वेदः आप्तप्रणीतः प्रमाणवाक्यत्वादिति चेन्न

प्रामाण्यस्वतस्त्ववादः

वेदः आप्तप्रणीतः प्रमाणवाक्यत्वादिति चेन्न । वेदानित्यत्वे प्रामाण्यविवादात् । यदुक्तं वाक्यत्वानुमानं विपक्षे बाधकाभावेन अप्रयोजकमिति । तदसत् । तथा हि संवादेन खलु प्रमाणानां प्रामाण्यमनुमातव्यम् । । संवादश्च साजातीयेन विजातीयेन वा भवति । तत्र वेदस्य न तावत् सजातीय संवादोऽस्ति । सदागमैक विज्ञेयमिति तद्विषयस्य प्रमाणांतर अगोचरत्वाभ्युपगमात् । नाप्यर्थक्रियासामर्थ्यादिकं विजातीयमस्ति । मोक्षादेः प्रत्यक्षाद्यवेद्यत्वात् । तथा च आप्तोक्तत्वेनैव तत्प्रामाण्यमनुमातव्यम् । प्रामाणजन्यत्वे तेनैव तज्जन्यज्ञानप्रामाण्यमपि । ततश्च वेदस्याकर्त्रत्वे प्रामाण्यासिद्धिप्रसंगस्य बाधकस्य विद्यमानत्वात् । कथं अप्रयोजकत्वं वाक्यत्वाद्यनुमानस्य । अत एवाकर्त्रकत्वाद्यनुमानमपि प्रतिकूलतर्क पराहतम् । उपाधेरपि साध्यव्यापकता भंगः सिध्यति । यथोक्तम् । अनुकूलेन तर्केण सनाथे सति साधने । साध्यव्यापकताभङ्गात् पक्षोनोपाधिसंभवः । अत्राह । प्रामाण्यं च स्वत एवेति । ज्ञानजनकातिरिक्तकापेक्षत्वमुत्पत्तौ स्वतस्त्वम् । ग्राहकातिरिक्तग्राहकानपेक्षत्वं ज्ञाप्तौ स्वतस्त्वम् | ज्ञानं साक्षिप्रत्यक्षवेद्यम् । तत्प्रामाण्यमपि । इन्द्रियशब्द-लिंगानां तु यथार्थज्ञानसाधनत्वलक्षणं प्रामाण्यमन्वयव्यतिरेकावसेयम् । तथा च कुत्रापि प्रामाण्यग्रहणे नाप्तोक्तत्वादे उपयोग इति ।

किं च यदि प्रामाण्यं संवादादेव ज्ञायते तत्संवादकप्रामाण्यमपि संवादांतरेण ज्ञायते स्वत एव वा ।

आद्ये तदप्येवमेव इत्यनवस्था स्यात् । द्वितीये परंपराकल्पनं व्यर्थं स्यात् । आद्यप्रामाण्यस्यैव तथात्वंगीकारोपपत्तेः । अतोपरिशेषात् स्वतस्त्वसिद्धिः ||

तथा च प्रयोगः । ज्ञानगतयाथार्त्यंद्ग्राहकेणैव ग्राह्यम् । ग्राहकांतरानुत्पत्तौ सत्यां गृह्यमाणत्वात् । यद्यतोऽन्येनानुपपद्यमानग्रहणं गृह्यते तत्तेनैव ग्राह्यम् । यथा चक्षुषोऽन्येनानुपपद्यमान साक्षात्क्रियमाणं रूपं चक्षुषैव साक्षात्क्रियत इति ।

न च विशेषणासिद्धिः । ग्राहकांतरस्यानवस्थाप्रसंगेन निरस्तत्वात् ।

न च साक्षिवेद्यत्वेऽप्यनवस्थाप्रसङ्ग समान इति वाच्यम् । साक्षी स्वयं प्रकाशः स्वात्मानं खप्रामाण्यं गोचरयतीति अंगीकारात् ।

ज्ञानस्यैव तथा भावोऽभ्युपगम्यतामिति चेन्न । अंतःकरणवृत्तेः जन्यत्वेन (जडत्वेन) स्वयं प्रकाशत्वायोगात् ।

ननु प्रामाण्यं परतो ज्ञायतेऽनभ्यासदशायां सांशियिकत्वादप्रमाण्यवत् । अप्रमाण्यं हि ज्ञानग्राहकातिरिक्तेन विसंवादादिना लिंगेनानुगमकमिति । एतदप्यनवस्थालक्षणप्रतिक्रूलतर्कपराहत अनुकूलतर्कशून्यं चासंशयस्य दोषादेवोपपत्तेः ।

स्वतस्त्वेनाभ्युपगतोपमानप्रामाण्येऽपि संशयदर्शनाच्च । बुद्धिदोषाभावेनानभ्यासदशापन्नज्ञानप्रामाण्यस्यापि निष्कंपस्यैव प्रतीयमानत्वाद्धेतोः असिद्धिः ।

ननु प्रामात्वस्य स्वतस्त्वे कथं तत्र निर्दोषत्वाद्युक्त्यनुसरणम् | उच्यते साक्ष्येव ज्ञानं तत्प्रामाण्य च विषयीकर्तुं क्षमः । कारणांतरोपनिपातजेन मनसापराधेन प्रतिबद्धो ज्ञानमात्रं गृहीत्वा प्रामाण्यग्रहणस्य नेष्टे यथा स्वयमेव गतिसमर्थोऽपि गजो गोक्षुरकादिना प्रतिबद्धो न चलितुं क्षमते । तत्र तु युक्त्यनुसंधानलक्षणपरीक्षावसरः । सा च बुद्धिदोषमात्रं निरस्यति । तस्मिन् निरस्ते साक्षी स्वमहिम्नैव प्रामाण्यं गोचरयति । यथा गोक्षुर का द्यपसरणे गोक्षुरकाद्यपसरणे स्वयमेव गजो गच्छति । ततः प्राचीनो युक्त्युपन्यासः साक्षिणः प्रामाण्यग्रहणप्रतिबंधकबुद्धिदोषनिरासार्थमेव कृतो न तु प्रामाण्यज्ञानार्थमिति ।

एतेनैवैतदपि निरस्तम् । यदाहोदयनः । यदि स्वतो ज्ञायेत तदा कदाचिदपि प्रामाण्यसंशयो न स्थात् । ज्ञानत्वसंशयवदति । प्रामाण्यस्वतस्त्वेऽपि संशयसंभवात् धर्म्यपलब्धावपि व्याघातादिदर्शनेन साक्षिणि प्रतिबुद्धे प्रामाण्यविषये मनसि संशयाद्युपपत्तेः ।

यस्मिन्सत्येव यद्भवति नासति तत्खलु तस्य कारणम् ।सतीश्वेव च युक्तिषु बुद्धिदोषनिरासो भवति नासतीषु । प्रामाण्यंतु अनृतव्याघाताद्यनुसंधानरूपबुद्धिदोषरहितानां पुंसां युक्त्यपेक्षां विनैव सिद्धमित्यनुभवसिद्धम् ।

ननु प्रामाण्यस्य परतः त्स्वे संवादपरंपरयानवस्थास्यादिति यदुक्तं तन्न । कदाचित्प्रामाण्यजिज्ञासायामेव संवादापेक्षणादिति चेत् । मैवम् । निश्शंकप्रवृत्तौ च शब्दवेद्यत्वात् ।

ज्ञाने हि जाते तत्प्रामाण्यानुपलब्धौ कथं संशयो न स्यात् । सति च प्रामाण्यसंशयेर्थसंशयोऽपि कथं न भवेत् । तथा च कथं निःशंकाप्रवृत्तिः स्यात् ।

यद्यपि लोके संशयतोपि प्रवृत्तिर्भवति । तथापि बहुतरशरीरायासवित्तव्ययादिसाध्यपारत्रिकी प्रवृत्तिः तथा भवितुमर्हति । यावच्छंकमेव संवादापेक्षणात् नानवस्थेति चेत् । तत्र वक्तव्यम् । किं च सर्वत्रानुवर्तते क्वचिन्नोत्पद्यत एव वा आद्ये कथमनवस्थाभावः । द्वितीये निरस्तप्रायः ।

अपि च संवादकमप्रामाण्यशंकां निवर्तयति । प्रामाण्यं ज्ञापयति वा । आद्ये प्रामाण्यस्य स्वतस्त्वप्राप्तिः (सिद्धिः) द्वितीये शंकाभावेपि संवादापेक्षा स्यात् । संवादकमुभयत्र प्रवर्तत इति चेन्न कल्पकाभावात् । बाधकवदुभयत्र व्यापारः किं न स्यादितिचेन्न । प्रामाण्यशंकाशून्यस्य प्रामाण्यज्ञाने संवाद निरपेक्षत्वात् । बाधकेन विना निवृत्तप्रामाण्यशंकस्याप्रामाण्यबुध्यनुद्यानुभवात् ।

ज्ञानं स्वरूपेणैव प्रवृत्तिहेतुर्न तु तत् ज्ञानमपेक्ष्यत इति चेत् । तथापि सुखादिवत्सत्यां सामग्रयां वेद्यत्वापरिहारात् । सुखादिकमबुत्सितग्राह्यम् न तु तथा ज्ञानम् । अन्यथा सुषुप्ताद्यभावप्रसंगादिति चेन्न । तथा सति अप्रामाणिकस्य ज्ञानस्यासत्वप्रसंगात् । साक्षिवेद्यत्वपक्षे सुप्ताद्यभावप्रसंगाभावात् । किं च परलोकार्थप्रवृत्तिमतो बुभुत्साप्यवर्जनीयैव । अन्यथा कथं तत्प्रामाण्यनिश्चयाय तज्जातीयत्वादिकमन्विष्यत इति ।।

ज्ञानग्राहकः साक्षी प्रमाणतयैव गृण्हातीत्युत्सर्ग एव । विसंवादलक्षणादपवादादप्रामाण्यं च गृण्हाति । सहकारिणः सहजशक्तिं प्रतिबध्य विपरीतशक्तिं जनयन्तीति हि प्रसिद्धम् । दावदहनदग्धानां वेत्रबीजानां वेत्रांकुरमजनयित्वा कदलीकांडजनकत्वस्य दर्शनात् । विसंवादानुसंधानवतामेवाप्रामाण्यज्ञप्तिर्नतद्रहितानामित्यभिचरितानन्यथासिद्धान्वयव्यतिरेकि संभवादनुमेयमेवाप्रामाण्यम् । न पुनः ज्ञानग्राहकमात्र ग्राह्यम्

नन्वेवं सति विसंवादाभावे सति प्रामाण्यं प्रतीयत इति तदपि परत एवास्यादिति चेन्न । वेत्रवीजस्य स्वांकुरजनने दाहाभावसापेक्षत्वेपि न हि दाहाभावो वेत्रांकुरस्य कारणं भवति । किं तु ततो विपरीत कार्यानुत्पादेसति वेत्रवीजं स्वमहिम्नैवांकुरं करोति अन्यथा उत्सर्गापवादौ क्वापि न स्यातामिति भावः ।

किं चाप्रामाण्याग्रहणकारणाभावस्यापि प्रामाण्यग्रहणोपयोगांगीकारेऽपि नास्माकं हानिः स्वतस्त्वाविरोधात् ॥

इति प्रामाण्यस्वतस्त्ववादः ॥