सदमितगुणसिन्धुः सर्ववेदाभिधेयो विगतविमतिधामा हेयशून्यो रमेशः
मध्वमुखालङ्कारः ।
श्रीवनमालिदासकृतः ।
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक-श्रीलक्ष्मीहयग्रीवाय नमः ।
मङ्गलम्
सदमितगुणसिन्धुः सर्ववेदाभिधेयो
विगतविमतिधामा हेयशून्यो रमेशः ।
विधिशिवसुरराजैः सेव्यमानाङ्घ्रिकञ्जः
स्फुरतु मनसि मे स श्रीहयास्यो मुकुन्दः ॥ १ ॥
श्रीमन्मारुतमाचार्यं मायिमर्दनतत्परम् ।
मुनीन्द्रोपास्यपादाब्जं ज्ञानसिन्धुं नमाम्यहम् ॥ २ ॥
तान्त्रिकाणां गुरुं वन्दे जयतीर्थं मुनीश्वरम् ।
कुमतध्वान्तचण्डांशुं व्यासतीर्थं धियां निधिम् ॥ ३ ॥
निरस्ता दूषणाभासास्सन्न्यायैर्महतां पुरा ।
तानेव श्रावयेऽथापि स्वश्रुतस्य शुशुत्सया ॥ ४ ॥
श्रीमन्मध्वमुखस्यायं श्राव्यते वनमालिना ।
अलङ्कारोऽसतां यस्माद्वथा स्यान्मोदनं सताम् ||५||