यदनृतं तदप्रमाणं दृष्टम् ...

अथ वेदप्रामाण्यवादः

अत्राहुः । यदनृतं तदप्रमाणं दृष्टम् । यथोन्मत्तवाक्यम् । अनृतं च पुत्रकामः पुत्रकामेष्ट्या यजेथेत्यादि वेदवाक्यम् । कृतायामपीष्टौ पुत्रजन्मानुपलंभात् ।

युक्तिविरुद्धं चाप्रमाणम् । युक्तिविरुद्धं च मृदब्रवीदित्यादिवाक्यम् । स्वव्याहतं चाप्रमाणं दृष्टम् स्वव्याहतं चोदिते होतव्यमनुदिते। होतव्यमित्यादि ।

पुनरुक्तं चाप्रमाणम् । पुनरुक्तं च वेदवाक्यम् । शाखांतरोक्तस्य शाखांतरेभिधानात् । एकस्यामपि शाखायां वाक्यावृत्तिदर्शनात् । त्रिः प्रथमामन्वाहरुत्तमामिति स्वयमेव विधानाच्च ।

निरर्थकं चाप्रमाणम् । निरर्थकं च शृण्वेत्यादिकम् ।

प्रमाणांतरसिद्धार्थं च न प्रमाणम् । तथाविधं च अग्निर्हिमस्य भेषजमित्यादिवाक्यम् ।

एवं पुराणेप्यनृतत्वादीनि दृष्टव्यानि । तदृष्टांतेनाशेषस्यापि वेदादिभागस्याप्रामाण्यमनुमातव्यम् ।

किं च संवादादिरहितं विप्रलंभकादिवाक्यमप्रमाणम् । तथाविधं च वेदादिकम् । एवमनेकदोषग्रस्तत्वाद्वेदस्य प्रामाण्यं नास्तीति । बौद्धमतम् ।

अत्र प्रष्टव्यम् । किमिदमनृतत्वम् । अर्थशून्यत्वं वा प्रमाणांतरविसंवादो वा ।

नाद्यः । साध्याविशिष्टत्वात् । द्वितीयेऽपि विसंवादः किमापाततः सर्वथा वा । नाद्यः । तस्य सर्वत्रसंभवेनानैकांत्यात् । न द्वितीयः । संदिग्धासिद्धत्वात् ।

किमत्र सर्वथा प्रमाणविसंवादएव उत वैगुण्यादिनिमित्तं फलादर्शनादिकमिति संदेहापरिहारात् ।

व्याघातेनापि द्वयोरप्रामाण्यसाध्यमुतान्यतरस्य । नाद्यः ! अन्यतरप्रामाण्येपि व्याघातसंभवेन संदिग्धकालातीतत्वस्यानैकांतित्वस्य चापातात् । न द्वितीयः । पक्षीकृतस्यैव प्रामाण्यसंभवेन संदिग्धबाधानिस्तारात् ।

किं च व्याघातोप्यापाततः सर्वथा वा । नाद्यः अनैकांत्यात् । द्वितीये संदिग्धासिद्धिः । किमत्र सर्वथा व्याघात एव उताधिकार्यादिभेदेनव्यवस्थेति संदेहानिस्तारात् । पौनरुक्त्यं तु प्रमाणसंप्लवे व्यभिचारादप्रामाण्यस्य साधकं न भवति | व्यर्थत्वादिहेतुना अप्रामाण्यं कथंचित्साधयितुं शक्यते । व्यर्थत्वमप्यत्र नास्ति । किमिदं पुनरुक्तमेवोताधिकविवक्षादिनानुवादादिरूपमिति संदिग्धत्वात् ।

एतेन प्रमाणांतरसिद्धार्थमपि निरस्तम् । नैरर्थक्यमथापाततः सर्वथा वा । नाद्यः । अनैकांत्यात् । न द्वितीयः । संदिग्धत्वात् । किमत्र शक्तितात्पर्यपरिज्ञानादर्था प्रतिपत्तिः उत सर्वथा नैरर्थक्यादिति संदेहात् । संवादराहित्यं च भागासिद्धम् । अग्निर्हिमस्येत्यादेस्संवाददर्शनात् । किमयथार्थत्वादेव संवादोत्र नास्ति । उतैतस्य तदेकप्रमाणत्वादित्यन्यथासिद्धिसंदेहाच्च न प्रमाणमिति ॥

अस्त्वेवं हेतूनां संदिग्धासिद्धत्वादिना वेदाप्रामाण्यानिश्चयः । तथापि तत्संदेहोस्त्येव । वैगुण्यादिनिमित्तत्वादेरनिश्चितत्वादिति । मैवम् । करणानां अप्रामाण्यं खल्वबोधकत्वं विपरीतबोधकत्वं वा ।

तत्र शब्दस्याबोधकत्वं द्वेधा । पदाभिमतानां निरभिधेयत्वेन । साभिधेयत्वेप्यन्वयाभावेन चेति ॥ विपरीतबोधकत्वं विपरीतान्वयेन । तदिदं स्वतंत्रत्रक्तृपुरुषदोषाधीनम् । न तु स्वभाव इत्यप्रामाण्यस्य परतस्त्वव्युत्पादानसमये वक्ष्यते ।

पुरुषोह्यज्ञानाद्विपरीतज्ञानात्प्रमादात् । अपटुकरणत्वाद्वानिरभिधेयान् निरन्वयान्वा शब्दान्प्रयुङ्क्ते । प्रमादात् करणापटुत्वाद् विपरीतज्ञानात् उक्तहेतोः विप्रलंभकत्वाद्वा विपरीतान्वयान् एतदभावश्च द्वेधा संभवति । अपौरुषेयत्वेन वा वक्तुरातत्वेन वा विवक्षितार्थज्ञानादेराप्तिशब्दार्थत्वात् ॥

तत्र वेदस्यापौरुषेयत्वेन पुरुदोषनिबंधन दोषाभावात् । कारणाभावे च कार्यस्य शङ्कितुमशक्यत्वात् अप्रामाण्यो निश्चीयते । वेदो नाप्रमाणं अप्रामाण्यकारणदोषशून्यत्वात् । प्रत्यक्षादिवत् । शब्ददोषश्च पुरुषदोषाधीनः । तदन्वयव्यतिरेकानुविधायित्वात् । यद्यदन्वयव्यतिरेकानुविधायि तत्तदधीनं यथा पटस्तंत्यधीनः । वेदो न पुरुषदोषनिबन्धनदोषवान् पुरुषाप्रणीतत्वात् । यद्येनाप्रणीतं वाक्यं न तद्दोषप्रयुक्तदोषवदिति । यथा यज्ञदत्ताप्रणीतं वाक्यं न यज्ञदोषप्रयुक्तदोषवदिति ।

विपक्षेत्वकारणकार्योत्पत्तिप्रसंग: । वेदोऽप्रमाणं आप्ताप्रणीतवाक्यत्वात् उन्मत्तवाक्यवदिति चेन्न । वाक्यत्वावच्छिन्ने साध्येऽनाप्तप्रणीतत्वस्य केवले वा अप्रामाण्यकारणदोषवत्वस्योपाधित्वात् । अनाप्तप्रणीतत्वात् उपाधिः । पुराणानां प्रामाण्यं तु इतिहासः पुराणः पंचमो वेदानां वेद इति वेदेन वेदसमानतया गृहीतत्वात् । अपौरुषेयवाक्यमस्तीति कथमुपपन्न वाक्यत्व, पौरुषेयत्वयोः परस्परपरिहारेण त्युपलंभात् न च तत्साधतमपि युक्तं संभावितस्यैवासाधनत्वादिति चेन्न । अपौरुषेयवाक्यानंगीकारे धर्माद्यसिद्धिप्रसंगात्सर्वैः समयिभिः धर्मादिनिश्चयार्थं किमप्यपौरुषेयं वाक्यं अंगीकार्यम् । धर्मादिः प्रमाणांतरावेद्यत्वात् । ततश्च कथं असंभावितमित्यभिप्रायः । लोकायत पक्ष प्रतिक्षेपः । चार्वाकशास्त्रं नोपादेयं विषयाद्यभावात् काकदंतपरीक्षकग्रंथवत् ।

तथा हि । न तावल्लोकायतशास्त्रस्य ऐंद्रियको विषय: प्रत्यक्षत एव तत्सिद्धौ शास्त्रानपेक्षणात् । फलमपि न दृष्टमर्थादिकं तस्यान्यतो लभ्यत्वात् । अतः संबंधोऽपि नास्ति । अतो धर्मादिकं अतींद्रियविषयत्वेन स्वर्गापवर्गादिकं च फलत्वे नांगीकार्यम् । यद्येतं नांगीक्रियते तर्हि तत्समयस्याशास्त्रत्वं स्यात् । वक्तृश्रोत्रोरभिमतं अनन्यसाध्यं फलमधिकृत्य तद्धेतुभूतं प्रमाणांतराप्राप्तमर्थं प्रमाणांतराप्राप्तमर्थं प्रतिपादयतां वाक्यानां समूहो हि शास्त्रमित्युच्यते । एवं चाशास्त्रत्वात्तौ तस्याशास्त्रित्वं प्रसज्जे||

ननु लोकायतशास्त्रस्य धर्माद्यभावो वियः । तत्प्रतिपादनेन धर्मादिसद्भावभ्रांतिनिवृत्तिः । तत्फलं च लोकस्य निरंकुशः कामोपभोगः दुःखनिवृत्तिश्च ।

शास्त्रप्रणेतुश्च लोकोपकारः फलम् । उपकृताश्च लोका अनुरागिणो भवन्ति जनानुरागप्रभवश्च संपद इति । एतदप्यसत् । धर्माधर्माभावज्ञाने परस्परहिंसादिनाकारस्यैव प्राप्तेः । किं च चार्वाकस्य धर्माद्यभावसंभावना उताऽभावनिश्चयः । आद्येन तत्र प्रवर्तेत नापि ततो निवर्तेत द्वितीये कुतो निश्चय इति वाच्यम् । घटाद्यभाव निश्चय इति प्रत्यक्षेणैवधर्माद्यभाव निश्चय इति चेन्न । अयोग्यतया चक्षुषा रसस्यैव प्रत्यक्षेण सतोप्यग्रहणोपपत्तेः ।

सत्यां तु वादि विप्रतिपत्तौ सति चायोग्यतया क्वचिदनुपलंभे प्रत्यक्षानुपलब्धिः संशयमेव संपादयति । किमनुपलंभान्नास्त्येव धर्मादिकं उतवाद्यंतरोक्तरीत्या चक्षुषानुपलभ्यमानोऽपि रसो रसनेनैवायोग्यतया प्रत्यक्षेणानुपलभ्यमानमपि प्रमाणांतरादस्तीति ।

तथा चैतत्संशयनिरासार्थमप्यागमादिकं प्रमाणमंगीकार्यम् तथा सति तेनैव सुकरं धर्मादिसाधनम् ।

किं चागमादिप्रामाण्याभावे लोकव्यवहारोछेदः प्रसज्येत ।

ननु संभावनामात्रेण तत्सिद्धिः संवादेन च प्रामाण्याभिमान इति चेत् । एवं तर्ह्यागमादिकं ज्ञानमुत्पादयति । तच्च संवादीत्यंगीकृतम् । किमुतोधिकं प्रामाण्यं नाम, यन्नांगीक्रियते । तदेवं चार्वाकेणापि धर्मादिकमंगीकार्यमिति स्थितम् ।

इति चार्वाकनिरासः ।

धर्मादिकं बुद्धऋषभेश्वरवचनात्सिध्यति । तच्च तेषां सर्वज्ञादुपपन्नमत्येतदप्ययुक्तम् ।

तथा हि । न तात्तदीये सार्वज्ञे अस्माकं प्रत्यक्षमस्ति । अस्माकमपि तत्प्रसंगात् । सर्वं हि ज्ञात्वा तदीय ज्ञानस्य तद्विषयत्वं प्रत्यक्षेण ज्ञातव्यम् । न चास्माकं सार्वज्ञमस्ति । तथात्वे बौद्धादिकल्पनावैयर्थ्यात् ।

नाप्यनुमानम् । यद्धि येन धर्मेण व्याप्तमन्यतोपलब्धं तत्तस्यैव गमकं भवति । न च सर्वज्ञत्वं अन्यत्र दृष्टम् येनानुमानस्य व्याप्तिर्गृह्यते ।

नाप्यागमः । अपौरुषेयस्य तस्यानंगीकारात् । पौरुषेयोऽपि किं सर्वज्ञप्रणीतो उतअन्य प्रणीतः । नांत्यः ।

अनाश्वासात् । अपि किं तेनैव प्रणीतः उत सर्वज्ञांतरप्रणीतः । नाद्यः । इतरेतराश्रयप्रसंगात् । यस्य सार्वज्ञसिद्धौ तत्प्रणीतागमस्य प्रामाण्यसिद्धिः । तेन च तस्य सार्वज्ञसिद्धिरिति । अन्यथास्मद्वाक्येनैवास्माकमपि तत्सिध्येत् । न द्वितीयः । पुरुषांतरे सर्वज्ञस्यादृष्टत्वात् । सर्वज्ञांतरवाक्येन तत्कल्पनेऽनवस्थितेः ।

नाप्युपमानम् । तद्धिसइवायमित्येतत् सदृशोसाविति वोत्पद्येत । न चान्यत्र सार्वज्ञप्रमितं येनोपमानस्योदयस्यात् ।

नाप्यर्थापत्तिः । अनुपपत्यभावात् ! बुद्धस्य धर्मीतिदेशनं महाजनपरिगृहीतत्वं वा अनुपद्यमानं सार्वज्ञं गमयतीति चेत् । तर्हि जिनस्याऽपि तत्स्यात् । न चास्तीति वाच्यम् । विप्रतिपत्यभावप्रसंगात् । नाप्यभावः । तस्य भावविषयतायाः क्वाप्यदृष्टत्वात्

आर्हतास्वाहुः । कश्चिदात्मा सकलपदार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबंधत्वात् । यदेवं तदेवं यथा अपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षात्कारीति । तदसत् । पक्षस्याप्यप्रसिद्धविशेषणत्वात् तद्गतस्वभावत्वं -च किं विकक्षितस्यैवात्मन: अङ्गीक्रियते । किं सर्वेषां वा । नाद्यः । अन्यत्रादृष्टत्वेनात्मत्वात्तत्रापि तदभावसाधनसौलभ्यात् । न द्वितीयः अस्मदादौ तत्स्वभावस्य प्रमाणादृष्टत्वात् । व्याप्तिज्ञानं सर्वविषयं सर्वात्मना स्वभावो दृश्यत इति चेन्न । परोक्षसामान्यज्ञानस्वभावत्वेन अपरोक्षविशेषज्ञानसाधनस्यातिप्रसंगित्वात् दृष्टान्तस्य साधनविकलत्वाच्च । न हि लोचनविज्ञानं रसादि सकल पदार्थ साक्षात्कारस्वभाववत् । येनारूप्यन्यत्रप्रतिबन्धकल्पनं प्रतिबन्धासंभवाच्च । तत्पक्षेऽप्यनुपपन्नं इति साधनविकलः ॥

किंचान्यत्रादृष्टस्यावरणप्रक्षस्य विवक्षितेप्यात्मनि कुतः सिद्धिः । विमतमावरणं, व्रियमाणे सत्यपि स्वयं नाशवत्, आवरणत्वात् मेघवादिति चेन्न । दुर्गमप्रदेशगततिमिरादौ व्यभिचारात् । कमनीयकान्तास्पर्शादावपि रागाद्यनुदयात् प्रक्षीणप्रतिबन्धकत्वसिद्धिरिति चेन्न । तदनिश्चयात् ।

बाह्यविक्रियाभावेन तन्निश्चय इति चेत् जगद्वशीकरणार्थं स्थैर्येण स्थगनसंभवात् । दृष्टान्तस्य साध्यविकलत्वं च । लोचनविज्ञानस्य साक्षात्कारवत्वात् । विमतः आत्मा सर्वज्ञो न भवति आत्मत्वात् देवदत्तवत्।।

इति आर्हतमतनिरासः

ननु धर्मादिकं कस्यचित् प्रत्यक्षं प्रमेयत्वात् घटवत् इति सार्वज्ञे मानमिति चेन्न । प्रमेयत्वेन विप्रतिपन्नधर्मांतरसाधनापातात् । किमिदं प्रमेयत्वं द्रव्यं गुणों वा उत आहोस्वित् सामान्यं विशेषो वा । यद्वा समवायः अभावो वा नाद्यः । निर्गुणत्वात् अस्वतंत्रत्वाच्च । न द्वितीय-तृतीयौ । गुणादावपि वृत्तेः । न चतुर्थ: । केवलान्वयि धर्मत्वात् । उपाधित्वेsपि क्वचित् अंतर्भावस्यापेक्षितत्वात् । नापि विशेषः । अनित्येपिवृत्तेः । न षष्ठः । असंबंधत्वावात् । न सप्तमः । प्रतियोगिनिरपेक्षत्वात् ।

प्रमेयस्य भावः प्रमेयत्वं न तु ततोतिरिक्त मितिचेत् ! भावाभाविनो: भेदपुनरक्तानतिवृतेः । भावस्य भवितुः पृथगभावे तच्छब्दयोः पर्यायतापातात् । एवं परत्वादि गुणानां च दत्तजलांलिता स्यात् । प्रमातद्विषयतत्संबंधेषु अंतर्भावोऽस्तीति चेन्न । प्रमाप्रमेययोः संबंधस्यैव दुर्निरूपत्वात् । नह्यात्मगुणस्यान्येन ममवायः संयोगो । वा संभवति । विषयविषयिभाव एवेति चेन्न । तस्यापि अंतर्भाव्यत्वात् । अंतर्भाव्यस्य चोक्तदोषलंघनाजंघालत्वात् ॥

आर्हतानामप्येवमेवानुमानं धर्मादिकं कस्यचित् प्रत्यक्षं वस्तुत्वादिति । अत्रोत्तरं धर्मादेः प्रत्यक्षमात्रं साध्यते उतैक पुरुषप्रत्यक्षत्वम् । आद्ये अर्थांतरम् । कस्यचित् केनचित् प्रत्यक्षीकृतत्वेनापि प्रतिज्ञातार्थस्य सिद्धेः । न द्वितीयः दृष्टांतेऽदुष्टत्वात् । न च पक्षातिरिक्तस्य सर्वस्यैकपुरुषप्रत्यक्षत्वं सम्मतम् । दृष्टांतभूतानां घटानामानन्त्येनैकेन परोक्षीकर्तुमशक्यत्वात् ।

यथा एको घटः एकस्य प्रत्यक्षः एवमत्रापि इति चेत् । तर्हि दृष्टांतानुकूल्येन धर्मः कस्यचित् प्रत्यक्षोsधर्मस्य परस्येति प्रतिज्ञार्थं स्यात् । तथा च पुनः अर्थांतरत्वम् ।

धर्मं पश्यत् अधर्मं कथं न पश्यतीति चेत् किमयं संभावना अथानुमानम् । नाद्यः असाधकत्वात् । न द्वितीयः व्याप्त्यभावात् ।

योऽक्यमेकं करोति सोऽपरमपीतिव्याप्तिरिनि चेन्न । कंटकाम् भक्षयितरि उष्ट्रे कदलीफलभक्षणस्यादृष्टत्वात् । धर्मादिज्ञानेनैव प्रकृतोपयोगात् किं कीटकसंख्यापरिज्ञानेनेति चेन्न । धर्मादिसाध्यसाधनाद्यपरिज्ञाने धर्मः दिज्ञानस्यानुपयुक्तत्वादिति ।

ननु क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति क्षित्यादेः कर्तरि सिद्धेतस्य सार्वज्ञमपि सिद्धमेव । उपादानादि साक्षात्कारवत एव कर्तृत्वात् । सर्वस्यापि क्षित्याद्युपादानादौ प्रविष्टत्वादिति चेन्न । घटादीनां कर्तरि कुलालादौ तदुपादानादि विषय साक्षात्कारस्यादृष्टत्वात् ।

नहि कुलालो घटं फलपरिमाणेयत्ता विशेषवंतं तं वा कालं देशं अदृष्टं तदाश्रयं वा साक्षात्करोति । किं च घटादौ सपक्षेऽदृष्टस्यैककर्तृकत्वस्य क्षित्यादौ कुतः सिद्धिः । यतः तस्य सार्वज्ञं स्यात् । कल्पनालाघवादिति चेन्न । अतिबहुतरकार्यजातस्यानेककर्तृताया एवोचितत्वात् ।

किंचित् घटादौ शरीरजन्यत्वस्योपाधेः सत्वात् । शरीरजन्यत्वेन सत्प्रतिपक्षात्वाच्च ।

एवं सार्वज्ञा सिद्धौ तस्य अविप्रलंभकत्वमपि अप्रामाणिकं कल्प्यमेव । सार्वज्ञेऽपि कुतो विप्रलंभाभावः । रागाद्यभावदिति चेन्न । तद्रहितेषु अपि बुद्धादिष्वीश्वरावतारेषु दर्शनात् । वीतरागाणामपि ज्ञानांकुरसंरक्षणार्थं छला दिना प्रतिप्रतारणस्य सर्वैरङ्गीकृतत्वाच्च ।

एवं पटुकरणत्वादिकं कल्प्यमेव । किं चास्तु कश्चित सर्वज्ञो विप्रलंभकश्च । तथापि धर्मादि प्रतिपादकस्य वाक्यविशेषस्य तत्कर्तृत्वं कुतः सिद्धम् । नह्येवंविधः संसारमग्नान् जंतून् अवलोक्यन्नानुपदिश्य स्थातुमर्हतीति चेन्न । एवं भूतानामपि सिद्धानां उदासीनानां अंगीकृतत्वात् ।

एवं कस्यचित्सर्वज्ञकल्पनं तस्याविप्रलंभकत्वकल्पनं धर्मादिविषयवाक्यस्य तत्कृतत्वकल्पनं चेति कल्पनागौरवप्रसंगेन न पौरुषेयेण वाक्येन धर्मादि निश्चयः ॥

ननु अपौरुषेयवाक्यांगीकारेऽपि कल्पनागौरवं सममेवेति चेन्न । पौरुषेयवाक्येन धर्मादिनिश्चयक्षे यथा बहुतरकल्पनापक्षे यथा बहुतरकल्पनात्र तथास्ति अपरुषेयस्यैव कल्प्यत्वात् । एवं सर्वसमयिभिरपौरुषेयवाक्यांगीकार्यत्वात् । वेदवाक्यस्यापौरुषेयत्वं नासंभावितमिति ।

वेदोऽपौरुषेयोप्रमितकर्तृकत्वात् गगनवत् । ननु यथा गिरिदरीवर्तिनस्तृणांकुरस्याप्रमितस्य कर्तुः सद्भावः शंक्यते ।

एवमप्रमितस्यापि वेदस्य सद्भावः शक्यत इति युक्क्तम् । तथा हि । अप्रमितमपि वेदस्य कर्तारं शंकमानः किं धर्मादिकं अंगीकरोति न वा । नेति पक्षे न समयीस्यात् । आद्ये तनिश्चयः केनेति ब्रूमः । न तावत् अनुमानेन निरस्तत्वात् । बुद्धवाक्येन वापौरुषेयं वाक्यांतरकल्पनतया वा उभयथापि कल्पनागौरवं स्यात् । अतो वेदस्य कर्ता न शंकनीयः ।

कल्पनागौरवप्रसंगतया कर्तरि वेदस्याकर्तृकत्वं सिद्धमेव ।

धर्मीद्यंगीकारवता वेदस्याप्रमितोऽपि कर्ताथा शंक्यते तर्हिः धर्मादिनिश्चयार्थं प्रमाणांतराकांक्षायां कल्पनागौरवं स्यादित्यनुमानस्य अनुकूलतर्कः ।

न्वसिद्धं वेदस्याप्रमिकतृत्वं वेदः सकर्त्रक: वाक्यत्वात् लौकिकवाक्यवदित्यनुमानेन वेदकर्तृ प्रमितत्वादिति चेन्न । वाक्यत्वादौ समानेपि अस्य वेदत्वादकतृकत्वं भवतु जन्यस्य तदभावात्सकतृकत्वमस्त्वित्याशंकायां बाधकाभावेन वाक्यत्वस्य अप्रयोजकत्वात् ॥

वेदत्वं नाम अनुपलभ्यमानप्रत्यक्षादिप्रमाणविप्रलंभादिमूलत्वम् । एतच्च उदयनेनापि अंगीकृतम् । अनुपलभ्यमानमूलत्वे सति महाजनपरिगृहीतवाक्यत्वं वेदत्वमिति । आद्यविशेषणेन प्रमाणमूलस्य द्वितीयेन विप्रलंभादि मूलत्वस्य च व्यावर्तित्वात् ।

नन्वेतद्वेदलक्षण गूढकर्तृके व्यभिचरति इति चेन्न । तस्य चाध्येतृपरंपराभावेन यस्मिन् विच्छेदः तदीयप्रत्यक्षादिमूलत्वस्यानुमानं शंक्यत्वात् ।

विमतं वाक्यं एतत्प्रत्यक्षादिमूलं अस्मिन् विच्छिन्नपरंपरत्वात् । यद्यस्मिन् विच्छिन्नपरं वाक्यं तत्र प्रत्यक्षादि-मूलं यथा संप्रतिपन्नमिति ।

परंपरा नाम अध्येतॄणामध्यापकानां च पूर्वतनमेवेदमधीमहे । अध्यापयामश्चेति प्रतिपत्तिः । न तु अध्ययनाविच्छेदः । अतो ऋषिभिः इष्टाशाखासु विच्छिन्नपरंपरात्वं न कल्पनीयम् । मुनिभिर्दृष्टानामपिप्राक् न मे वेदमिति प्रतिपत्तिविषयत्वात् । अतो नानैकांत्यम् ।

गूढकर्तापि पूर्वतनमेवेदमधीयत इति यद्यनृतं वदति तर्हि कथं निश्चय इति चेन्न । वेदद्रष्टृणां विंशलक्षणतोऽनून इत्युक्तलक्षणवत्वात् । गूढकर्तरि एतल्लक्षणाभावे तद्वचनस्य अनृतत्वं निश्चीयते । अथवा वेदत्वाभावे वाक्यत्वानुमानस्योपाधिः । एवं चाप्रयोजकान्यथासिद्धौ व्याप्यत्वासिद्धौ वाक्यत्वादिति हेतुरिति ।

यदि वेदस्य सकर्तृत्वमंगीक्रियते तर्हि कर्तुः सर्वज्ञादिकल्पनागौरवं स्यादिति । तर्कपराहतं च वाक्यत्वानुमानम् । ते वेदाः सर्वज्ञप्रणीता । वेदत्वात् व्यतिरेकेण लौकिकवाक्यवदित्यपास्तम् । वेदत्वस्य पामरप्रणीतत्वादौ साम्यात् । विपक्षे बाधकाभावेनाप्रयोजकत्वाच्च । किं च वेदस्य सर्वज्ञप्रणीतत्वनिश्चये सति प्रामाण्यनिश्चयः तन्निश्चयेच  सर्वज्ञत्वनिश्चयः । ततश्च विशेषणप्रसिध्याऽनुमानप्रवृत्तौ वेदप्रामण्यनिश्चय इति चक्रकप्रसंग: ॥

अपौरुषेयत्ववादः समाप्तः ॥