मनसैवानुद्रष्टव्यम्
अथेक्षति न्यायवर्णनम्
श्रीकृष्णाय नमः ।
ईक्षतेर्नाऽशब्दम्
नन्ववाच्यमेव ब्रह्मेति कथं तत्र समन्वयः? 'यतो वाचो निवर्तन्ते' इति श्रुतेरिति प्राप्ते । ब्रह्माऽशब्द शब्दावाच्यं न । 'परात्परं पुरिशयं पुरुषमीक्षते' इति तद्विषयकेक्षणश्रवणात् । तच्चौपनिषद्स्य ब्रह्मणो वेदेनैवेति ।
ननु त्वन्मतेऽप्यवाच्यत्वं ब्राह्मणः स्यात् । तथाहि-
यथा जीवानन्दादेरन्यद्ब्रह्म तथोपासनाकाले प्रतीतादप्यन्यदेवेति त्वयांगीकृतम् । "यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इति श्रुतौ ब्रह्मण उपास्यत्वप्रतिषेधात् । जीवानंदादिष्वल्पत्वस्येवोपासनाकाले प्रतीते व्यक्तत्वादेर्हेतोः सत्वाच्च । व्यक्तत्वं ब्रह्मणस्त्वया 'तथान्यनिषेधादित्यधिकरणे निराकृतम् । तस्मादुपासकानां हृदयेषु ब्रह्मणः प्रतिबिंबविशेष एवोपासनालम्बनम् | तदुपासनयैव च प्रतिमोपासनयेव तद्गतं ब्रह्म प्रसन्नं सदव्यक्तमप्याश्चिन्त्यापरिमितस्वशक्तिबलादपरोक्षीभवतीति युक्तम् । तथैव ब्रह्मतर्कवचनम् -
पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिंबितम् । ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥
तदुपासनं च भवति प्रतिमोपासनं यथा । दृश्यते त्वपरोक्षेण ज्ञानेनैव परं पदम् ।
इति ॥ एवमनुपास्यं ब्रह्मेत्यङ्गीकुर्वता त्वयोपासनाविधिप्रकरणेषूपास्यसमर्पकाणां श्रुतिवचनानां तद्वाच्यं न भवतीत्यङ्गीकार्यम् । तद्वाच्यत्वाङ्गीकारे कथं तद्नुपास्यत्वमितिचेत् ।
अत्रोच्यते । यद्यच्छ्रवणजनितवासनया मनोमयवस्तुनोऽवलोकनं तत्तस्य ध्यानमिति हि नः सिद्धान्तः । 'श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यान' मिति न्यायसुधोक्तेः । उक्तध्यानस्य गुरुमुखाद्वाक्यार्थग्रहणरूपश्रवणघटितत्वेन श्रवणस्य तु ब्रह्मणो वाच्यत्वं विनाऽसंभवेन तस्य वाच्यत्वसिद्धिः । यथा प्रतिमायां क्रियमाणार्चा तस्थतया चिन्त्यमानस्य देवस्यैव न तु प्रतिमायास्तथोक्तध्यानं बिम्बस्यैव न तु मनसा कल्पितवस्तुनः, अतो न श्रवणमनननिदिध्यासनानां भिन्नविषयकत्वं नवा प्रतिबिंबे शास्त्र समन्वयशंका | 'आत्मानमुपासीतेत्यादिश्रुतेरत्वात्मश्रवण जनितमनोमय वस्त्ववलोकनं कुर्यादित्यर्थः । इदं श्रवणजानितमनोमयवस्तु यदुपासतेऽवलोकन्ते तद्ब्रह्म न, किन्तु यच्छ्रुत्वा तत्सदृशमनोमयमूर्तिः कल्प्यते तदेव ब्रह्म त्वं विद्धीति श्रुत्यर्थः । ध्यातारो यच्चित्ते प्रतिबिंबितं यदीया प्रतिमा चित्ते कल्पिता तत्परमं ब्रह्म पश्यन्ति प्रसादेनापरोक्षीकुर्वन्ति यद्यतः प्रतिबिंबे आविर्भूय ब्रह्मैव तेषां ध्यातॄणां फलप्रदमतस्तस्योपासनं भवति प्रतिमायामुपासनं यथा तद्वत् । तत्प्रसादयुतेनापरोक्षेण पश्यन्तीति ब्रह्मतर्कवाक्यार्थः । विजातीयप्रत्ययानन्तरित सजातीयप्रत्ययप्रवाहो निदिध्यासनापरपर्यायो ध्यानम् । तच्च प्रतिबिंबांशे मानसापरोक्षम्, बिंबांशे स्मरणम् । 'यन्मनसा न मनुते' इत्यादिश्रुत्या ध्यानकालिकमान सवृत्यविषयत्वम्, 'मनसैवानुद्रष्टव्यम्' इत्याद्यया च ध्यान परिपाके सतीश्वरप्रसादेन मानसवृत्तिविषयत्वं बोध्यते ।
यतु "यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव-ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इतिमंत्रान्तरं ब्रह्मणो वाच्यत्वं प्रतिक्षिपतीति । तन्न । यदादिपदावाच्यत्वे उद्देश्यज्ञानासंभवेन तत्र वाच्यत्वाभावविधानासंभवात् । तदेवेत्यादेर्व्याघाताच्च । सर्वशब्दावाच्यस्य लक्षणाया प्रदर्शनान्न लक्षणयापि तद्बोधः । अवाच्यलक्ष्यादिपदलक्ष्यत्वे गंगापदलक्ष्यतीरादेरगंगात्ववद्वाच्यत्वादिकमेव स्यात् । तद्वाच्यत्वे त्वागतमेव वाच्यत्वम् ।
यत्तु स्रष्टत्वादिप्रतिपादकानां श्रुतिपुराणेतिहासागमादीनां सर्वेषामप्युपास्यत्वेन त्वदभिमते प्रतिबिंबविशेष एव पर्यवसानं स्यादिति तत्रैव वाक्यशेषादिभिर्युपाहवनीयादिन्यायेन ग्राह्मव्युत्पत्तिकानां ब्रह्म नारायणादिपदानां शक्तिः स्यादिति । तत्तुच्छम् । जीवतः कवेराशयस्यावर्णनीयत्वात् । अस्माभिः प्रतिबिंबपदार्थस्य परब्रह्मभिन्नत्वस्यानुपास्यत्वस्य च स्वीकारात् । किंचैवं 'तदेव ब्रह्म त्वं विद्धीत्यादिष्वपि ब्रह्मपदादेरब्रह्मविषयत्वापत्तेः । नच प्रतिबिंबवाचकानां ब्रह्मादिपदानां बिंबभूतब्रह्मलक्षकत्वोपपत्तिरिति वाच्यम् ? गंगापदलक्ष्यस्य तीरादेरगंगात्ववद्ब्रह्मपदलक्ष्यस्याब्रह्मताया दुर्वारत्वात् । प्रतिबिंबस्यैव मुख्यब्रह्मत्वापत्तेश्च । एतेनेत्थमत्र तव मतं पर्यवस्येत वाङ्मनसपथातीतं नित्याव्यक्तमुपासनानन्तरं मुच्यमानानां मुक्तानां च साक्षात्कारस्यैव विषयभूतं परं ब्रह्म 'तदेव ब्रह्म त्वंविद्धीत्यादिभिः कैश्चिदेव वचनैर्लक्षणया प्रतिपाद्यं तस्य प्रतिबिंबविशेषस्तु जीववदनादिः कर्तृत्वादिमानुपासकहृदयेषूपास्यरूपेणाभिव्यक्तिशाली श्रुत्यादिभिस्तदनुसारि पुराणादिभिश्च शक्त्या प्रतिपाद्यत इति निरस्तम् । जीवत्कवेराशयस्य स्वादृशेनैव वर्णनीयत्वात्, अस्माभिः सदनन्तगुणालयस्य विश्वोदयादिकर्तुरेव परब्रह्मरूपस्यैवेयत्तयोपासनायां भानानङ्गीकारात् । स्वयोग्यान्सर्वगुणान्श्रुत्वा तेषां परोक्षज्ञानधारां सम्पाद्य ध्यानं कार्यम् । ध्याने तु चित्तस्वच्छतानुसारेण कतिपयगुणानां भानम्, स्वयोग्याशेषगुणभानं तु तत्प्रसादादापरोक्ष्य एवेति नः सिद्धान्तात् । उक्तं हि न्यायसुधायां 'जीवशक्त्यापरोक्षव्यक्तोऽपि स्वशक्त्यैव दृश्यत' इति ।
मण्डने मध्वतन्त्रस्य खण्डने च सुरद्रुहाम् । वनमालिकृतं भाति ही क्षतिन्यायवर्णनम् ॥
इति श्रीमहनमालिकृते मध्यमुखालङ्कारे ईक्षतिन्यायवर्णनं समाप्तम् ।