिकारिणः प्रति पूर्णत्वप्रकारक एव बोधो जन्यते तारतम्यन्तु संसर्गविधया भासते तद्बोधकपदाभावात् । किंच लोके परस्परतारतम्यवतामपि शरावकरकघटतडागसमुद्रादीनां पूर्णत्वव्यवहारोऽपि दृश्यते । एतादृशपूर्णत्वं तु जीवेष्वेव नतु ब्रह्मानन्दादिषु, तेषामभिन्नत्वात् भूमादिशब्दैः पूर्णत्वेनैव बोधनात् ।

एतेनेश्वराणां मध्ये यदुपासने यस्य पुरुषस्यानादियोंग्यता स एव जगत्कर्ता नान्य इति तस्य स्फुरतीति तत्तदधिकारिबुद्धिर्विषयं तमेवार्थं तस्याधिकारिणः श्रवणकर्तुर्बुद्धिभेदेन भिन्न भिन्नं कत्रैक्यश्रुतिरनुवदतीत्येव वा तन्निर्वाहोऽस्तु । न च श्रुतीनामनेकार्थकत्वसंप्रतिपत्तावपि श्रोतृभेदेन भिन्नभिन्नार्थबोधकत्वं न संप्रतिपन्नमिति वाच्यम् ? 'आत्मेत्येवोपासीत' इति विधौ तव तत्संप्रतिपत्तेः । इत्थं हि त मतं ब्रह्मोपासनायामधिकारिणस्तावदुपास्यगुणभेदेन त्रिविधाः । सत्यज्ञानानन्दादिभिरल्पैर्गुणैर्मर्त्यः संभृतिद्युव्याप्त्यादिभिः सहितै भूयोभिर्गुणैरिन्द्रादिदेवाः अखिलैर्गुणैश्चतुर्मुखादयः देवेषु मर्त्येषु च स्वस्वभाविमुक्त्त्यर्थोपासनीयगुणविशेषोपसंहारानुपसंहाराभ्यां गुणभूयस्त्वाल्पत्वावान्तर भेदैस्त्वतिबहवोऽधिकारिणः सर्वान्प्रति तत्तयोग्यगुणविशिष्टब्रह्मोपासनाभेदानां विधायकं 'आत्मेत्वेवोपासीत' इत्यादि वाक्यम्, तत्र देवेषु मर्त्येषु च यावद्गुणोपासने योग्यता तं प्रति तावद्गुणविशिष्टं ब्रह्म आत्मशब्दोभिधत्ते एवकारस्तद्योग्य गुणव्यवच्छेदकः । चतुर्मुखादीन्प्रति सर्वगुणविशिष्टं ब्रह्माभिधत्ते । एवकारस्तदयोगव्यवच्छेदक इति निरस्तम् ।

उपासनाविधिवाक्यस्थ पुरुषभेदेन विरुद्धानेकार्थप्रतिपादकत्वं हि युक्तम् । अनुष्ठाने विकल्पसंभवात् । नतु वस्तुपरस्य कारणवाक्यस्य विरुद्धानेकार्थकत्वं वस्तुनि विकल्पाभावात् । उपासनावाक्यस्य हि तत्तस्पुरुषं प्रति तत्तद्योग्यगुणविशिष्टमेव ब्रह्मोपासनीयं नायोग्य गुणविशिष्टमिति बोधकत्वे च न प्रामाण्यं हीयते, हीयते तु 'सदेव सोम्येदम्' इति वस्तुपरवाक्यस्य । तत्तत्पुरुषं प्रति शिव एव जगत्कर्ता नान्य इत्यादि-बोधकत्वे पुरुष भेदेनानुष्ठानभेदद्वद्वस्तु भेदासंभवात् । यत्तु त्वया पुराणेषु रामकृष्णाद्यवताररूपाणां भेदश्रवणं लौकिकैर्भ्रान्त्या गृहीतस्य भेदस्यानुवादकमित्युक्तत्वेन तथैव कत्रैक्यश्रुतेरनुवादकत्वोपपत्तिरिति । तत्तुच्छम् । अवतारेषु तत्कालवर्तिनां लौकिकानां केषांचिद्भेददृष्टिसंभवेनान्येषां च बहुत्वलिंगाभासेन भेदधीसंभवेनानुवादकत्वसंभवेऽपि जगत्करर्त्रैक्यस्य श्रुतिं विना प्राप्त्यभावेन तदैक्यश्रुतेरनुवादकत्वासम्भवात् ।

ननु त्वया पुरुषाणां योग्यतावन्माहात्म्यज्ञानपूर्वकस्नेहरूपा भक्तिरप्यनादिरिति, “स्थानविशेषात्प्रकाशादिवत्", "अनुबन्धादिभ्य" इत्यधिकरणयोरुक्तत्वेन शिवादिभक्त्यन्तर्गतस्य शिव एव जगत्कर्ता नान्य इत्यादिरूपेण तत्तन्माहात्म्यज्ञानस्याप्यनादित्वं सर्वेषां मतानामनादित्वस्योक्ततया तत्तन्मताहितमाहात्म्यज्ञानपरंपरानादित्वसंभवाच्चेति चेन्न । मोक्षेऽपि विद्यमानाया अविनाशिन्या उक्तभक्तेरनादित्वेऽपि शिव एव जगत्कर्ता नान्य इति ज्ञानस्यानादित्वे मानाभावात् शिवोत्पत्यादिबोधकवाक्यविरोधाच्च । श्रुतिविरुद्धानामनादीनामपि मतानामर्थासाधकत्वाच्च । यत्तु -

यदा तमस्तत्र दिवा न रात्रिर्न सन्नचाऽसच्छिव एव केवलः ।

तदक्षरं तत्सवितुर्वरेण्यं प्रजा च तस्मात्प्रसृता पुराणी ॥

"प्रजापतिर्वा इदमेक आस नाहरासीन्न रात्रिरासीत् सोऽस्मिन्नन्धे तमसि प्रासर्पदि" त्यादीनि शिवविरिंचयोरपि जगत्कर्तृत्वमावेदयन्तीति कथं विष्णोरेव जगत्कर्तृत्वमिति । तत्तुच्छम् । ब्रह्मणो रात्रौ त्रिलोकी प्रलयरूपायां शिवादेरवरस्थानेनावान्तरकल्पाभिप्रायेणोक्तश्रुत्युपपत्तेः ।

प्रकृतिं पुरुषं चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ ॥

प्रकृतिर्या मया ख्याता व्यक्ताव्यक्तखरूपिणी । पुरुषश्चाऽप्यभावेतौ लीयेते परमात्मनि ॥

परमात्मा च सर्वेषामाचारः पुरुषोत्तमः । स विष्णुनामा वेदेषु वेदान्तेषु च गीयते ॥

मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । बुद्धिर्मनो महद्वायुस्तेजोंऽतः खं मही च या ॥

चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् । चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः ॥

प्रभवश्च स सर्वेषां निधनं च युधिष्ठिर । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥

इत्यादौ हरेः प्रकृतिक्षोभकत्व सर्वजगल्लयाश्रयत्वसर्वभूतोत्पादकत्वादिप्रसिद्धेरेव वेदेतिहास सात्विकपुराणादिषु शिवविरिंचादौ तथा प्रसिद्धेरलीकत्वात् । "यो ब्रह्माणं विदधाति" "यस्य अक्षात् शूलपाणिरजायत" "नारायणाद्रुद्रो जायत" इत्यादौ ब्रह्माद्युत्पत्तिवत्सृष्टिप्रकरणे वेदेतिहाससात्विकपुराणेषु विष्णोरुत्पत्यश्रवणाच्च । क्वचिद्रुद्रादेः संहारकत्वोक्तिस्तु तत्प्रविष्टनारायणाभिप्राया ।

सर्गस्थितिविनाशांस्तु भगवान्मधुसूदनः । तैस्तै रूपैरचिन्त्यात्मा करोत्यव्याहतान्विभुः ॥

जुषन्रजोगुणं तत्र स्वयं विश्वेश्वरो हरिः । ब्रह्मा भूत्वाऽस्य जगतो विमृष्टौ सम्प्रवर्तते ॥

सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना | सत्वभुग्भगवान्विष्णुरप्रमेयपराक्रमः ॥

तमोद्रेकाच्च कल्पान्ते रुद्ररूपी जनार्दनः । मैत्रेयाखिलभूतानि भक्षयत्यतिभीषणः ॥

इत्यादिस्मृत्या पृथ्व्यादाविव रुद्रादौ हरेरंशावेश उक्तः अतस्त्वदुदाहृतश्रुतिनिष्ठशिवपदं कल्याणादिकं निमित्तीकृत्य विष्णुपरमेवातः सुसिद्धं जगदुदयादिकर्ता विष्णुरेव नान्य इति ।

मण्डने मध्वतन्त्रस्य खण्डने च सुरद्रुहाम् । वनमालिकृतं भाति शास्त्रयोनिनिरूपणम् ॥

इति श्रीमद्वनमालिविरचिते मध्वमुखालंकारे शास्त्रयोनित्वन्यायनिरूपणं समाप्तम् ।