विवक्षितार्थतत्वज्ञानं...

॥ हरिः ॐ ॥ विवक्षितार्थतत्वज्ञानं करणपाटवं विवक्षा चेति त्रयं वक्त्रानुकूल्यं नाम । तत्वज्ञानयोग्यता वक्तृप्रीतिविषयता चेति द्वयं श्रोतुः । श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य ।। एतच्छास्त्रं प्रमाणं अनुकूलवक्त्रादिमत्त्वात् भारतादिवत् । आप्तवाक्यत्वं उपाधिरिति चेत् । न । प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्याप्तवाक्यतेति साध्याव्यापकत्वान्नायमुपाधिः । स्यात्, साधनावच्छिन्ने पोरुषेयवाक्यत्वावच्छिन्ने वा साध्ये उपाधित्वोपपत्तेरिति चेत् । न अभिप्रायानवगमात् । नहि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साधयितुमुद्यताः । किंतु विमतमाप्तवाक्यं अनुकूलवक्त्रादिमत्वात् संप्रतिपन्नत्वत् । विमतं मीमांसाशास्त्रं प्रमाणं आप्तवाक्यत्वात् संप्रतिपन्नवत् । ननु कोयमाप्तो नाम । यथादृष्टार्थवादीति चेन्न भ्रान्तिदृष्टार्थवादिन्यपि प्रसंगात् । प्रमाणेन यथा दृष्टार्थवादीति चेन्न प्रमादादन्यथाकथकेऽपि प्रसंगात् । प्रमाणेन यथा दृष्टं तथा वादीति चेन्न एकदेशे तथावादित्वेऽप्यंशांतरेऽन्यथाभूतवादिन्यपि प्रसंगात् । यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न प्रायेणातथाभूतत्वादेव पुरुषाणां तदव्याप्तेः । न हि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते । यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न । अज्ञातसंदिग्धानुवाद वाक्यप्रयोक्तुः अनाप्तत्व प्रसंगात् । निर्दोषः आप्तः इति चेन्न आप्तानामपि कदाचिद्रागादिदोसंभवात् । यत्र विषये निर्दोषस्तत्राप्तः इति चेत् । यत्तच्छब्दयोर्विशेषविषयत्वेन असाधारण्यादव्याप्तेरिति । मैवम् विवक्षितार्थतत्त्वज्ञानं अविप्रलिप्सा विवक्षा करणपाटवं चेति आप्ति तद्वानाप्तः इत्यंगीकारात् । आप्तत्वाभिमतेऽपि कदाचिदिदं नास्तीति चेन्माभूत्तदासावनाप्त इत्यंगीकारात् । कालादिभेदेनाविरोधात् । एवं सति यो यत्रैवं भूतः सतत्राप्त इत्युक्तं स्यादिति चेत् अस्तु को दोषः । यत्तच्छब्दार्थयोरनुगमः इति चेत् । कोयमननुगमो नाम । किं सार्वत्रिकव्यवहारानौपयिकत्वं उतैकस्यानेकवृत्तित्वाभावः । यो यस्य सुतः स तदीयं धनमाहरतीत्यादौ सार्वत्रिकव्यवहार हेतुतोपलंभात् । यथा चाननुगतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां प्रतिपादिता । एतेन निर्दोषः प्रमितस्यैव वक्तेति लक्षणद्वयमपि समाहितं । अतो वक्त्राद्यानुकूल्यवत्तया आप्तवाक्यतया सुस्थः प्रतिबन्धः । अप्तिमूलवाक्यं आप्तवाक्यं इति विवक्षा | अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते । तत्राबोधकं वक्तुरपटुकरणतया भवति । विपरीतयोधकं च विपरीतज्ञानादिना यद्यद्व्यापकस्य व्यापकं तत्तस्याव्यापकमिति न संभवति । ननु साध्यसाधनयोरा प्त्यैकदेशानुप्रवेशात् साध्यावैशिष्ट्यं चेति चेन्न तथापि विशिष्टभेदेनादोषत्वान् । यो धूमवान् असावग्निमानिति व्याप्यव्यापकभावोऽपि न स्यात् विशेषांशभ्योभयत्रानुप्रवेशात् । कृतकत्वानित्यत्वयोः सत्वानुप्रवेशेऽपि परैव्याप्यव्यापकभावस्यांगीकृतत्वाच्च । यदा तु निर्दोषः प्रमितस्यैव वक्ता आप्तः इत्याश्रितं तदा साध्याविशिष्टतायाः शंकैव नास्ति ॥

जैमिनिः । तत्प्रामाण्यं बादरायणस्यानपेक्षत्वात् मीमांसाशास्त्रस्य ||

विजातीयसंवादो युक्तिसंवादः । सजातीयसंवादस्तु श्रुतिसंवादः । श्रुत्यर्थनिर्णायकग्रंथस्यैव मीमांसा निर्णायकत्वात् । मीमांसाया युक्त्यनुसंधानात्मकत्वाच्च । यच्श्रुतिसंवादि तत्प्रमाणं यथा मन्वादिवाक्यं । श्रुतिसंवादिचेदं शास्त्रं तदर्थविचारपरत्वात् । विसंवादे तदनुपपत्तेः । यच्च युक्तिसंवादि तत्प्रमाणं । यथा धूमवंतं पर्वतमुद्दिश्य पर्वतोयमग्निमानित्युक्तं वाक्यम् । युक्तिसंवादि चेदं मीमांसारूपत्वात् ॥

शारीरकमीमांसेति प्रसिद्धिः अस्याः । शारीरकः परमात्मैव । यथोक्तम् । शारीरौ तावुभौ ज्ञेयौ जीवश्च परमस्तथेति ।तस्य पूर्णगुणत्वमीमांसैव शारीरकमीमांसा ॥

ननु प्रमाणकत्वानेकत्वयोः प्रमेयतादवस्थ्यात् कथमेतत् । इत्थम् । नहि प्रमाणमात्रं निःशंकप्रवृत्तावुपयुज्यते । किं नाम प्रमाणतया प्रमितमेव । तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशंकां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम् । ततः प्रमाणमेव स्वकार्यातिशयवशेन अतिशयवदुच्यते । एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः ।।

संक्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः ।

बहुवार स्मृचेस्तस्य फलबाहुल्यकारणात् ॥ इति ।

ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।

कंटं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ।। इति ।

शास्त्रे प्रवृत्तौ प्रयोजनादि निश्चयो, निश्चितप्रयोजनादौ शास्त्रे, प्रवृत्तिरित्यन्योन्याश्रयः । इति चेत् । उच्यते । त्रिविधा हि पुंसां चित्तवृत्तिः । ज्ञानमिच्छा प्रयत्नश्चेति । तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरित्युच्यते । सा च न स्वरससिद्धा । न हि कश्चित् क्षुत्प्रहाणादिकमनुसंधाय भोक्तुमिच्छति प्रयते वा । न च तथा अनुभवः । फलेच्छा वा प्रयोजनानुसंधाने प्रवर्तते । निष्प्रयोजनस्योपेक्षणीयस्यापि अनुभूयमानत्वात् । न च स्वर्गादिफलाकांक्षारहितेन यागादिकं तत्साधनतया नानुभूयते । नापि सुखं प्रयोजनांतररहितमिति नेष्यते । किंतु फलगोचराद्यनुभवश्च स्वरससिद्धः । तस्माद्यो यत्र प्रवर्तनीयः स तत्प्रयोजनादिकं दर्शयित्वेवैति सार्थकं प्रयोजनाद्यभिधानम् ॥ प्रथमसूत्रस्य न शास्त्रहिर्भावः । अध्ययनविध्यादिवत् अस्याप्यारंभसिद्धेर्नानवस्थ्यादि दोष: ||

विषयशून्यत्वाद्धि प्रत्यक्ष सिद्धस्य न जिज्ञासा क्रियते । प्रयोजनविकलत्वात्खलु संदिग्धमपि वायसदशनादिकं न हि जिज्ञास्यते | संबंधवैधुर्याद्धि सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते । अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्ति: ।।

जीस्य चाहमिति स्वप्रकाशतया वा स्वप्रकाशज्ञानाश्रयतया वा सिद्धत्वेन न जिज्ञासाविषयत्वं । अविरुद्धतत्वेर्थे कारणोपपत्तितस्तत्वज्ञानार्थमूहस्तर्कः प्रमाकरणस्य प्रमाणस्योपपत्तिरनुग्रहस्तत्करणेनेत्यर्थः । प्रतिबंन्धनिवृत्तौ सत्यामेव निर्णयः इति प्रतिबंधनिरासहेतोपि विचारस्योपचारेण उपपन्नमीश्वरविषयत्वम् ।।

एतेन एतदपि निरस्तं । ईश्वरस्य वेदप्रमाणकत्वे तत एव निश्चितत्वात् किं मीमांसयेति । युक्तिवाक्याभासजनितविप्रतिपत्ति प्रतिबंधस्योक्तत्वात् ॥

तत्र तावद्ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति षष्ठीसमासः । षष्ठीसमासेऽपि केचिच्छेषे ष्ठीति प्रतिपन्नाः केचित्कर्मणीति ।अत्र चरम एवास्मत्पक्षः । कृत्यानां कर्मणि स्मरणात् । जिज्ञासा खलु कर्मापेक्षा, विना कर्मणा न तु ज्ञातुं शक्या ॥ ननु संबंधिनं विनेति कर्मणः प्राधान्यात्तदेव वक्तव्यम् । संबंधिसामान्योक्तार्थत्कमपि लभ्यत इति चेत् न । साक्षात्तत्प्रतीतपरित्यागेन अर्थलभ्यस्वीकारस्य वैग्यथ्यात् । एवं सति लक्षणादि जिज्ञासापि प्रतिज्ञाता स्यादिति चेत् न । तस्या विनाप्यभिधानेन लाभात् । न हि लक्षणादिजिज्ञासामन्तरेण ब्रह्मजिज्ञासा अस्ति । अन्यथा अनेक विषयत्वेन शास्त्रभेदप्रसंगः । निर्विषयताशंकापनोदार्थं प्रयुक्तं पदं कर्मभिधाय्येव युक्तम् । तद्विजिज्ञासस्वेत्यादिश्रुत्यर्थगतं चैवं सति सूत्रं स्यात् ।

ननु च प्रतिपदविधाना पष्ठी न समस्यत इति कर्मणि पष्ठी समासः प्रतिषिध्यत इति चेत् न । कृद्योग लक्षणा षष्ठी समस्यत इति प्रतिप्रसवात् । ब्रह्मज्ञानोद्देशेन जिज्ञासाविधाने ब्रह्मणो न प्राधान्यभंगः ।

ननु अथातो धर्मजिज्ञासेति सकलवेदार्थविचारस्य उदितत्वात्ब्रह्मज्ञानस्य चोदनालक्षणेन स्वरूपित्वात् पृथङ्न जिज्ञास्यं ब्रह्मेति चेन्न । सर्ववेदानामीश्वरैकनिष्ठत्वेन सर्ववेदस्य अत्रैव जिज्ञास्यत्वात् । धर्मजिज्ञासाशास्त्रं तु वेदैकदेशामुख्यार्थ धर्मविचारस्य प्रवृत्तम् ||

साधनं च द्विविधम् | सिद्धमसिद्धं च । तत्रासिद्धं उत्पाद्यं फलकामेन । यथा यागादि । सिद्धं तु सव्यापारीकरणीयम् ।यथा कुठारादि । सिद्धं च साधनं भगवान् । इति मुमुक्षुणा स व्यापारीकरणीयः । व्यापारश्च प्रसन्नतैव । प्रसादो नाम इच्छाविशेषः ।।

नमात्रावयवार्थेन जिज्ञासाशब्दोऽर्थवान् । इच्छाया: स्वातंत्र्याविषयत्वेन विधातुमशक्यत्वात् । अत एव इष्यमाणजानोपलक्षणाप्ययुक्ता । तस्माज्ज्ञानेच्छानीतो विचारो जिज्ञासा पदेन लक्ष्यते ।

लाक्षणिक प्रयोगे प्रयोजनं च विचारस्य ज्ञानद्वारैव मोक्षसाधनत्वज्ञानम् । अन्यथा योग्यताविरहेणान्वयाभावप्रसंगात् ।

यदि च जिज्ञासाशब्दो मीमांसाशब्दवद्विचार एवोपसंख्यायते तदाप्यन्वयव्यतिरेकाभ्यां विचारस्य ज्ञानसाधनता जास्यते । एवं च विचारो यतो ज्ञानसाधनं ज्ञानं च मोक्षसाधनं, अतोऽसौ कर्तव्य इति ।

अद्वैतिनामविद्याधीन जीवब्रह्मविभागवत्, गुणत्वाधीनद्रव्यत्ववत् अनादेरपि ईश्वराधीनत्वोपपत्तेः बन्धस्य ।

न्वनादेः प्रकृतिबधस्य कथंनिवृत्तिरिति चेत् । अत्राह कश्चित् । न सादित्वमनादित्वं वा विनाशाविनाशयोर्निमित्तं। किन्तु विरोधिसंपातावपातावेव । किं च लोके तावदनादिप्रागभावो निवर्तते । सुगतानां तत्वपरिभावनाप्रकर्षेण अनादिवासनानां निवृत्तिरिष्टा । नैय्यायिकानां अनादिमिथ्याप्रवाहः परमाणुश्यामता च निवर्तते । सांख्यानामप्यविवेको निवर्तते विवेकेन । मीमांसकानां इदानींतन धर्मतत्त्वज्ञानप्रागभावोऽनादिनिवर्तते । अनादिभावरूपस्य न निवृत्तिरितिचेन्न अनिर्वचनीयत्वादज्ञानस्य । अनादिर्न निवर्तत इति सामान्यव्याप्तिः । ज्ञानेन अज्ञाननिवृत्तिरिति विशेव्याप्तिः अतः सैव बलवती ।

ननु स्वोपादानगतोत्तरत्वस्थाविनाशः | तत्कथमनादेनिरूपादानस्य विनाशः । न । स्वाश्रयगतोत्तरावस्थेत्येतावत्वात् । अन्यथा परमाणुशामत्वादीनां अनिवृत्तिप्रसंगात् । अभाववैलक्षण्यादात्मवदज्ञानस्यानिवृत्तिरिति चेन्न सद्वैलक्षण्यात् प्रागभावयन्निवृत्तिः किं न स्यात् । कस्तर्हि निर्णयः । ज्ञानाज्ञान-कृतो विशेषान्वयः इत्युक्तं । तथा हि 'विमतो बंधो न निवर्तते अनादित्वादाकाशवत्' इत्यत्र किं निवर्तकाभाव उपाधिरनेनोच्यते, किंवा निवर्तकसद्भावेन सत्प्रतिपक्षता । नाद्यः साधनव्यापकत्वात् न द्वितीयः हेतोरसिद्धेः । नह्यज्ञानस्यानादितया निवृत्यनुपपत्तिं ब्रुवाणः तन्निवर्तकमभ्युपैति । किंत्वनादित्वेनैव तदभावमप्यनुमिनोति । यदि प्रागभावे व्यभिचारोद्भावनं, तद्भावत्वेन हेतुविशेणाद्युक्तम् । यदपि सुगतानामित्यादि तदत्यन्तमसंगतम् । न हि वासनानामनादित्वं वैनाशिका अभ्युपयंति । किन्त्वनादिवेनैव तदभावमप्यनुमिनोति । न च तद्व्यतिरिक्तं संतानं येन तत्र व्यभिचार उद्भाव्येत । न च नैय्यायिकादयो मिथ्याज्ञानस्य अनादितां तद्व्यतिरिक्तं वा प्रवाहमंगीकुर्वते । परमाणुश्यामताऽपि सादिरेव नहि परमाणुपाकस्येदं प्रथमतासिद्धांतः ।

यदप्यज्ञानस्यानिर्वचनीयत्वमुक्तं, तत्रानिर्वचनीयत्वं सदसद्विलक्षणं चेत् किमनेन प्रकृतानुपयुक्तेन । अज्ञानं निवर्तते सदसद्विलक्षणत्वात् इति प्रतिपक्षोयमिति चेन्न । परस्यासिद्धेः अव्याप्तेश्च || भावाभावविलक्षणत्वमनिर्वचनीयत्वं । अतो भावत्वाभावाद्विशेषणासिद्धिरिति चेन्न । खोक्तिविरोधात् ॥ खयमेवनादिभावरूपं यद्विज्ञानेन विधीयत इत्यज्ञानलक्षणमभिधाय भावरूपाज्ञानसाधनाय प्रमाणान्युपन्यस्तानि । अभाववैलक्षण्यमात्रं तत्र विवक्षितमिति चेन्न । तस्यैव हेतुविशेषणत्वोपपत्तेः । नन्वत्रोक्तं सदसद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यादिति । सत्यमुक्तम् । दुरुक्तं तत् । प्रागभावस्यापि सत्वांगीकारात् ॥

अथ सदसद्विलक्षणत्वं नाम भावविलक्षणत्वं विवक्षितं । तदाऽभाववैलक्षण्यांगीकार विरोधेनासिद्धप्रसंग: । अत्यंताभावे व्यभिचारश्च । तस्यापि निवृत्तिसाधने तन्निवृत्तावेत्र व्यभिचारः किं चात्मनि भावत्वं नास्तीति तत्रानैकान्त्यं दुष्परिहरम् । तथाप्यारोपितं भावत्वं तत्रास्तीति चेत् । तदविद्यायां समानमित्यसिद्धिः ।

यदपि व्याप्तेः सामान्यविशेषभावकथनं तस्योपयोगो वक्तव्यः । तेन बलाबलनिर्णय इति चेत् । स किं सामान्यविशे- भावमात्रेण उताव्यभिचारादि संपत्तौ सत्यां । आद्ये धूमवानग्निमानिति सामान्यव्याप्तेः पर्वतो निरग्निकः इति विशेषव्याप्तिर्बलवती प्रसज्जेत । द्वितीये किं सामान्यविशेषभावेन व्यभिचारादिकमेव व्युत्पाद्यतां; किंवा अनेन प्रबलत्वेन दुर्बलत्वेन च ॥ विशेषव्यात्या सामान्यव्याप्तिर्बाध्यत इति चेत् । बाध्यत्वं नाम किं व्याप्तेः संकोचनं उत सामान्यव्याप्तेव्यभिचारप्रदर्शनम् ; अथो-पाध्युद्भावनम् । नाद्यः यदनादि तदज्ञानातिरिक्तं न निवर्तत इति संकोचनीयं, वा यदनादित्वरहितं तदेव ज्ञाननिवर्त्यं नत्वनादि इति संकोच्यमेव, इति नियामकाभावात् ॥ न द्वितीयः । व्यभिचारस्थलस्यादर्शितत्वात् ॥

व्याप्तिवलेन ज्ञानस्य ज्ञाननिवृत्तित्वे सिद्धू अनादित्वस्य अत्रैव व्यभिचारः इति चेत् ; तर्हि एतदेवोच्यताम् ; किं सामान्यविशेषभावेन । किं च विमतमज्ञानं ज्ञानेन निवर्तते ज्ञानत्वात् संप्रतिपन्नवदित्यत्र अज्ञानत्वस्य पक्षे व्यभिचारः किं न स्यात् । अनादित्वानुमानेन अज्ञानस्य अनिवर्त्यसिद्धेः । अस्तु तर्हि स प्रतिपक्ष एव इति चेत् न तुल्यबलत्वात् ।

तथा हि शुक्तिकाऽज्ञानवदित्यत्र किं ज्ञानाभावो विवक्षितः, भावरूपमज्ञानं वा । आधे दृष्टांतस्य साधनवैकल्यम् । न हि शब्दमामान्यमात्रेण दृष्टांतदार्ष्ट्यांतिकभावोऽस्ति । तथात्वे गोत्वेन गवादीनामपि शृंगित्वसाधनप्रसंगात् । द्वितीये किं तत्सादि उत अनादि । अधे कथमयं विशेष स्यात् । द्वितीये तदपि पक्षतुल्यम् ॥ न तृतीयः; अज्ञानेतरस्योपाधेः समव्याप्त्यभावात् । पक्षेतरत्वाच्च ॥

यदपि निरूपादानस्य अविनाशानुपपत्तिं आशंक्य उक्तम्, 'स्वाश्रयगतोत्तरावस्थाविनाश' इति तदनुपपन्नम् । अनुपादानभूताश्रयोत्तरावस्था चेदाश्रितविनाशः स्यात्, तदा भूतलादपसारिते घटे घटविनाशः स्यात् । परमाणुश्यामताया इव निरूपादानस्यापि नाशोऽस्ति इति चेत् न तस्यापि सोपादानत्वात् ॥

ननु अनादेः प्रकृतिबंधस्य कथं निवृत्तिः इति चेत् अस्य मायावादिनोक्त परिहारखंडनत्वात् तत्र स्वसिद्धान्तेन परिहारोऽभिधीयते । अत्रोच्यते । यत्तावदविधाय अनादित्वेन अनिवृत्तिः इति सः अयं प्रसंगः स्वतंत्रानुमानं वा । नाद्यः अविद्यानादित्वस्य श्रुतियुक्तिसिद्धत्वेन विपर्ययापर्यवसानात् । न द्वितीयः विश्वमायानिवृत्तेर्हि 'मायामेतां तरंति ते' इत्यादिश्रुतिस्मृतिविरुद्धत्वात् । एतेन निवर्तकाभावस्य उपाधित्त्वं तद्विपर्ययस्य प्रतिपक्षत्वं च समाहितम् ।।

ननु अवयवतत्संयोगविनाशाभ्यां द्रव्यनाशो दृष्टः । तत्कथमत्र विनाश इति चेत् । कुतोयमुभयाभ्युपगमः । एकैकपरिहारेणापि विनाशदर्शनादिति चेत् । तर्हि सादेवमस्तु । अनादेस्तृतीयोऽपि प्रकारोऽनुसर्तव्यः । प्रमितत्वादेव विनाशस्य अनादेः कीदृशो विनाश:, इति चेत् । स्वरूप प्रध्वंस एव ||स्वोपादानगतोत्तरावस्था ।

सोपादानमात्रत्वापत्तिः इत्यादि कार्यंविषयम्

ननु अविद्याच्चेन्निवर्तेत तर्हि एकमुक्तौ सर्वमुक्तिः स्यात् । न स्यात् । प्रतिजीवमविद्यांगीकारात् । अत्र विशेषः 'स्वगुणाच्छादिकात्वेका' इत्याद्यागमादनुसंधेयः ||

परमेश्वरस्वरूपं (शक्त्या) एव जीवस्य आवरणं मुख्यम् | अविद्या तु निमित्तमात्रम् । ततः अविद्यायां निवृत्तायां अपि न अशेषानन्दाभिव्यक्ति, यावत् ईश्वर एव स्वीयां बन्धकशक्तिम् न ततो व्यावर्तयति । अत एव आनन्दह्रासवृद्धी ।

सत्यस्यापि बंधस्य ज्ञाननिवृत्तौ का अनुपपत्तिः । तथात्वे आत्मनोऽपि निवृत्तिप्रसंग: इति चेत्; ; व्याप्त्यभावात् विपक्षे बाधकाभावाच्च । विरोधि सद्भाव एव विवृत्तौ प्रयोजकः, इति कुतः आत्मनिवृत्तिः ।

ननु ज्ञानेन सत्यंनिवर्तमानं किं विषयगतं निवर्तते, उत आश्रयगतं, अथोभयगतं । नाद्यः; चित्रपटे नीलविशिष्टद्रव्यज्ञान जाते स्वविषयस्थ तत्समवेतरसादेर्वा विरोधिपीतिमादिगुणस्य वा अनिवृतेः । न द्वितीयः पटादिज्ञानेनान्यगतधर्माद्यनिवृत्तेः । न तृतीयःः आत्मनः शरीरविषयज्ञाने शरीरात्मसंबंधानिवृत्तेः । इति ।

मैवं यस्य निवृत्तिः श्रूयते तन्निवर्तत इत्युक्तोत्तरत्वात् । यदि ज्ञानं आश्रयगतं निवर्तयेत्तदा धर्मादिकमपि निवर्तयेत् इत्यत्र व्याप्त्यभावात् विपक्षे बाधकाभावाच्च । घटादिज्ञानं धर्मद्यविरोधि, आत्मयाथात्म्यज्ञानं बंधविरोधीति वैषम्याच्च । आत्मयाथात्म्यज्ञानस्यैव आपादनविषयतायां इष्टापादनम् । चित्रावयविनि नीलरूपविशिष्टद्रव्यज्ञानं तु मिथ्याज्ञानमेव । नापि चित्रे पीतिमगुणोऽस्ति || एकमेव चित्रं नाम रूपं आश्रयव्याप्त्यवृत्तीति पदार्थविदः ।

स्तु वा ज्ञानं अज्ञानस्य निवर्तकमपि तथापि न बंधमिध्यात्वसिद्धिः । किन्तु बंधस्य अज्ञानतत्कार्ययोः अन्यतरत्वं एव सिध्यति । बंधस्य मिथ्यात्वं तु निराकरिष्यते । किंतु त्यस्यापि विषस्य गरुडध्यानेन निवृत्तिदर्शः स्यात् ॥ न बन्धमिथ्यात्वं कल्पनीयं ||

विषं न सत्यमिति चेत् । तथा सति नीलविशिष्टद्रव्यादेरपि तव असत्त्वेन तं निवृत्यापादानस्य अनुपपत्तिप्रसंगात् ।। सत्यं तदपि मम मिथ्यापरांगीकारणापादनं इति चेत् । तर्हि तदेव न ज्ञानान्निवृत्तम् इति न मिथ्याभूतस्यापि ज्ञानान्निवृत्तिः ॥ यद्विरोधिमिथ्याभूतं; तज्ज्ञाननिवर्तं इति चेत्; ; विशेषवैयर्थ्यात् | अविरोधादेव आत्मनो निवृत्तिसंभवात् ॥ मिथ्यात्वं अंगीकृत्यापि विरोधोंऽगीकार्यः । ततो वरं स एव प्रयोजक इत्यंगीकारो; लाघवात् ।

ज्ञानविरोधित्वं मिथ्याभूतस्यैवेति चेत् । दर्शनात् इति चेत् । तर्हि आगमेन सत्यस्यापि ज्ञानविरोधित्वं श्रयमाणं कथं निवार्यते ॥ ध्यानं मानसी क्रिया न ज्ञानं इति चेत्-यदि क्रियापरिस्पंदः तर्हि अतींद्रिय इत्यपरोक्षावभासविरोधः, परिस्पंदस्य रूपरहितत्वेन रूपावभासविरोधश्च । यदि च मानसी सृष्टिरितिमतं; अनुमतमेतत् ; "श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसावलोकनं ध्यानं" इत्यंगीकारात् ॥ अतींद्रियोपादानकस्यापि द्रव्यस्य ऐंद्रियकत्वं त्र्यणुकादेरिव उपपद्यते । नीरूपत्वाद्वायोः, रूपवतस्तेजसो जन्म वेदान्तिनां प्रसिद्धमेव । एवं ध्यायतेः चिंतार्थताऽपि स्मृतिसिद्धा सिद्धा । अत एव क्रियामानसवदिति सूत्रविरोधोऽपि परिहृतः ।

ज्ञानस्य अनुभुत्सित ग्राह्यत्वात्, ध्यानस्य च विधिजन्य-पुरुषेच्छा प्रयत्नसापेक्षत्वात् ; कथमिंद ज्ञानं; इति चेत्, न । विधेः साध्यसाधनभावमात्रज्ञापनेन चरितार्थत्वात्, इच्छाप्रयत्नयोश्च संस्कारोद्बोधेन कृतार्थत्वात् । मानसवस्त्ववलोकने व्यापाराभावात् । मनोविक्षेपनिरासे वा तदुपयोगः ।

किं च सेतुदर्शनात्पापादिनिवृत्तिः सुप्रसिद्धा । मध्ये अदृष्टकल्पनायां तु न प्रमाणमस्ति । अन्यथा कृतेप्यदृष्टकल्पना प्रसंगात् ।

अदृष्टसाध्यत्वे मोक्षस्य अनित्यताप्रसक्तिः इति चेत् ज्ञानजन्यत्वेऽपि साम्यात् । "प्रजयापशुभिर्य एवं वेद" इत्यादौ दर्शनात् || ज्ञानजन्यत्वेऽपि प्रध्वंसतया नानित्यतेति चेत् । समानमेतददृष्टमाध्येऽपीति ।

अपि च बंधस्य विध्वंसलक्षणत्वात् बंधमिथ्यात्वं नैव मुक्तिरपेक्षते । किन्नाम सत्यत्वमेव । नहि मिथ्याभूतस्य शशविषाणादेः ध्वंसोऽस्ति इति ।

ननु यथा, "मिथ्याभूतात् शशविषाणादेः व्यावृत्तः ध्वंसः सत्ये पर्यवस्यति" इति भवता उच्यते; तथा "सत्यात् चिदात्मनः अपि व्यावृतः मिथ्याभूते पर्यवस्यति" इति मया अपि वक्तुं शक्यत एव || सत्यम् । आपाततस्तथा । तथापि अर्थापत्तिः संदेहास्पंदितकुंठिता एव || अनिर्वाच्यनिरासे निश्चयोऽपि भविष्यति ।

बंधबाध एव मुक्तिरिति चेत् । मैव श्रुतिसूत्रे वदतः । तरति "शोकम्" इत्यादौ विपरीताभिधानात् ।विमुक्तश्च विमुच्यत इति श्रुतार्थापत्तिस्तु भाप्यकृतैवान्यत्रोपपादिता ।

किंतु ब्रह्मज्ञानं जीवगतबन्धनिवर्तकं उत जीवज्ञानम् । नाद्य अन्यज्ञानेनान्यवियाज्ञानस्य निवृत्यदर्शनात् । न द्वितीयः ब्रह्मजिज्ञासेति तत्ज्ञानस्यैव सूत्रे अभिहितत्वात् ।

किं चात्र विचारविषयो ब्रह्म वा जीवो वा । आद्ये जीवस्य संदिग्धतासिद्धये बंधमिथ्यात्ववर्णनासंभवात् । द्वितीये न बंधमिध्यात्वापेक्षा मुक्तेः ।

नन्वपेक्षायाः पुरुषधर्मत्वात् कथमेत् । इत्थम् । प्रतीयमानोऽर्थः अर्थांतरविषयां पुरुषस्य अपेक्षां उपजनयन् सापेक्षः इत्युपचर्यते ।

यद्वा प्रमितस्य अनुपपद्यमानस्य अर्थस्य उपपादका शक्तिरपेक्षा अत्र उच्यते । एषा खलु अर्थापत्तिसामग्री यत् 'आक्षेपकस्य प्रमितत्वं, अनुपपद्यमानत्वं च, क्षेप्यस्यापि उपपादकत्वं प्रमाणाविरुद्धत्वं च' । अत एव 'अप्रमितत्वं, अनुपपत्यभावः, अन्यथाप्युपपत्तिः ......प्रमाणविरुद्धार्थत्वं च इति अर्थापत्तिदूषणानि ॥ अत एव बंधमिथ्यात्वाभावे अनुपद्यमाना मुक्तिः तत्कल्पयति इति ।

न । बधमिथ्यात्वस्य 'अहं कर्ता भोक्ता सुखी दुःखी' इत्यादिप्रत्यक्षविरुद्धत्वेन अर्थापत्यविषयत्वत् ।

ननु प्रत्यक्षं बंधस्वरूपमात्रं गोचरति ।। ननु तन्मिथ्यात्वाभावं अतोर्थापत्तेः कथं प्रत्यक्षविरोधः । मैवं । प्रत्यक्षं खलु बंधंगोचरयदस्तीति नास्तीति वा गोचरयेत् । उभयोदासीनस्य ज्ञानस्यादर्शनात् । आद्येऽस्तित्वं मिथ्यार्थाभावश्चैत्यनर्थांतरमिति कथं न प्रत्यक्षविरोधः । द्वितीयेऽनुभवविरोधः । तद्व्युत्पादन-वैय्यर्थ्यप्रसंगश्च । यदि दुःखादेरात्मातिरिक्तस्य मिथ्यात्वं श्रुत्यादिबलेन स्यात् । तर्हि श्रुतेरति मिथ्यात्वं प्रसज्येतात्मातिरिक्तत्वाविशेषात् । अन्यथा स्वस्मिन्नेव अस्य प्रामाण्यं प्रतिहतमिति न किंचिदर्थं प्रतिपादयेत् ॥ यदि चेदं वाक्यं मिथ्या स्यात् तथापि न दुःखादेः मिथ्यात्वं प्रतिपादयेत् मिथ्याभूतस्य वन्ध्यासुतवचसः साधकत्वादर्शनात् । अतो बन्धमिथ्यात्वासिद्धिः । क्रियाज्ञाने प्रतिकारकांतराप्रयोज्यत्वादिलक्षणं कर्तृत्वम् ।

ननु भवद्भिरपि शरीरेन्द्रियान्तःकरणविषयाणां दुःखादीनां च आत्मन्यन्यथाध्यासांगीकारात् कथं निरासः । स्वरूपसतामेव तादात्म्यस्वातन्त्र्येण तत्सम्बंधित्वाभ्यामारोपः इत्यङ्गीकारात् । तत एव भोक्तृत्वादिव्यवहारोपपत्तिः । न चारोपितत्वेन मिथ्यात्वसिद्धिः । आत्मनोपि अंतः-करणादिषु परेणात्माध्यासः । यथोक्तम् । तच्च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणांतःकरणादिषु अध्यस्यतीति । चेतनस्याचेतने स्वरूपाध्यासाभावात् । संसृष्टतयाध्यासतन्मात्रेणैव सकललौकिकव्यवहारोपपत्तेः न मिथ्यात्वं इति चेत् । सममचेतनस्यापि ।

ननु अहंप्रत्ययस्य आत्मविषयत्वे सुषुप्तावपि अहमुल्लेखः स्यात् इति चेत् । अस्ति सुषुप्तावपि अहं उल्लेखः । कुत एतदवगतमिति चेत् । अहं कर्तेत्युल्लेख विषयो नाहंकारः । अहं ब्रह्मास्मीत्यादावपि तथात्वप्रसंगात् । निरवद्यस्य ब्रह्मणोपि अहमुल्लेखदर्शनात् । अहं सर्वस्यप्रभवः इत्यादौ तस्यापि मायावशत्वकल्पने मामेव ये प्रपद्यन्ते मायामेतां तरंति ते इतिस्मृतिविरोधः ।

अहं शब्दो द्विविधः । मकारादोऽव्ययरूपादकारतोस्मच्छब्दजश्च । तत्राद्यः प्रकृतिपरिणामवाची द्वितीयस्त्वात्मवाची । नेहनानेत्यादिवाक्यैः किं निश्चिताद्वैतो बोध्यते उत तद्विपरीतः । नाद्यः, वैयर्थ्यात् । द्वितीयस्तु सत्यस्यैव साधकत्वमिति मन्यमानो यदीदं वाक्यं सकलमिथ्यात्वं प्रतिपादयेत्तदा सकलान्तरत्वात् स्वयं मिथ्या स्यात् । यथा शब्दो अनित्य इति शब्दः । यदि चैतद्वाक्यं मिथ्या स्यात्, न कस्याप्यर्थस्य साधकं स्यात् । इत्यनिष्टप्रसंगं पश्यन् कथं त्वदभ्युपगममात्रेण स्वतर्कस्य विरुद्धतां प्रतिपद्यत इति ।

ननु वाक्यस्य साधकत्वं नाम पदार्थ संसर्गप्रमितिजनकत्वं । तत्क्वचित्पददोषेण विहन्यते, क्वचित्संगत्यग्रहणात्, क्वापि तद्विस्मरणात् । कदाचिदाकांक्षादिविरहात् कुत्रचिद्विपरीतप्रतिपादनेन । तदत्रापि नेहनानेत्यादिवाक्ये साधकत्वाभावमापादयता पददोषान्यतममेवोपादेयं । किं मिथ्यात्वेन । तत्किमविद्यमानस्य अपि वाक्यस्य निर्दोषपदावयवत्वादिकं विद्यत इति वक्तुमुद्यतो भवान् । एवं वदता भवता कस्मिंञ्चिद्विप्रतिपन्नर्थे वंध्यासुतवचनं प्रमाणयन्तं प्रतिवादिनं प्रति नूनं पददोषादिकमेवोपपाद्यसाधकत्वं इष्यते । स्वरूपस्यैवाभावेननासाधकत्वे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया । नहि शब्दो विद्यमानत्वेनैव चाक्षुषस्यानित्यत्वसाधकत्वाभावेसिद्धे व्याप्तिचिंता क्रियत इति चेत् । समं प्रकृतेऽपि ।

ननु माभूत्प्रतिवाद्यपेक्षया तर्कस्य विरुद्धता वाद्यपेक्षया तु भविष्यति । मैवं । श्रुते: मिथ्यात्वप्रतिपादकत्वे मिथ्याभूतस्यैव साधकत्वप्रतीत्या तद्विरोधेन तर्कों निरसनीयः । तन्निरासे च श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वमित्यन्योन्याश्रयत्वमनुत्तीर्णः कथमसावपि तर्कस्याविरुद्धतां प्रतिपद्येत ॥

अथ मतं । प्रत्यक्षादिकस्य साधकत्वं तावदनुभवसिद्धं । तन्मिथ्यात्वं च श्रुतिनिरुक्तिभिश्चावगम्यते । मिथ्याभूतस्य साधकमित्येषोऽर्थः कुतः सिद्ध इति, मावोचः प्रमाणं । द्वयसमाहारात्मकप्रमाणादेवोपपत्तेः । यथैकज्ञानजनित संस्कारसहकृतस्येतरप्रमाणस्यैव सुरभिश्चन्दनमितिवद्विशिष्टप्रत्ययजनकत्वसंभवात् ।

अथवोभयसंधातुरात्मनो विद्यमानत्वाद् दर्शनस्पर्शनाभ्यामेकार्थग्रहणवद्विशिष्टप्रतिपत्तिर्भविष्यति । अत्र वक्तव्यं यन्मिथ्याभूतस्यासाधकत्वं साधयितुं प्रमाणमुपन्यस्तं । तन्मिथ्या सद्वा । नाद्यः । भिथ्याभूतस्य साधकत्वानंगीकारात् । द्वितीयं सत्प्रमाणं परमात्मरूपमन्यद्वा । द्ये स्वतः साधकत्वं स्वेनैवांगीकृतं स्यात् । द्वितीये द्वैतभंगः ।

किंच प्रत्यक्षसिद्धस्य मिथ्यात्वं कथं प्रतिपादयेत् प्रत्यक्षविरोधादिति चेत् । न । श्रुतेरप्रामाण्ये बाधकाभावात् प्रत्यक्षप्रामाण्यम् ; तस्मिंश्च सति प्रत्यक्षविरुद्धत्वेन श्रुतेरप्रामाण्यमितीतरेतराश्रयत्वम् । हन्त तत्राप्येतदनुसंधेयम् । श्रुतिप्रामाण्ये तद्विरोधेन प्रत्यक्षाप्रामाण्यम् । ततश्च बाधकाभावेन श्रुतिप्रामाण्यसिद्धिरिति श्रुतेः । प्रबलत्वान्नैवमिति चेत न ततोपि प्रत्यक्षस्यैव प्राबल्यात् ।

ननु मिथ्याभूतोपि स्वप्नोर्थः । शुभाशुभयोरेकारोपितो वर्णोर्थस्य प्रतिबिम्बस्य बिंबस्य स्फटिकलौहित्यं च उपादानसन्निधानस्य वर्णदैर्घ्यादिकं वा अर्थभेदस्य सवितृ-सुषिरप्रभृतिभिश्च अनिष्टस्य साधकमुपलब्धमिति, यन्मिथ्या न तत्साधकं, यत्साधकं न तन्मिथ्येति तर्कः प्रशिथिल मूल इति चेत्, उच्यते । स्वप्नास्तावत् ज्ञानार्थरूपः परमार्थतः, रेखापि वर्णे पदमिव, अर्थ संकेतिता । तं स्मारयतीति न किंचिदत्र मिथ्या अस्ति । अत एव रेस्वामुपलभ्य वर्णम् उच्चारयति । प्रतिबिम्बस्य तु सत्यता परेणाप्यंगीकृता । विच्छेदस्यापि सत्यतां, उपपादयिष्यामः । अतो स्फटिकलोहित्यमपि निश्चित्य, एवं दीर्घादयोऽपि ध्वनिरिव वर्णेश्वपि स्वाभाविका एव । अन्यथा स्वरेष्वीवव्यंजनेष्वपि ध्वानोपधानवशेन दीर्घादिप्रतिभासप्रसंगात् । न तथाविधध्वनिव्यंगं व्यंजनमिति चेन्न । तथात्वे वर्णेष्वेव विशेषो अंगीकार्यः स्यात् । स एव दैर्घ्यादिपदाभिधेयो भविष्यति ।सवितृ सुशिरप्रभृति ज्ञानमेव, अरिष्टसूचकं । ब्रह्मणि नानात्वनिषेधपरं नेहनानेत्यादिवाक्यं । ननु नानेति नानाभूतः प्रपञ्चो अभिधीयते नतु भेदः तथात्वे नानात्वमिति स्यात् ।

मैव । मुक्तोपसृप्यव्यपदेशादित्यादाविव भावप्रधान निर्देशोपपत्तेः । भवितृप्राधान्येऽपि ब्रह्मणि नानाभूतावयवगुणकर्मादि निषेधे नानात्वमेव निषिद्धं भवति । सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः, इति न्यायात् उभयनिषेधे गौरवात् । विशेषणस्य प्रथमप्राप्तत्वात् । विशेषणनिषेधे तात्पर्याभावे, तदुपादानवैयर्थ्यात् । न जीर्णमलवद्वासः स्नातकः स्यादित्यादौ दर्शनाच्च ।

अत एवोक्तं विशेष्यम् नाभिधागच्छेत् क्षीशक्तिर्विशेषणे इति । यत्क्वचिद्विशिष्टविधिनिषेधांगीकरणं तदगतिकतयैव । कथं ब्रह्मण्यप्राप्तस्य नानात्वस्य निषेध इति चेन्न आभासप्राप्तत्वात् । एकमेवाद्वितीयमित्यादौ सजातीय विजातीय-स्वगतनानात्वनिषेधं व्याकुर्वता भवतापि समाधातव्यमेतत् ।

ननु यथा भवतो मिथ्याभूतस्य साधकत्वं न संमतं तथा मम सत्यस्य साधकत्वं न संमतम् । चैतन्यव्यतिरिक्तस्य सत्यतानभ्युपगमात् । चैतन्यस्य च क्रियाविशेषशून्यस्य साधकत्वायोगात् ।

एवं च सति मिथ्याभूतस्य साधकत्वं मया नाभ्युपगम्यते मिथ्यात्वं तु त्वयैवनोपेयते । ततश्च प्रथममेव मतिकर्दमे कथारंभणमशक्यमापद्येत । अतोऽविचार्येव तावत्प्रमाणसदसत्वं विचार आरब्धव्य इति । मैवं । त्वया ज्ञानसिद्धावहमज्ञमामहमन्यं च न जानामीति साक्षिप्रत्यक्षस्य प्रमाणीकृतत्वात् । आश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यमित्याद्युत्तरवाक्येन प्रत्यक्षस्य साक्षित्वावगमात् । तस्य च सत्वात्सतः साधकत्वं वाप्यंगीकृतम् । अस्माभिरपि दुःखादिबंधसत्यतायां साक्षिप्रत्यक्षमेवोपन्यस्तम् । अज्ञानवशादेव साक्षिणः साधकत्वं मया अंगीक्रीयते न स्वतः इति चेन्न । इतरेतराश्रयप्रसंगात् । न खलु साक्ष्यवभासादन्याऽज्ञानसत्ता तवाऽस्ति । ततोऽज्ञाने सति साक्षिणः साधकत्व सिद्धिस्तस्यांचाज्ञानसिद्धिरिति कथं नेतरेतराश्रयत्वं । द्वयोरनादित्वानैवमिति चेत् । तर्ह्यज्ञानवशादितिरिक्तं वचः । न हि सर्वथा यद्यन्नापेक्षते तत्तदधीनमिति युज्यते । अपेक्षायां तु परस्पराश्रयानुत्तारः । अंगीकृत्य चेदं साक्षिणः साधकत्वमुदितम् । वस्तुतस्तु निर्विशेषस्य न साधकत्वं । यत्साधकं करणं वा फलं वा नित्यं वा ज्ञानं तत्सर्वं जात्यादिविशेषरहितं नोपलभ्यते । यच्च निर्विशेषं शशविषाणादि नतत्साधकं इत्यस्मा भिरंगीकृतत्वात् ।

ननु प्रमाणं वस्तुसिद्धावुपयुज्यते । तत्सविशेषत्वं तु किमर्थं इति चेत्सत्यं । निर्विशेषस्य प्रामाण्यमेव नोपपद्यते इति तदर्थमेव विशेषानुसरणम् । न हि साधकतमत्वादिविशेषाभावे प्रामाण्यं शक्यनिर्वाहं । साक्षिण्यारोपिततयैवाज्ञानं सिद्धयति । न ततो अतिरिक्तं साधकत्वं तस्येति चेत् । न तर्हि सुतरां साक्षिणाऽज्ञानसिद्धिः । न हि तमसः प्रकाशाश्रयत्वं तर्हि तत्प्रकाशेन सिद्धयति न हि तत्साधनमप्युपपन्नं । निर्विशेषस्य साधकत्वानभ्युपगमादस्माभिः अन्यस्य त्वयाऽनभ्युपगमात् ।

किंच अज्ञानं आरोपितमपि साक्षिणो विषयो न वा । आद्ये विषयत्वं साक्षिण्यापतितम् । द्वितीये साक्षित्वमेवानुपपन्नम् । साक्षाद्रष्टरि संज्ञामिति निर्वचनासंभवात् । अतद्विषयेण तत्सिद्धिरलौकिकी । अहं च अविशेषस्य साक्षिणः साधकत्वं विप्रतिपत्तौ साधयिष्यामीति । स प्रष्टव्यः । किं सविशेषेण प्रमाणेन एतत्साध्यते उत अविशेषेणेति । नाद्यः तस्य तत्र मिथ्यात्वात् । परेण च उक्तन्यायेन तस्य साधकत्वाभ्युपगमात् । न द्वितीयः निर्विशेषस्य प्रामाण्यासंमतेः ।

एवं मिथ्याभूतस्य साधकत्वं निर्विशेषेण प्रमाणेन साध्यते उत सविशेषेणेति विकल्प्य निरासः कर्तव्यः । यदि चैतन्यातिरिक्तं मिथ्या स्यात् तदा कथाव्यवहारङ्गभूतं प्रमाणादिकमपि मिथ्या स्यात् । तथापि मायावादिनो निरुपायस्य कथकता न स्यात् । यस्मादस्ति परस्य वादित्वाभिमानः तस्मात् सत्यं प्रमाणादिकमिति ।

यदत्रैव वक्तव्यं प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन-तत्कस्य हेतोः । किं वाग्ग्व्यवहारमात्र प्रमाणादि सत्ताऽभ्युपगमव्याप्तं उत सोधनबाधनक्षमो व्यवहारः । न प्रथमः तदनभ्युपगच्छतोऽपि चार्वाक माध्यमिकादेः वाग्विस्ताराणां प्रतीयमानत्वेन व्यभिचारात् । तस्यैवानिष्पत्तौ भवतस्तनिरासप्रयासानुपपत्तेः । स्यापि पक्षत्वे बाधः ॥ द्वितीये बाधतादवस्थ्यम् । मम सत्तानभ्युपगमस्य अनुभवसिद्धत्वात् ॥ साधनबाधनक्षमव्यवहारत्वादिहेतुश्च तवासिद्धसिद्धत्वेवा सिद्धं मम समीहितम् ।

व्यतिरेके च सद्वचनाभासलक्षणयोगित्वमुपाधिः । प्रयोगस्त्वीदृशः । विमतो व्याहरो न साधनत्वासधनत्वक्षमः ; प्रमाणादिसत्ताभ्युपगमपूर्वकतारहितत्वात् । यथा चार्वाकादिव्यवहारः अस्य व्यतिरेकः । ( यः प्रमाणादिसत्ताम्युपगमपूर्वको न ) व्यवहारस्य साधनक्षमत्वाभावे सद्वचनाभासलक्षणयोगित्वं प्रयोजकम् । नतु सत्तानभ्युपगमः । यतोऽभ्युपगम्यापि प्रमाणादिसत्तां प्रवर्तिताः मतांतरानुसारिभिः व्यवहाराः अभ्युपगतप्रमाणादित्त्वैः

मतांतरानुसारिभिः अपरैः साधनाद्यक्षमा इति कथ्यते ।

ननु यदि प्रमाणादीनि न सन्ति ; तदा व्यवहार एव धर्मी कथं साध्येत । दूषणादि व्यवस्था वा कथं स्यात् । सर्वविधिनिषेधादीनां प्रमाणाधीनत्वात् ।

मैम् । नब्रूमो वयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथा आरभ्या इति । किं नाम संति न संति प्राणादीनीत्यस्यां चिंतायां उदासीनैः कथाः प्रवर्त्यतामिति ।

किंच कीदृशीं मर्यादां अवलम्ब्य प्रवृत्तायां कथायां इदं दूषणमुक्तं भवता । किं प्रमाणादीनां सत्त्वमभ्युपगम्य उभाभ्यां वादिप्रतिवादिभ्यां प्रवर्तितायां ; उत असत्वमभ्युपेत्य, अथ एकेन सत्त्वमपरेणचासत्त्वमङ्गीकृत्य । नाद्यः । अभ्युपगतप्रमाणादिसत्वंप्रत्येतादृक्पर्यनुयोगानवकाशात् । न द्वितीयः स्वस्याप्यापत्ते: । न तृतीयः तथैव कथांतर प्रसक्तेः । तस्मात्प्रमाणादिसत्वाभ्युपगमौदासीन्येन व्यवहारनियमसमयं बध्वा प्रवर्तितायां कथायां भवता इदं दूषणं उत्तमिति वाच्यम् । तथा च व्याघातः ।

न द्वितीयः स्यादप्येयं यदि कथकप्रवर्तनीयवाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्तामनभ्युपगमेनिवर्तेत । नत्वेवम् संभवति । तथा सति तत्सत्तानभ्युपगन्तॄणां वाग्वव्यहारस्वरूपमेव न निष्पद्येत । हेतोरभावात् ।

अथ मन्यसे कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीनां सत्वं । सच्चाच्चाभ्युपगमो यत्सत्तदभ्युपगम्यत इति स्थितेरिति । मैवम् । कयापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतुत्वात् । प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः ।

कथातः पूर्वं तु तत्वावधारणं वा परपराजयं वाभिसषद्भ्यां कथकाभ्यां यावताविना तदलभिलषितं न पर्यवस्यति । तावदनुरोद्धव्यम् ॥ तच्च व्यवहारनियमसमयबंधादेव द्वाभ्यामपि ताभ्यां संभाव्यत इति व्यवहारनियममेव बध्नीतः ॥ स च प्रमाणेन तर्केण च व्यवहर्तव्यमित्यादिरूपः ।

न च प्रमाणादीनां सत्तापीत्थमेव ताभ्यामंगीकर्तुसुचिता । तादृशव्यवहार नियममात्रेणैव कथाप्रवृत्युपपत्तेः ॥ नापि तृतीयः ॥ लोकव्यवहारोऽपि प्रयाणव्यवहारो वा स्यात् । पामरादिसाधारण व्यवहारो वा ॥

नाद्यः । विचारप्रवृत्तिंमतरेण तस्य दुर्निरूपत्वात् । तदर्थमेव च पूर्वं नियमस्य गवेषणत्वात् ॥ नापि द्वितीयः । शरीरात्मत्वादीनामपि तथा सति भवता स्वीकर्तव्यतापातात् पश्चात्तद्विचार बाध्यतयानभ्युपपेयत । इति चेत् ॥ तर्हि प्रमाणादिसत्तामपि यदि विचारबाध्या भविष्यति । तदानाभ्युपेयैव । अन्यथा तूपगन्तव्येति न चतुर्थः ॥ नत्वनिर्चयातिप्रसंगस्य सत्तांगीकारेति मया वक्तुं शक्यत्वात् । इति पूर्वपक्ष: ॥

यत्तावद्व्यवहारमात्रस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वपक्षे दूषणमुक्तम् । तदसत् । यदि खल्वेवमस्माभिः साध्येत । मायावादी प्रमाणादिसत्ताभ्युपगमवान् । व्यवहर्तृत्वात् । तद्व्यवहारो वा प्रमाणादिसत्ताभ्युपगम पुरःसरो व्यवहारत्वात्तत्ववादिवत्तद्यव्यवहारवच्चेति । तर्हि स्यादेव व्यभिचारादिदोषः को नाम स्वस्वात्मैवमनुमिमीयते । यदि प्रमाणादीनि सन्ति नस्यु: तर्हि साधकानि न स्युः । असतः साधकत्वानुपपत्तेः तेषां चासाधकत्वे तत्कार्यो व्यवहारो न निष्पद्येत । तथा च वादिता न स्यात् । अस्ति चेयं । तस्मात्धेतूनां प्रमाणादीनां सत्ताभ्युपगंतव्येत्याचार्येण प्रसंगत्वेनाभिमतत्वात् । व्यभिचारस्थलस्य च प्रसंगविषयतुल्यतामंगीकृता ।

बाधस्तु प्रसंगस्यालंकार एव । अत एव द्वितीयोऽपि निरस्तः । तथा न साधनात् । किंचायमुपाधिः न साधनाद्भिद्यते । यदा हि प्रमाणादिसत्तानाभ्युपगता तदा तदसत्वेवांगीकृतमिति स्वरूपासिद्धत्वं । तच्च सद्वचनाभासलक्षण विशेष एव । यदुक्तं न ब्रूमो वयमित्यादि । दुरुक्तम् । सत्वासत्वे विहाय प्रमाणस्वरूपस्य बुद्धावारोपयितुं अशक्यत्वेनोदासीनस्य तत्स्वीकारानुपपत्तेः । एवं च वदता यद निर्वचनीयत्वमभिप्रेतं तदग्रे निराकरिष्यते । यदप्यत्रोक्तं कीदृशीं मर्यादामित्यादि ।

तत्र तृतीयपक्षमंगीकुर्मः । नचोक्त दोषः । न हि वयं प्रमाणादिसत्ताभ्युपगमं कथाप्रवृत्तिकारणतयाऽवश्यं ततः पूर्वभाविनं ब्रूमः । किं नाम यो यथा कथंचित्कथायां प्रवृत्तस्तं प्रतिप्रमाणादि सत्तानंगीकारे कथानुत्पत्तिप्रसंगदण्डं प्रदर्श्य तत्कारणानां प्रमाणादीनां सत्तामंगीकारयामः । न चैवं कथांतरप्रसक्त्यादिदोषः । प्रमाणदिसत्तामभ्युपगमे कथाया एव अनिष्पत्तेः ।

एतेन शिष्यज्ञापनमपि समाहितं । प्रतिवादिनः कथाप्रवेशमभ्युपगम्य तत्र प्रवृत्तं प्रति प्रमितकथाकार्यबलेन करणप्रमाणादिसत्तायाः अभ्युपगमस्योक्तत्वात् । द्वितीयपक्षोक्तदोषोप्यसंगत एव । न हि वयं प्रमाणादिसत्ताऽभ्युपगममपि कथक प्रवर्तनीय वाग्व्यवहारकारणकोटौ निवेशयामः येन तत्सत्ताऽनभ्युपगन्तृणां वाग्व्यवहारस्वरूपं न निष्पद्येतेति प्रसंगः स्यात् । अपि तर्हि प्रमाणादीनामेव कथा कारणता । सा च सत्वाभावे नोपपद्यत इति । तत्सत्वं अंगीकरणीयमिति वदामः ।

यत्पुनः कथक वाग्व्यवहारं प्रतीत्याद्याशंक्योक्तम् । एवं वदता कथाप्रवृत्त्युत्तरकालं प्रमाणादिसत्तांगीकारयितव्या । तथा च कथा फलस्य प्रमाणादिसत्ताऽभ्युपगमस्य न कथाकारणत्वं किंतु प्रमाणैर्व्यवहर्तव्यमित्यादिव्यवहार नियमस्यैवेति तदस्माभिरभ्युपगतमेव ।

यत्तु सत्ताभ्युपगममपि कथाकारणं ब्रूते स एवैवं पर्यनुयोज्यः ।

यत्पुनः न च प्रमाणादीनां इत्यादिना कल्पनागौरवमवादि तत्र किं प्रमाणादिसत्वाम्युपगमे कल्पनागौरवमुत तत्सत्ताभ्युपगमस्य कारणकोटिनिवेशने । नाद्यः कारणत्वान्यथानुपपत्या तत्सत्तायाः प्रमितत्वात् । प्रमितस्य परीक्षकैरङ्गीकरणीयत्वात् । द्वितीये तु संवाद एव । तृतीयेपि आद्यं तावदङ्गीकुर्मः । तत्रोक्तं दूषितप्रायम् । द्वितीयांगीकारेऽपि न दोषः ।

देहात्मत्वादिकं तु पश्चाद्विचारबाध्यतया नाभ्युपगम्यते इति ।

यदत्रोक्तम् प्रमाणादिसत्तापीत्यदि तेन किमुक्तं भवति । किं विचारसाध्यः प्रमाणादिसत्ताभ्युपगमो न विचारप्रवृत्तेः कारणम् इति; किंवा विचारााबाध्यतया एव प्रमाणादिसत्ताभ्युपगमप्रयोजकत्वेन व्यवहारस्याप्रयोजकत्वमिति । आद्ये संप्रतिपत्तिः । न द्वितीयः औत्सर्गिकं प्रामाण्यं बाधकादपोद्यत इत्यत्र दर्शने तस्यैव प्रयोजकत्वात् ।

चतुर्थपक्षोक्तदोषोप्यनेनैव परिहृतः । नहि यं प्रमाणादि-सत्ताभ्युपगमं कथाफलनिष्पत्तिहेतुं ब्रूमः । किंतु प्रमाणादीन्येव । तेषां च तद्धेतुता नासतामुपपद्यत इति तत्सत्ता अवश्यमभ्युपगमनीयेति ।

स्यादेतत् । नियतवाग्व्यवहारक्रिया संबन्धेन कथां प्रवर्तयतापि व्यवहारस्य सत्ता अभ्युपगन्तव्या ।

नहि सत्तामनभ्युपगम्य व्यवहारक्रियाभिधातुं शक्या ।

क्रिया हि निष्पादना, असतः सद्रूपता प्रमाणमिति यावत् ।

प्रमाणैर्व्यवहर्तव्यमिति च नियमबन्धनं प्रमाण करणभावस्य नियमान्तभावात् नियतपूर्वसत्वरूपं कारणत्वं प्रमाणानामनादाय पर्यवस्यति

दूषणानां चास्तित्वेन भंगावधारणनियमबन्धने, साधनांगानांचाव्यापत्यादीनां सत्वेन तद्विषयस्य तत्वरूपता व्यवहारनियमादौ च कंठोक्त्यैव तस्य तस्य सत्वमंगीकृतमिति रिक्तमिदमुच्यते । प्रमाणादीनां सत्तामात्रमनभ्युपगम्य कथारंभः शक्यत इत्येवमाशंक्य यदुक्तं-

एभिरपि बाधकैः कथायामारब्धायामभिमतस्य प्रसाधनीयत्वे, न पूर्वोक्त बाधायाननिस्तारः स्यादिति, तदप्यनेनैव परिहृतं कथास्वरूपफलनिष्पत्तये स्वेच्छास्वीकृतस्यैव व्यवहारनियमस्य प्रमाणादिसत्तास्वीकार एव पर्यवसानमिति । कथायां प्रवृत्तं स्वव्याघातमप्यचेतयन्तं प्रत्यस्माभिः उच्यमानत्वात् ।

ननु कथादेः कार्यस्य सत्वे कथञ्चित्कारणस्य प्रमाणादे: सत्वमङ्गीकरणीयं स्यात् । कार्यस्यैव सत्वाभावे | किं कारण सत्तयेति चेत्, कुतः प्रमाणात् कथादिसत्ताभावो वता निश्चितः श्रुत्यादेरिति चेन्न, तस्यैव अनेकातिप्रसंगगहनप्रशिष्टत्वात् । तथा च सिद्धे तत्प्रामाण्ये कथादिकार्य सत्वसिद्धिः, ततो अन्यथासिध्या तर्कस्याभासतासिद्धिः, तस्यां च श्रुत्यादिप्रामाण्यसिद्धिरिति चक्रकापत्या नैकस्यापि सिद्धि: असतः कारणत्वं तु सूत्रकृतैव निराकरिष्यत इति । प्रमाणादेः व्यावहारिकसत्वमंगीक्रियत इति चेत्, किं व्यावहारिकसत्वं सद्वाऽअसद्वा आद्ये सिद्धमस्मत्समीहितं । द्वितीये सत्वाभावे साधकत्वं न स्यादिति प्रसंगस्य तदवस्थत्वं ।

ननु द्विविधं सत्, मुख्यं, अमुख्यं च यत्सर्वथाऽअबाधितं तद् मुख्यं, यद्बाधितं तदमुख्यं तच्च द्विविधं, मायोपाधिकं अविद्योपाधिकं च । तत्राद्यं, अम्बरादिकं,तच्चाब्रह्मज्ञानाद्बाधविरहात् व्यावहारिकमिति गीयते । द्वितीयं शुक्तिरजतादि, तत्तु प्रतीति समयमात्रपरिवर्ति न पुनर्हानादि-हेतुरिति प्रातीतिकमुच्यते ।

अत्रेदं वक्तव्यत् । किं परमार्थसदेव सत् असच्च बाधकभेदेन द्विविधमिति सत्त्रैविध्यत् उत सत्येवावान्तरभेदेन । आद्ये प्रागुक्तदोषानिस्तारः । नहि सदितिज्ञानमात्रेण असदर्थक्रियार्हं येन तथाविधं प्रमाणादिकथां गतां गच्छेत् । तथात्वे विमपि पीयूषतया अवगतं तदर्थक्रियां कुर्यात् । बाधविलम्बस्त्वप्रयोजकः । अर्थतादवस्थ्यानिवृत्तेः । एवं ज्ञानसत्यतापि शुक्तिरजतादेरपि रजतोचितार्थक्रियाकारित्वप्रसंगात् । अर्थक्रियाप्यसतीति चेतरेतराश्रयादिना निरस्तम् ।

सतोर्थक्रियासंभवादसत्येव थंचित्सांऽगीकार्येति चेत् श्रुतिप्रामाण्यनिश्चयोत्तरकालमेवैतत् । प्राक्तनिश्चयात्परमार्थसतएवार्थक्रियेति मन्यमानः प्रतिवादी थं बोधनीयः । श्रुतेः प्रामाण्यसिद्धे असतोऽर्थक्रियाकारित्वं, तस्मिन्सति प्रामाण्यमिति ।

द्वितीये पृच्छामः । सत्त्रैविध्यं केन मानेन सिद्धं किं परमार्थसता वा, व्यावहारिकसता वा प्रातिभासिकसता वा । अपि किमात्मेतरेणोतात्मनेत्यर्थः ।

नाद्यः, द्वैतापत्तेः । न द्वितीयः अविशेषस्य तस्य साधकत्वायोगात् । नापि द्वितीयतृतीयौ, व्यवहार प्रतीतिकयोस्तु स्वरूपमेवाद्यप्यसिद्धेः । ना मुख्यं सदसन्नापि सत् । येनोक्तदोप्रसंगः । किं तु अनिर्वचनीयं तच्च सदसद्विलक्षणमित्यपि न ।

तथाहि विश्वस्य सदसद्वैलक्षण्यं, किं सताप्रमाणेन साध्यते । उतासता | अथ सदसद्विलक्षणेन, नाद्यः, वादिनोऽनुपपत्तेः, न द्वितीयतृतीया । प्रतिवादिनोऽसंप्रतिपत्तेरिति ।

नन्वत्र सदसद्वैलक्षण्यसाधकत्वं न स्यादिति प्रसंगो वाच्य:, न च तत्र व्याप्तिः । मैवंः साक्षिणिव्याप्त्यवधारणोपपत्तेः सत्वाभावे साधकत्वं न स्यादिति वा प्रसंगं वक्ष्यामः । तत्रासत्वमुपाधिरिति चेन्न । तस्य सत्वाभावानतिरेकात् । तद्भंगस्य च प्रागनिर्वचनीयासिद्धेरशक्यत्वात् । एतेन सद्विलक्षणत्वात् मिथ्यात्वोपपादनं असद्विलक्षणत्वात्साधकत्वं चोपपन्नमिति निरस्तम् । सद्वैलक्षण्येऽसत्वापत्या साधकत्वाभावस्यासद्वैलक्षण्ये च सत्वापातेन मिथ्यात्वोपपादनस्यासंभवस्यापत्तेः । प्रत्यनिर्वाच्यसिद्धेः व्याप्तिद्वयनिरासायोगात् । असदैलक्षण्यमात्रेण हानादिव्यवहारोपपत्तौ शुक्तिरजतादावपि तत्प्रसंग: । विवादपदं सदसद्विलक्षणं ज्ञानबाध्यत्वाद्यदेवं तदेवं यथा शुक्तिरजतमित्यनुमानं मानमिति चेत् । किमत्र सदसच्छब्दौ भावाभाववाचिनौ । किंवा विद्यमानाविद्यमानवाचिनौ । नाद्यः सिद्धसाधनत्वात् । भावात्मकस्य विश्वस्य भावान्तरवैलक्षण्याङ्गीकारेण भाववैलक्षण्यात् । अभावस्य च अभावान्तरवैलक्षण्याङ्गीकारात् । यदि च प्रत्येकं भावाभाववैलक्षण्यं विवक्षितं । तथाप्युक्त एव दोषः भावात्मकस्य विश्वस्य भावान्तरवैलक्षण्याङ्गीकारात् । अभावादपि वैलक्षण्यांगीकारात् भावाभाववैलक्षण्यम् । एवम् अभावात्मकस्य विश्वस्य भावादभावान्तराच्च वैलक्षण्यमस्त्येव ।

भावाभाववैलक्षण्यं नाम तत्वानधिकरणत्वं विवक्षितमिति चेत् । भावस्याभावत्वानधिकरणत्वं । अभावस्य च भावत्वानधिकरणत्वात्सिद्धसाधनं । प्रत्येकं भावत्वानधिकरणत्वं विवक्षितमिति चेत् । तथापि भावस्य विश्वस्य भावत्वैकाश्रयत्वेन उभयाश्रयत्वानंगीकारात् । अभावस्यचाभावत्वैकाधिकरणत्वादुभयरूपतानंगीकारात् ॥ ४ ॥

अथैकस्य वस्तुनो भावत्वानाधिकरणत्वराहित्यं साध्यमिति चेन्न । भावस्य अभावत्वानधिकरणस्याभावस्य भावत्वानधिकरणत्ववत्सिद्धत्वादंशे सिद्धसाधनत्वं उभयसाधनाददोष इति चेत्, , न हि असिद्धसंनिधानेन सिद्धमसिद्धं भवति । विशिष्टसाधनेनैवमिति चेन्न । तथापि वैयर्थ्यानिस्तारात् ॥ ५ ॥

अथ भावाभिमते भावत्वानधिकरणत्वं अभावाभिमते चाभावानधिकरणत्वं साध्यत इति चेन्न । अनेकेषां भावत्वानामङ्गीकृतत्वादनुगतस्य चानंगीकारात् । तथा चान्यगतभावस्य भावान्तरेऽभावात् सिद्धसाधनमेव । एवमभावेप्यभावत्वान्तरस्याभावात्सिद्धमेव ॥ ६ ॥

अथ भावाभावाभिभतयोः सर्वथा भावाभावत्वेनस्त इत्यर्थो विवक्षितः, अत्र वक्तव्यं, यदि प्रागभावादिकं पक्षीकृत्याभावत्वानधिकरणत्वं साध्यते । तदा तस्य भावत्वं प्रतिज्ञातं स्यात् । भावस्यैवाभावत्वानधिकरण नियमात् । द्वौ नञौ हि प्रकृतमर्थं सातिशयं गमयतः । एवं वियदादिकं पक्षीकृत्य भावत्वानधिकरणत्वे साध्यमाने तस्याभावत्वं प्रनिज्ञातं स्यात् । अभावस्यैव भावत्वानधिकरणत्वनियमात् । भावनिषेध एव ह्यभावः तथा च विश्वस्य भावविभागस्य च परेणाभ्युपगतत्वात् । न ममानिष्टं किंचित्, किंतु भावाभावव्यतिकरमात्रम् । तत्साधनं च प्रकृतानुपयुक्तमिति॥७ ॥

भावाभावाभिमतयोरभावभावत्वानधिकरणत्वे वादिप्रतिवादिसंमते भावा भावत्वानधिकरणत्वमप्यधिकं साध्यते । इति चेन्न । प्रमितपरित्यागायोगात् । साधनीयस्य प्रमाणबाधित्वात् ॥ ८ ॥

द्वितीयेप्युत्तरमूहनीयम् ||

किंच, न सत्वं नामैकमनुगतं, किंतु प्रतिवस्तु सत्वानि भिद्यन्ते । तत्र वियदादेरसद्वैलक्षण्ये सति सत्वानधिकरणत्वं, साध्यमानं किमेकसत्वानधिकरणत्वं, उतानेकसत्वानधिकरणत्वं, अथ सर्वसत्वानधिकरणत्वं, किंवाऽविशेषितसत्वानधिकरणत्वं, अथवा सर्वथा सत्वानधिकरणत्वं विवक्षिततम् ।

नाद्यः विश्वस्य सतोऽपि सत्वान्तराधिकरणत्वाङ्गीकारात् । अत एव न चतुर्थः । न द्वितीयतृतीयौ, भेदवादिनैकैकस्यार्थस्यानेक सर्व सत्ता स्वीकारात् । न पंचमः, सदसत्वापत्या सिद्धसाधनत्वात् । मया ह्येकस्यैव सदसत्वमङ्गीकृतं, स्वोपाधौ प्रतिषेधाप्रतियोगित्वात् । परोपाधौ च तत्प्रतियोगित्वात् । द्वयोरपि सर्वथा प्रतिषेधात्कथं सदसत्वप्रसंग इति चेन्न । व्याहतत्वात्प्रतिज्ञायाः प्रपंचस्य सहसद्विलक्षणा सिद्धिः । अस्मादेव हेतोस्तत्सिद्धिर्भविष्यतीति चेत्, तर्हि माता वंध्येति प्रतिज्ञा कुतो विप्रतिषिद्धा । वक्ष्यमाणहेतुनैव प्रतिज्ञार्थसिद्धेः तत्रापि सुवचत्वात् । संभावितप्रतिज्ञाया अर्थः साध्येत हेतुनेति न्यायात् । तत्र हेत्वाकांक्षैव नास्तीति चेत्, समं प्रकृतेऽपि ।

किं च सत्वानाधारत्वप्रतिज्ञासाक्षिप्रत्यक्षबाधिता । साक्षिणा विश्वस्य सत्वग्रहणात् । अन्यसत्वानधिकरणत्वे साध्ये सतां भेदः सिद्धः । अनेकसत्वनिषेधे एकस्य सत्वस्य स्वतः सिद्धेश्च । संत्येवानेकानि सन्ति पारमार्थिकत्वेकमेवेति चेन्न । तत्सिद्धयर्थमेवाद्यापि भवता प्रयतनात् । चतुर्थे दूषणान्तरमाह । यतस्त्वया ब्रह्मण्यपि विवक्षित विशेषं सत्यमंगीक्रियते । अतस्तदनधिकरणत्वस्य साधने सिद्धसाधनं स्यात् । ब्रह्मगतसत्यस्य प्रपञ्चेऽनंगीकारात् । सत्साधने अर्थांतरतेति ॥

किमिदं सत्वं नाम यदनधिकरणत्वं विश्वस्य साध्यते किं समान्यसत्वं, उतेस्वरूपसत्वं आद्येऽपि किं सामान्यसत्तामङ्गीकृत्य तदनधिकरणत्वं साध्यते, अनंगीकृत्य वा । आद्ये सतां भेदसिद्धिः । द्वितीये तदनधिकरणप्रतिज्ञा व्यर्थास्यात् । येनेदं शशविषाणाधिकरणवत् । न द्वितीयः सतां भेदसिद्धिः । नह्येकाश्रयं सामान्यमस्ति । द्वितीयं दूषयति । स्वरूपसत्वं यतोऽगीकृतं ब्रह्मणस्तद्वैलक्षण्यं अब्रह्मत्वमपि विश्वस्य नो भवेदिति । अथवा सामान्यसत्तापक्षे दोषान्तरमनेनोच्यते । तथा हि सत्तासामान्यविधुरस्याऽपि ब्रह्मणः स्वरूपसत्वं तावदस्ति । न पुनः सत्तावैधुर्यात् ।

असद निर्वाच्यं वा ब्रह्म । तस्मात्सत्तावैधुर्यस्यासत्वाद्यहेतुत्वात् । तत्सत्तानधिकरणत्वसाधनं नानिष्टं । अर्थक्रियाकारित्वं ज्ञानाबाध्यत्वं, वा सत्वमिति पक्षद्वयं स्फुटदोषत्वान्नादूषितम् । अर्थक्रियावैधुर्यसाधने हि बाधः स्फुट एव । परंमार्थतो नास्तीत्यप्युक्तोत्तरं सत्यस्य नार्थक्रियेति वदता मिथ्याभूतस्यैवार्थक्रियाकारित्वमंगीक्रियतेति सिद्धांतविरोधश्च अर्थक्रियाविधुरस्याऽपि ब्रह्मणः सत्वात्तद्वैधुर्यम् नासत्वादिहेतुः अर्थक्रियानधिकरणमात्रसाधनं प्रकृतानु युक्तं तद्विरुद्धं च । ज्ञानाबाध्यत्ववैधुर्यं च तद्बाध्यत्वमेव । तच्च हेत्वर्थान्नभिद्यत इति साध्याऽविशिष्टता ।

यस्त्वया सच्छब्दार्थतया अंगीकृतः स एवास्माकमित्यतीवमन्दम् । माया हि क्वचित् सदिति भावो व्यवह्रीयते । क्वचिच्च प्रतिपन्नोपाधौ निषेधाऽप्रतियोगि । क्वापि मूर्तमित्यादि तत्सर्वं च निरस्तमिति ।

हेतुमपाकरोति । तथा हि-ज्ञानबाध्यत्वं हि ज्ञाननिवर्त्यत्वं वा, प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं वा,  न च प्रतिवादिनो हेतुत्वेन परस्याभिमतम् । मम सिद्धम् । अतो अन्यतराऽसिद्धो हेतुः ।

अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिबाधः इति हि तन्मतम् । न चाऽयं प्रपंचे अस्माकं संमतः । किन्तु मुद्गरप्रहारादिना घटस्येव ईश्वरज्ञानेच्छाप्रयत्नव्यापारैः विनाश एव । स एव हेतुरस्तु इति चेन्न । तथाविधमपि ज्ञानबाध्यत्वं पक्षैकदेशे प्रकृत्यादौ न सिद्धं प्रतिवादिन इति भागासिद्धत्वात् ।

किंच सत्यस्यस्याऽपि ज्ञानविनाश्यत्वे बाधकाभावात् । अप्रयोजकत्वं हेतोः । अतो व्याप्यत्वाऽसिद्धिः । सतो विनाशे चैतन्यस्याऽपि विनाशप्रसंग इति चेत् । तर्हि विनाशमात्रस्य साध्यप्रयोजकत्वेन ज्ञानबाध्यत्वं व्यर्थविशेषणासिद्धमपि स्यात् । सत्वसाम्येपि विनाशिकारणसदसद्भावेन विशेषोपपत्तेश्च ।

अस्मद्रीत्याऽन्यथाविज्ञानस्य सम्यग्विज्ञानत्वं चेदात्मनिव्यभिचारः । शुक्तिरजतादेरनिर्वचनीयत्वं प्रतिवादिनो ममाऽपि सिद्धम् । मयाऽसत्वेनांगीकृतत्वात् । अत एव ज्ञानबाध्यत्वं ममतत्रासंमतम् । तद्विज्ञाननिवर्त्यत्त्वं परस्याभिमतम् । न चासस्तत्संभवति ।

तस्य नित्यनिवृत्तत्वात् । अतः साध्यसाधनविकलोऽयं दृष्टान्ताभासः ।

केचिन्नेदं रजतमितिह्यध्यस्तवस्त्वभावबोधे बामाहुः ।। अपरेतु शुक्तिरियमिति विरोधिभावान्तर ज्ञानम् । तदुभयं प्रत्येकमव्यापकं शब्दादौ द्वयोरपि बाधत्वप्रसिद्धेः ॥ तस्मादुभयानुगतं लक्षणमुच्यते अन्यथाविज्ञातस्य सम्यग्विज्ञानं

बाध्यत इति ।

रजतत्वादिनाविज्ञातस्यापुरोवर्तिनः शुक्तित्वादिनाविज्ञानं खल्वन्यथाविज्ञातस्य सम्यग्विज्ञानम् । एवं अतोऽरजतस्य त्वादिनाऽवगतस्यासत्वादिनाविज्ञानमप्यन्यथाविज्ञातस्य सम्यग्विज्ञानम् ।

सम्यग्विज्ञानं बाधः इत्येवोक्ते अतिप्रसंगः । तन्निवृत्यर्थं अन्यथा ज्ञातस्येत्युक्तं ।

अन्यथाविज्ञातस्य ज्ञानंमित्येवोक्ते धारावाहिक विभ्रमे रजतत्वेनावगतस्य शुक्तिशकलस्य पुनर्नागवंगत्वादिज्ञानेऽपि प्रसंग: तन्निरासाय सम्यगित्युक्तम् ।

अन्यथेति । तत्स्वरूपापेक्षया तेन पटाद्यपेक्षया अन्यथा घटत्वेन, विज्ञातस्य पुनर्घटत्वेन ज्ञाने प्रसंगो निरस्त: छलप्रसंगात् ॥

तथापि रजतत्वेनावगतस्य शुक्तिकाशकलस्य शुक्लत्वादि ज्ञाने प्रसंगस्तदवस्थः एवमेकेनान्यथा विज्ञातस्य पुरुषान्तरसंबंधिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याज्ञानसिद्धे सम्यग्विज्ञानेपीति चेन्मैवम् । बाधतिः खलु लोडने पठ्यते । तच्च ज्ञानस्यार्थस्यवास्तु । न तावत् ज्ञानस्य । तस्य क्षणिकत्वेन स्वत एव लोडितत्वात् । सम्यग्ज्ञानस्यापि, उत्तरज्ञानविनाश्यस्य बाधितत्वव्यवहार प्रसंगात् । नाप्यर्थस्य । शुक्तिशकलादेस्तादवस्थ्यात् । रजतादेः नित्य लोडितत्वात् ।

अतः पूर्वज्ञानप्रसंजितस्यान्यथाकारस्य लोडनमिवेति वक्तव्यम् । तथा च सति कोऽतिप्रसंगः । कथमनुच्यमानं ज्ञास्यते अन्यथाविज्ञातस्येतिवचनसामर्त्यात् ।

किमिदमनिर्वचनीयत्वम् । किं निरुक्तिविरहः । किंव । निरुक्तिनिमित्तविरहः ॥ नाद्यः । अनिर्वचनीयमित्यादिनिरुक्ते सत्वेनासंभवित्वात् । द्वितीयेऽपि निरुक्तिनिमित्तं ज्ञानं अर्थो वा स्यात् । नाद्यः, ज्ञानस्योभयवादिसिद्धिसद्भावात् । न द्वितीयः । यथा प्रतिभासमर्थस्य रजतादेः मायावादिना अंगीकृतत्वात् ।

अथ सदसद्विलक्षणत्वं अनिर्वचनीयमिति चेन्न । निराक्रतत्वात् । तत्र यावत्सु पक्षेषु सिद्धार्थपर्यवसानं तावत्सु अनिर्वचनीयस्य सत्वाविरोधित्वेन न सन्प्रपञ्चः किन्त्वनिर्वचनीयइत्यारम्भासंगतिर्दोषोऽवगन्तव्यः । यत्र पुनर्बाधादिपर्यवसानं तत्राव्याप्तिरवगन्तव्या ।

किञ्चासम्भवीदं लक्षणं उभयवैलक्षण्यस्य कुत्राप्यप्रमितत्वात् । सदसद्विलक्षणमनिर्वचनीयमित्युक्ते ब्रह्मण्यतिव्याप्तं, तस्यासद्विलक्षणत्वात् । न धर्मकत्वे सत्वानधिकरणत्वाच्च || अतो ब्रह्मणः सत्वं न सिद्ध्यति । किं चानिवाच्यत्वं स्यात् । सत्वेनासत्वेन विचारासहत्वमनिर्वचनीयत्वम् ।

न पुनः सत्वासत्वधर्माधिकरणत्वम् । ब्रह्मतस्तु सत्वेन विचारसहं कथमनिर्वचनीयं स्यात् ॥ मैवम् । सत्वेनेति त्वत्प्रत्ययार्थस्यानभ्युपगमात् ॥

ज्ञानबाध्यत्वमनिर्वनीयत्वमिति चेन्न । वियदादेः सत्वेन शुक्तिरजतादेरसत्वेनाविद्योपादानकत्वाभावात् ।

यदि पुनज्ञानविनाश्यत्वमात्रं । लक्षगं । तथापि वियदादौ नित्ये नित्यत्वादेव शुक्तिरजतादौ चासत्वान्नसित्धमित्यव्याप्तिः ।

यदि च प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं तदपि वियदादौ न सिद्धमित्यव्याप्तिरेव ।

अत्रान्यथाविज्ञानमेव भ्रांतिः । तत्प्रसंजितान्यथाकारलोडनं सम्यग्विज्ञानमेव बाधः ॥

इह खलु केचिद्यथार्थं सर्वविज्ञानमितिमन्यमाना अन्यथाख्यातिं न सहन्ते । तथाहि । केयमन्यथाख्यातिर्नाम ॥

यदि तावदन्यथापरिणते वस्तुनि ख्यातिरन्यथाख्यातिः । तदा घटादिप्रत्ययाः सर्वेऽप्यन्यथाख्यातित्वाद्विभ्रमा: प्रसज्येरन् ।

किं च शुक्तिकायाः रजताकारपरिणामः किं सकारणः उताकारणः । न तावदकारणः । कादाचित्कत्वानुपपत्तेः । आद्ये कारणं वाच्यम् । करणदोष इति चेन्न । तस्य करणसंबंधिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः ॥ अन्यथा तदैव सकलार्थानां रजतरूपपरिणाम प्रसंगात् ।

दुष्टकारणसंसर्गो हेतुरिति चेत्तथापि शक्तित्वावगमेन रजतरूपपरिणामः किं वा तदनपगमेन । अद्ये पुरुषान्तरेणापि तदा शुक्तित्वं न प्रत्येतव्यम् । द्वितीये भ्रान्तेनापि तत्प्रत्येतव्यम् । किं च शुक्तित्वापगमे बाधेऽपि न तद्भादात् ।

अथ पुनः शुक्त्याकारेण रजतं परिणतमिति चेन्न । करणदोषस्य कारणस्याभावात् । बाधोप्येवं भ्रमः स्यात् । अपि चैतत् समस्तप्रतिपत्तृसाधारणमपि कुतो न भवेत् ।

यत्करणपरिणतं तेनैव गृह्यत इति चेन्न, घटादेरपि कुलालादिमात्रवेद्यतापातात् । सुखादिवदिति चेन्न । बाह्यान्तरत्वेन विशेषात् । अन्यथोक्तातिप्रसंगानिस्तारात् ।

किं च दोषवशाद्रजताकारेण परिणताचेच्छुक्तिः, तदा दोषापगमेपि तथैव कथं नावतिष्ठते । न हि निमित्तकारणनाशात्कार्यनाशो दृष्टः ।

लकुड्मलविकासनिमित्तत्वेन असंभवित्वात्, सावित्रतेजोपगमस्य विकासनिवृत्तिहेतुता च इष्टेति चेत्, मैवम्, दलविभागो हि विकासो नाम, स च क्षणिकत्वात्सत्येव तेजसि निवृत्तसंयोगप्रध्वंसस्तु न कदापि निवर्तते ।

पुनः संयोगलक्षणे मुकुनीभावस्तु शीतादिनोनजन्य एव । स्थायित्वेपि विभागस्यान्यदेव तन्नाशे निमित्तमिति यत्किचिदेतत् ।

यथा ऐहिकबुध्युपरमे परत्वादि व्यवहारनाशः तद्वदत्रापि स्यात् । इति चेन्नविप्रतिपत्तेः । किं चोत्पन्नं चेद्रजतं विनष्टं तदा तथैव प्रतीतिः स्यात् । न पुनर्नेदं रजतमिति बाधबुद्धिः । एतेन दुष्टकरणजन्याद्विज्ञानाद्रजत-जन्मेत्यपि परास्तत् ।

का चैवं सति दोषवाचो युक्तिः । नहि मृदो घटाकारपरिणामस्य निमित्तं दंडं चक्रादिकं दोषत्वेन मन्यन्ते ॥

किं च यस्याः प्रतीतेस्तदालंबनं तत एव तजन्म किंवा प्रतीत्यंतरात् । नाद्यः । परस्पराश्रयप्रसंगात् । उत्पन्ने हि रजते तदालंबनायाः प्रतीतेर्जन्म तस्यां जातायां रजतोत्पत्तिरिति । न खलु निरालंबना प्रतीतिरुत्पद्यते ।

द्वितीयेऽपि किं तत्प्रतीत्यंतरं शुक्तिकालंबनं । उत शुक्तिकारजतांतरालंबनम् । अथवा अर्थांतरालंबनं । नाद्यः शुक्तिप्रतीत्यनंतरं रजतोत्पादप्रसंगात् । शुक्तिकारजतप्रतीतेः प्राक् शुक्तिरेवेति प्रतीतिनियमाभावाच्च ।

दुष्टकरणालोचित शुक्तिसाधारणाकारप्रतीते रजतजन्येति चेन्न । साधारणाकारदर्शनानन्तरं रजतप्रतीतिनियमाभावात् कारणवैकल्यं तत्र कल्प्यत इति चेत् । स्यादेतदेवम् । यदि रजतजन्मप्रतीतं स्यात् । प्रतीतिं तु प्रकारांतरेण उपपाद इष्यामः ।

न द्वितीयः पूर्वरजतस्यापि तदेव कारणमिति रजतप्रतीतिप्रवाहाविच्छेद प्रसंगात् ।

तृतीयेतिप्रसंगात् ।

तदेवं भ्रांतिबाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः ।

नापि वस्तुनो वस्त्वंतरात्मनावभासोन्यथाख्यातिरिति । तथा हि । किं वस्तुनो वस्त्वंतरात्मता सती उतासती ।।

आद्ये न भ्रांतिर्नापि बाधः सर्वेषां च सर्वं सर्वात्मना प्रतीयेत । (अन्यात्मनः (स्य) सत्वात्) न हि दोषः करणसंस्कारः । तथासत्यदुष्टकरणेन न किंचिदुपलभ्येत ।

न द्वितीयः । असतः प्रतीत्यनुपत्तेः । उपपत्तौ वा किं रजतस्यापि स्वरूपेणान्यत्र सत्वग्रहणेन । तेनासंबद्धविशेषणविशिष्टप्रतीतिरन्यथा ख्यातिः निरस्तम् । असतो विशेषण संबंधस्य प्रतीत्यनुपपत्तेः । उपपत्तौ वा किमसत्ख्यातिवादिभिरपराद्धम् ।

अथ ब्रूषे अन्याकारं ज्ञानं अन्यथाख्यातिरिति । तदसत् । समीचीनज्ञानस्याप्यांतरबाह्यत्वादिनाऽर्थविलक्षणाकारत्वेन विभ्रमत्वापत्तेः ॥

अन्याकारोल्लेखिज्ञानमन्यालंबनमन्यथाख्यातिरिति तु विरुद्धम् । तथा हि । किमिदमालंबनं सत्वम् । उत कारणत्वं, विषयतया कारणत्वम् । सर्वप्रत्ययानां सर्वार्थालंबनत्वापत्तेः । सर्वज्ञता चैवं सति स्यात् । अतीतादिविषयस्य निरालंबनतापातश्च ॥

अत एव न द्वितीयतृतीयः । रूपादिज्ञानस्य चक्षुराद्यपि कारणमिति तदालंबनत्वप्रसंगात् । अतीतानागतविषयत्वं च ज्ञानस्य न स्यात् । अतीतानागतयोरसत्वेनकारणत्वानुपपत्तेः ।

अत एव न चतुर्थः । आत्माश्रयं चैव सति स्यात् । विषयत्वस्यैव निरूप्यमाणत्वात् ।

किं चेदं विषयत्वं येन यस्यातिशय उत्पद्यते स तस्य विषय इति चेन्न । अतिशयोहि ज्ञातता वा स्याद्व्यवहारो वा । नाद्यः । अनभ्युपगमात् । अभ्युपगमेप्यतीतादिज्ञानस्य निर्विषयत्वापातात् । न ह्यसति धर्मिणिधर्मोत्पादो युज्यते । न द्वितीयः । अतदर्थिनो व्यवहारावुत्पत्तावविषयत्वानुपपत्तेः । व्याघ्रचोरादिज्ञानानन्तरमादीयमानस्य दंडादेरपि तद्विषयत्वप्रसक्तेश्च ।.

यद्विज्ञानं यदाकारं तत्तदालंबनमिति तु तथामतमनुधावति ।

यत्सन्निकृष्टकरणेन यत् ज्ञानं जन्यते तत्तद्विषय मित्यपिचेन्न। रूपादिज्ञानस्याकाशादिविषयतापातात् । चक्षुराकाशसन्निकर्षस्यापरिहार्यत्वात् । तत्तादृशस्य प्रत्यभिज्ञाविषयत्वं च न स्यात् । तत्राकाशसन्निकृष्टकरणेन जन्यत्वात् ।

तस्य वाक्यस्य वाक्यार्थेन संन्निकर्षाभावात् । तज्जनितज्ञानस्य वाक्यार्थो विषयः स्यात् ।आकाशविषयतैवंचापद्यते ।

लिंगज्ञानाच्चात्मसन्निकृष्टाज्जायमानं लिंगिज्ञानं आत्मविषयमापद्येत । तस्माद्यज्ज्ञानं यत्प्रतिभासं तदेव तस्यालंबनमिति मन्तव्यम् ।

तत्र रजतज्ञाने शुक्तिरवभासते नवेति वक्तव्यम् । अवभासत इति ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः ।

यदि संविदिबहुमानवान्नेति ब्रूयात्तदा तच्छुक्तिकालबनं स्यात् । किं च रजतमवभासते शुक्तिकालंबनं स्यात् । किं च रजतमवभासते शुत्तिकालंबनं चेत्यतिप्रसंगः कथं परिहरणीयः ।

न चान्यथाख्यातिजनने कारणं पश्यामः ।

न च चक्षुरादिकमेवकारणं । तस्य समीचीनज्ञानकारणतावधारणात् । तादृशस्यादृष्टभेदाद्भिन्नकार्यजनकत्वमस्त्विति चैन्न कार्यभेदे निश्चिते तथा कल्प्यत्वात् । न च वक्तव्यं दावदहनदग्धवेऽत्रबीजानां कदलीकांडजननं प्रति सामर्थ्यमुपलब्धमिति । पाकेन द्रव्यांतरोत्पत्तेः तेषां वेत्रबीजत्वापगमात् । किं च क्वचिद्भानस्य प्रदर्शिताकारव्यभिचारे कथं अन्यत्राश्वासः ।

ननु यथा घटादेः पार्थिवस्य व्यभिचारेपि न धूमस्यापि तद्व्यभिचारः शक्यते । वैषम्यात् । घटादेर्धूमस्य पार्थिवस्याविशेषेपि धूमत्वादिरेवावांतरो विशेषो व्यभिचारनिश्चयोपायोस्ति । न हि तत्र बाधकं किंचित् । तेनोपपद्यते तत्राश्वासः । प्रकृते तु न ज्ञानत्वावांतरविशेषे मनः श्वासनिरसनक्षममीक्षामहे ।

न च बाधकभावाभावरूपाद्विशेषाद्व्यवस्थेति वाच्यम् । बाधकस्यापि ज्ञानत्वेन शंकात्वात् । बाधकाभावश्चानुपसंजातबाधभ्रमे समानः ।

संवादभावाभावाभ्यां विशेष इति चेन्न । उक्तोत्तरत्वात् । संवादकमपि हि ज्ञानमेवेति तदपि कथं संशयास्पदं न स्यात् । तत्रापि संवादकांतरान्वेषणेऽनवस्था कुतो न भवेत् । अंगीकृतश्च परेण धारावाहिकविभ्रमेऽन्योन्यसंवादः ।

एतेन ज्ञानजन्यव्यवहारविसंवादाविसंवादलक्षणोपि विशेषः परास्तो वेदितव्यः । तद्विशेषग्राहिण्यपि विश्वासकारणाभावात्

अपि च प्रतीयमानोयं रजताकारः कुतस्थ इति वक्तव्यम् । न तावत्पुरोवर्तिनिष्ठ इतीष्टमन्यथाख्यातिवादिनाम् । बाधकविरोधश्च तथा सति स्यात् । नापि देशांतरवर्तीति वक्ष्यामः ततश्च ज्ञानस्थ इत्येवापतितम् । तथा च जितं साकारविज्ञानवादिभिर्बौद्धैः ।

ननु तर्हि इदं रजतमित्यादिप्रत्ययस्य का गतिः । उच्यते । रजतमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति  पुरोवर्तिद्रव्यमात्रग्रहणम् । दोषवशात्तद्गतस्य शुक्तित्वसामान्यस्याग्रहणात् । तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजतस्मृतिं जनयति । साच गृहीतग्रहणस्वभावापि दोषवशात् गृहीततत्तांशप्रमोषेण गृहीतेसरूपावतिष्ठते । तथाच रजतस्मृतेः पुरोवर्तिग्रहणस्य च मिथः स्वरूपतो विषयतश्च  भेदाग्रहणात् सन्निहितरजतज्ञानसारूप्येणेदं रजतमिति भिन्नेपि ग्रहणस्मरणे अभेदव्यवहारं समानाधिकरणव्यपदेशं च प्रवर्तयतः कुत एतदिति चेत् । अन्यथानुपपत्तेरुक्तत्वात् ॥

किं चेदमिति तावत्पुरोवर्तिनयनसंप्रयोगजं ज्ञानमनुभव इत्यविवादम् । रजतज्ञानं च न तावदिंद्रियजम् । इन्द्रियस्य सन्निकृष्टार्थ एव ज्ञानजननसामर्थ्यात् । अन्यथा सर्वसार्वज्ञप्रसंगात् । न च विप्रकृष्टेन रजतेन सन्निकर्षोऽस्ति न च शुक्तिशकलसन्निकर्षादेवेंद्रियं रजतज्ञानमुत्पादयतीती सांप्रतम् । अतिप्रसंगात् न च दोषसदसद्भावाभ्यां व्यवस्था । दोषाणां विपरीतकार्यकारितया निरस्तत्वात् ।

भस्मकदोषदूषितस्य जठरजातवेदसो बहुतराहारपरिणामे हेतुतोपलभ्यत इति चेन्न । विप्रतिपत्तेः । दोषस्यैवाहारविकारहेतुत्वोपपत्तेः ।

न च दहनकार्यंर कथं दोषः करोतीति वाच्यम् । कार्येपि वैजात्योपलंभात् । जठराग्निपरिणता हि रसाः । शरीरोपचय हेतवो न भस्मकपरिणतास्तथा । तस्मान्नेदमिन्द्रियजम् ।

न च लिंगाद्यनुसंधानरहितेनापि जायमानमनुमानादि-प्रभवमितिशक्यते वक्तुम् । अनन्यथासिद्धनियतपूर्वक्षणभाविकारणाभावेप्युत्पद्यमानमिदं स्मरणमेव ।

तथा च प्रयोगः । इदं स्मरणमनाकलितरजतस्यानुत्पद्यमानत्वात् । संप्रतिपन्नस्मरणवत् । नचेदमस्मरणम् । तत्तांशविकलत्वात्संप्रतिपन्नवदिति युक्तम् । पदात्तदर्थस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात् ।

किं चानुभूतं तावन्न समस्तं स्मर्यते । तत्तांशश्चातीतदेशकालसंबंधः स्मर्यमाणधर्मः । तथा च स्मरणं भवतु । भवतु दोषवशात् प्रमुषिततत्तांशम् । न च विपक्षे बाधकं किंचिदित्यप्रयोजको हेतुः ।

न च नेयं स्मृतिः इन्द्रियजन्यत्वात् । संप्रतिपन्नवत् । विमतं इन्द्रियजन्यं इन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वादिति  वाच्यम् । स्मृतिबीजसंस्कारोद्बोधहेतुपुरोवर्तिसाधारणाकारग्रहण एवेंद्रियव्यापारान्वयव्यतिरेकयोरुपक्षीणत्वात् ।

नन्वेवं सत्यनास्वादिततिक्तस्य शिशोः तिक्तस्मरणानुपपत्तेः कथं तिक्तो गुडप्रत्यय इति चेत् । तज्जन्मांतरानुभूतत्वात् । न हि सर्वेषां शिशूनां तथाप्रसंगः । अदृष्टानियमात् । क्वचित् ग्रहणे एव मिथोऽगृहीतभेदे । यथा पीतः शंखः इति । अत्र विनिर्यन्नयनरश्मिवर्तिनः पीतद्रव्यस्य पीतत्व दोषवशात् द्रव्यरहितं गृह्यते । शंखोपि गुणहीनः । स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरितरेतरसापेक्षिणोरसंसर्गग्रहात्सारूप्यात् पीतचिरबिल्वादिफलप्रत्ययाविशेषेणाभेदव्यवहारः समानाधिकरणव्यपदेशश्च भवतः । क्वचित् पुनः स्मरण एवागृहीतविवेके । यथा सघटः तत्रासीदिति । अनयैव दिशाऽज्ञातचक्रादि व्यवहाराः सर्वेपि निर्वाह्याः ।

किं च विपर्ययमंगीकुर्वीणेनापि विवेकाग्रहो ग्राह्य एव । न हि विवेकग्रहे विपर्ययावकाशो अस्ति । विरोधात् अन्यथा विपर्ययनिवृत्यनुपपत्तेः । तथा च तत एव सर्वस्योपपत्तौ किं विपर्ययकल्पनया ।

न चान्यथाख्यातौ किमपि प्रमाणमस्ति । भेदाग्रह  प्रसंजिताभेदव्यवहारबाधनेनैव नेदमितिविवेकज्ञानस्य बाधकत्वमप्युपपद्यते । तदुदपत्तौ चागृहीतविवेकस्य ज्ञानद्वयस्याभ्रांतित्वमपि लोकसिद्धम् ॥ तथाच प्रयोगः । विगीतप्रत्ययो यथार्थः । प्रत्यत्वात् संप्रतिपन्नवत् ॥

नन्वत्र विगीतप्रत्ययो नाम किं पुरोवर्ति निर्विकल्पकज्ञानं उत सदृश दर्शनोत्थं रजतस्मरणम् । किंचोभयं । अहोस्विद्रजतपुरोवर्त्येकताज्ञानं । | आहोस्वित् प्रमुषितभेदं वेदनद्वयम् । तत्राद्यपक्षत्रये सिद्धसाध्यता । चतुर्थेवाद्याश्रया सिद्धत्वं अपसिद्धांतो व्याघातश्च ॥ पंचमे प्रतिवाद्याश्रयासिद्धतेति चेत् । मैत्रम् ।

अस्ति तावत्पुरोवर्ति निर्विकल्पकज्ञानम् । अस्ति च सदृशपुरोवर्तिदर्शनजनितारजतस्मृतिः । तथास्त्येव च तत्समुत्थं सविकल्पकमिदमिति वेदनात्सविवाद भेदाभेदं रजतवेदनम् ॥ तत्र विप्रतिपन्नौ भेदाभेदौ विहायेदं रजतमित्यवगममात्रमिदं रजतमित्यादि समानावगममात्रमिदं रजतमित्यादि सामानाधिकरण्यव्यवहारकारणं पक्षत्वेनविवक्षितं चेत्को विरोधः । न हि विप्रतिपन्नाकारेणैव पक्षीकारः क्वचित् । मा हि भून्नित्यानित्याग्निमदनग्निमच्छब्दपर्वतपक्षीकारे प्रकृतदोषानुषंगात् भंगोनुमानमुद्रायाः ।

किं च सिद्धस्यैव पक्षीकरणम् । विमताकारस्यापि पक्षत्वे किं साध्येत । विमतौ च भेदौ विभ्रमगोचरविचारावसरे । भेदे हि वेदनयोरिदं वेदनं पुरोवर्तिमात्रगोचरम् । न रजतवार्तां वेत्ति । रजतवेदनमपि रजतमात्रग्राहि यस्य कस्य चिद्रजतत्वमनुसंधत्ते । तच्च प्रमाणविरुद्धमिति क्वान्य थाख्यातिः । अतस्तद्वादिभिरभेद एव वक्तव्योऽपकर्तव्यश्चाख्यातिवादिभिरित्यस्त्येरेव विप्रतिपत्तिः ।

ततो विप्रतिपन्नाकारं परित्यज्येदं रजतमित्यवगममात्र पक्षीकारे न कश्चिद्दोषः । कथमन्यथाख्यातिवादीदं रजतमिति ज्ञानस्य पुरोवर्तिविषयत्वसाधनाय साधनमुपन्यस्यन्नितो दोषात् विमुच्येत ।

अथ रजतार्थिनः शुक्तिकायां प्रवृत्तो हेतुभूतं ज्ञानं मया पक्षीक्रियत इति चेत् मोचैर्वोचः परोपि श्रोष्यति ।

प्रवृत्तिहेतुभूतेन ईश्वरज्ञानेन सिद्धसाधनता स्यादिति चेत् । तवापि बाधः कथं न स्यात् ।

प्रकृतप्रवृत्तिहेतुरनीश्वरज्ञानं पक्षीक्रियते इति चेत् । ममापि तथैव स्यात् ।

त्वयेश्वरानभ्युपगमात् । व्यर्थं विशेषणमितिचेत् । तर्हि मां प्रति तवापि कथं न व्यर्थम् ।

इदं ज्ञानादगृहीतविवेकं रजतज्ञानमिति विप्रतिपत्तिविषयमुद्घाटयामीति चेत् सममेतन्ममापि ।

किं च विवादाध्यासितं रजतज्ञानं रजतविषयं रजतज्ञानत्वात् सम्मतवत् ! अत्रापि पूर्ववद्विमतविषयो विवेचनीयः ॥

स्यादेतत् किमिदं रजतज्ञानं नाम रजतस्य ज्ञानं रजतज्ञानम् । रजतं तज्ज्ञानं चेति वा । रजतशब्दोल्लेखिज्ञानं वा रजतार्थिनः प्रवृत्तिहेतुज्ञानं वा ॥

न प्रथमः ॥ षष्ठयर्थस्य विषयविपयिभावव्यतिरेकेणासंभवात् साध्याविशिष्टत्वात् ॥ न द्वितीयः उभयासिद्धेः ज्ञानस्य निराकारत्वात् । तृतीयेपि किं रजतशब्दविषयत्वं वा ॥ नाद्यः । असिद्धेः न द्वितीयः । पूर्वपदज्ञानेनापि रजतपद स्मरणसंभवेन तत्र व्यभिचारात् । न चतुर्थः । विवेकाग्रहवादिनां इदमितिज्ञानस्यापि शुक्तिकालंबनस्य तद्धेतुत्वेन व्यभिचारात् । मैवम् ।

अन्यथाख्यातिवादिना रजतज्ञानं शुक्तिविषयमन्यथाख्यातिरिति वक्तव्यम् । तत्र रजतज्ञानशब्देन योर्थः परेण विवक्ष्यते स एवास्मकं हेतुर्भविष्यति ।

तथा हि न तावदाद्यः कल्पः परेणांगीकर्तुमुचितः व्याघातप्रसंगात् । शुक्तिरजतयोरभेदप्रसंगाच्च । न द्वितीयः । अनभ्युपगमात् । न तृतीयः । शुक्तिकाज्ञानस्याप्यन्यथासंकेतितरजतशब्दस्मृतिहेतुत्वसंभवेनान्यथाख्यातित्वप्रसंगात् । नापि चमुर्थः । यत्र शुक्तिकातदध्यस्ताद्रजतमस्तीतिवाक्यं श्रुतवतः शुक्तिज्ञानमपि रजतार्थिनः प्रवृत्तिहेतुर्भवतीति तस्यापि अन्यथाख्यातित्वप्रसंगात् ।

केचित्पुनारजतविषयं ज्ञानमित्येव हेत्वर्थमुपगम्य रजतान्तरविषयत्वसाध्यमंगीकृत्य साध्याविशिष्टतादोषं परिहरन्ति । तदसत् । रजतघटावितिज्ञाने व्यभिचारात् । अन्यतरासिद्धेश्च । तस्मादुक्त एव परिहारः ।

अपि च ज्ञानत्वं यथार्थमात्रवृत्ति । ज्ञानमात्रवृत्तित्वात् प्रमात्ववत् । शुक्तिका न रजतत्वेन अवभासते यथा मेरुः सर्षपत्वेन । इदं रजततादात्म्यं न प्रत्येतुं शक्यं असत्वात् ।

तस्मादख्यातिपक्ष एव श्रेयान् इति ।

अत्रोच्यते । अन्यदन्यात्मना विषयीकुर्वज्ज्ञानं अन्यथाख्यातिः इत्यंगीकारात् नोक्तदोषावकाशः ।

ननु अन्यस्य अन्यात्मता सती उतासती । असतीति ब्रूमः । असतो न प्रतीतेः इति चेन्न । तस्य उपपादयिष्यमाणत्वात् ।

अत्र केन चित् अख्यातिवादिना प्रलपितम् -

यथा इदं रजतमितिज्ञानं भ्रमः, तथा खंडो गौः, शुक्लः पटः । इत्यादयः सर्व एव सविकल्पकप्रत्ययाः विभ्रमाः प्रसज्येरन् । समानाधिकरणस्य तादात्म्यालंबनत्वात् । तस्य चात्राभावादिति । तदतीव मन्दम् ।

तथा हि, सामानाधिकरण्यप्रत्ययो हि कयोस्तादात्म्यमवलम्बते । किं गुणक्रिया जात्यादेः द्रव्येण । उत गुणानामेव परस्परं, अथ गुणाश्रयस्य क्रियाश्रयेणेत्यादि ।

नाद्यः, असंमतेः, न हि शुक्लः पट इत्यस्य शौक्ल्यं  पट इत्यर्थो अभिमतो लौकिकानाम् । न च चलति पट इत्यस्य चलनं पट इत्यर्थोऽभिमतः । नापि खण्डो गौरित्यत्र खण्डत्वगोत्वयोः पिण्डैक्यं संगतम् । तथात्वे दण्डी देवदत्तः इत्यस्यापि दंड देवदत्ततादात्म्यविषयतापत्तेः ।

दण्डो इत्यत्र भेदज्ञापकः प्रत्ययोस्तीति चेत् शुक्लः पट इत्यत्रापि अर्शआदिभ्योजित्यकारप्रत्ययविधानात् ।

चलतीत्यादौ तु स्फुट एव प्रकृतिप्रत्यययोः अर्थभेदः ।

अत एव न द्वितीयः । न हि शुक्लः पटश्चलतीत्यस्य शौक्ल्यं पटत्वं चलनञ्च एकमित्यर्थः चेतसि चकास्ति प्रतिपत्तॄणाम् । तथा सति दण्डी कुण्डली देवदत्त इत्यस्यापि ज्ञानस्य दण्डदुण्डलदेवदत्ततादात्म्यविषयतापातात् ।

तृतीयस्तु स्यादेव । समानं एकं अधिकरणम् । एषां भावः सामानाधिकरण्यम् ।

न चाश्रयभेदे तस्य समानता अस्ति । विशिष्टयोः गुणक्रियाश्रययोः भेदेऽपि न विशिष्टस्य गुणाधिकरणत्वं किन्तु तदाश्रयता निश्चितस्य वस्त्वंतरस्य ।

यत्सन्निकृष्टकरणेन यज्ज्ञानं उत्पद्यते स तस्य विषय इत्यंगीकारात् । संनिकर्षस्यापि ज्ञानकारणतया विवक्षितत्वेन तस्यासंबद्धत्वात् ।

न हि चक्षुरादेः आकाशादिना संनिकर्षो रूपादि ज्ञानकारणम् । किं नाम, असौ अवर्जनीय संनिधिरेव । कथं तर्हि वाच्यादिना संनिकर्ष उच्यते ।

संसर्गधर्मकपदार्थवाचि पदसमुच्चयरूपवाक्यविषयताज्ञानेन वाक्यार्थज्ञानं जन्यते । तद्व्याप्यलिङ्गविषयेण च लिङ्गज्ञानेन लिङ्गिज्ञानमुत्पद्यते । तदनुभवजनितसंस्कारजन्या इन्द्रियेण प्रत्यभिज्ञा जायते । इति नातिप्रसङ्गः ।

न हि संयोगादिरेव संनिकर्षः । किं नाम प्रत्यासत्तिमात्रम् । तथापि आत्मसंनिकृष्टमनसा रूपज्ञानं जायते इति तस्यात्मविषयः स्यादिति चेन्न । असाधारणकारणस्य विवक्षितत्वात् । मनश्च साधारणत्वात् ।

तर्हि मनःसन्निकृष्टेन चक्षुषा जायमानं रूपज्ञानं मनोविषयमापन्नमिति चेत् न । संनिकर्षस्यापि असाधारणकारणतया विवक्षितत्वात् । चक्षुर्मनः संनिकर्षो हि द्रव्यादिज्ञानसाधारणः ।

एवं जन्यज्ञाने विषयत्वस्य अन्यथाव्यवस्थितत्वात् यद्यदज्ञानं यत्प्रतिभासं इत्यन्यथा परिभाषणं अनुपपन्नम् न चैवं सत्यनुभवविरोधः । रजतावभासस्य शुक्तिकासन्निकृष्टकरणजन्यत्वेन तद्विषयत्वोपपत्तेः ।

न चातिप्रसंगः दोषजन्यत्वतदभावादिना व्यवस्थोपपत्तेः अन्यथा रजतज्ञानात् अरजते प्रवृत्तावपि कथं नातिप्रसंगः ।

अस्तु वा यद्विज्ञानं यत्प्रतिभासं तत्तद्विषयं इत्येव व्यवस्था । तथापि नानुभवविरोधः ।

शुक्तिरजताभासस्य शुक्तित्वविषयतायां अनुभवविरोधं ब्रूषे उत इदन्ताकारस्य ।

आद्ये संप्रतिपत्तिः । न हि वयं अस्मिन्प्रत्यये शुक्तिर्नावभासत इति ब्रूमः येन विरोधः स्यात् । शुक्तित्वप्रतिभासस्य रजतावभासविवादभावात् ।

द्वितीये तु न कश्चिद्विरोधः । विरोधे वा समीचीने रजते इदं रजतमिति प्रतीतिर्न स्यात् ।

एवं सति रजतस्यापि ज्ञानविषयता प्रसज्यत इति चेत् । सत्यम् । इष्टमेवैतत् ।

न चैवम्, अन्यथाख्यातिपक्षपातः ज्ञानैक्याभ्युपगमात् । नापि शुक्तिरजतमितिज्ञानं विभ्रमः प्रसज्जते, रजतस्य असत्वाभ्युपगमात् । तादात्म्यावभासस्य अभ्युपगमाच्च ।

न चान्यथाख्यातिजनने कारणाभावः । इन्द्रियादेरेव तत्कारणत्वात् । समीचीनज्ञानकारणस्यापि दोष कलुषितस्य विभ्रम हेतुत्वोपपत्तेः ।

न च दोषाणां स्वारसिकशक्ति विरोधतामात्रमितिवाच्यम् । तथा सति समीचीनव्यवहार हेतोर्विज्ञानादन्यथाव्यवहारजन्यानुपपत्तिप्रसंगात् ।

किं च सहकारिमात्रस्य विपरीतशक्याधायकत्वं दोषाणामेव वा ।

आधे पशुहिंसा किं धर्मजनने स्वारसिक शक्तिमती उत अधर्मजनने इति वाच्यम् । आद्ये कथं क्रतुनाद्यापि धर्म न जनयेत् । द्वितीये कथं क्रत्वन्तर्गताऽपि धर्मं जनयेत् । सहकारिवशादिति चेत् । अङ्गीकृतं तर्हि सहकारिणा स्वारसिकशक्तिप्रतिरोधेन विपरीतशक्त्याधायकत्वम् ।

न द्वितीयः । नियामकाभावात् ।

किञ्च, काचादयोऽपि विपरीतज्ञानजनने सहकारिण एव अंगीक्रियन्ते, दोषत्वं तु इष्टकार्यविघातितामात्रेण उच्यते कामुकस्य कामिनीविभ्रमेषु गुणत्वाभिमानात् ।

न चैवं भर्जिताः कुटजधानाः वटांकुरं कुतो न जनयन्तीति वाच्यं, पदार्थशक्तिवैचित्र्यात् ।

केचित् वस्त्वंतरशक्तिमेव प्रतिबध्नन्ति यथा भर्जनादयः । केचित् सहज शक्तिप्रतिबन्धेन विपरीतामपि शक्तिमादधति । यथा विस्य मारकत्वशक्तिं प्रतिबध्य आरोग्यादिजननशक्तिमादधानाः पदार्थः ।

गुणा एव न ते दोषाः इति चेत् । काचादयोऽपि गुणा एव न ते दोषाः इत्युक्तमेव ।

ननु जनकस्यैव साक्षात्कारिप्रत्ययविषयत्वं दृष्टम् । न च रजतस्येदं न तादात्म्यस्य वा सतो जनकत्वं अस्ति । तत्कथं विषयत्वमिति । मैवम् । तथा सति ईश्वरज्ञानस्य नित्यस्य अर्थो विषयो न स्यात् । प्रत्यभिज्ञानस्य तदंशों विषयो न भवेत् ।

तत्र निरूपकत्वादिमात्रेण विषयतांगीकारे रजतादेरपि ज्ञाननिरूपकत्वेन विषयत्वोपपत्तेः, कथं, असतो निरूपकत्वमिति चेत् न । गुरूणां टीका, कुरूणां क्षेत्रं इति वदुपपत्तेः । अतीतादिविषयानुमित्यादि व्यावर्तकत्वं च प्रमेयस्य न स्यात् ।

तत्र व्यावर्तकं कदाचिदस्ति रजतादिकं कदापि नास्तीति वैषम्यमिति चेत् । तत्किं यदाकदाचित् सत: कारणत्वं, पूर्वक्षणे सतो वा, नाद्यः । अतिप्रसंगात् । द्वितीये तु किमनेन ।

अथ न अतीतादिरर्थः स्वसामर्थ्येन अनुमित्यादिकं तु व्यावर्तयति येन तत्सत्तापेक्षा न स्यात् ; किन्तु करणजन्यं ज्ञानमर्थं व्यावर्तुमेव जायते, करणजन्यादेवेति चेत् समं प्रकृतेऽपि ।

किञ्च सत्यस्थलेऽपि न साक्षात् साक्षात्कारं प्रतिकारणत्वं अर्थस्य किन्तु इन्द्रियसंनिकर्षस्यैव । स च यत्रासतानोपपद्यते तत्र अर्थसत्तामपेक्षते इति पारम्पर्येणैव अर्थस्य कारणत्वम् ।

ननु तर्हि असता रजतादिना संनिकर्षायोगात् कथं इन्द्रियेण तज्ज्ञानजन्मेति चेन्न । शुक्तिकासंनिकृष्टं दुष्टमिन्द्रियं तामेव अत्यन्त सद्रजतात्मना अवगाहमानं ज्ञानं जनयतीत्यंगीकारात् । अत एव न असत्ख्यातिप्रसंग: ।

यावत्खलु विगीते प्रत्यये भासते तस्य सर्वस्यासत्वे असत्ख्याति: स्यात् ।

न चैमित्युक्तम् । यच्चोक्तं विषयव्यभिचारे ज्ञानस्य सर्वत्रानाश्वास इति तदौत्सर्गिकम् । ज्ञानानां प्रामाण्यं अपवादाद्विपर्ययः इति वदताआचार्येणैव परिहरिष्यते । साक्षी खलु चैतन्यरूपो नियतपर्यायः, कदाचिदपि शंकमान

शंकितोन्तःकरणवृत्तीनां याथार्थ्यं स्वयमेव गृहाति । परीक्षा सहकृतस्तु अयाथार्थ्यमिति बादरायणीयं मतम् ।

अत एव अनाश्वासनिरसनोपायो न ज्ञानेषु कश्चिद्विशेषोऽस्तोति तिरस्तम् । अन्यथा परस्यापि कथं विषयव्यभिचारे व्यवहृतेः व्यवहारान्तरे समाश्वासः स्यात् । तदभावे च कथं व्यवहारदर्शनेन अन्वितार्थे व्युत्पत्तिः ।

क्वचित् विवेकाग्रहे च कथमन्यत्र विशिष्टप्रत्यये विश्वासो भवेत् । तदभावे च कथं निःशंकाप्रवृत्तिः बाधकाभावादिना समाश्वासस्तु परोक्तरीत्यैव निरस्तः । किं च प्रवृत्युत्तरकालीनो बाधकाभावः कथंनिःशंकप्रवृत्तौ उपयुज्यते ।

बाधकाभावादिना विशिष्टज्ञानस्वरूपनिश्चयं अंगीकुर्वाणः कथं स्वप्रकाशविज्ञानवादं न जह्यात् । औत्सर्गिकी प्रवृत्तिः अपवादान्निवृत्तिरिति चेत् । समं प्रकृतेऽपि ।

यदप्युक्तम् विपरीतख्यातिपक्षे ज्ञानं साकारमापतेदिति तदप्यनुपपन्नं, अत्यन्तासत एवाकारस्य स्फुरणांगीकारात् अन्यथा व्यवह्रियमाणस्याकारस्य बहिरभावात् व्यवहारोऽपि तदाकारः प्रसज्येत । यस्तु रजतज्ञानस्य स्मृतित्वे परिशेषोपन्यासः सोऽपि प्रत्युत्पन्नकरणदुष्टेंद्रियादि जन्यतोपपादनात् परिशेषानुपपत्तेरयुक्तः ।

अनाकलितरजतस्यानुत्पद्यमानत्वं च गगनादौ अनेकान्तिकम् । रजतज्ञानवत एव उत्पद्यमानत्वं विवक्षितमिति चेन्न । तथापि रजतसंस्कारव्यवहारादौ व्यभिचारात् ।

ज्ञानत्वे सतीतिविशेषणादयमदोष इति चेन्न । रजत निर्विकल्पक ज्ञानवत एव उत्पद्यमाने रजतसविकल्पकानुभवे व्यभिचार तादवस्थ्यात् ।

रजतसविकल्पकज्ञानवत एव उत्पद्यमानज्ञानत्वं विवक्षितमितिचेन्न हानादिबुद्धिष्वनैकान्तिकताsनिस्तारात् ।

संस्कार मात्र सहकृत मनोजन्यत्वोपाधिग्रस्तंचानुमानम् ।

न चानेनैव हेतुना, अस्य पक्षे साधनं, व्यभिचारस्योक्तत्वात् । किञ्चेदं स्मरणत्वं साध्यं, न तावत्सामान्यं गुणेषु प्राभाकरैरभ्युपगतम् ।

अननुभवत्वमिति चेत् । तदपि किमनुभवादन्यत्वं, अनुभवत्वानधिकरणत्वं वा । आद्ये अनुभवस्यापि तत्संभवेन

सिद्धसाधनना स्यात्, द्वितीये अनुभवत्वं किमिति वाच्यम् स्मृत्यन्यत्वमिति चेन्न । स्मृतावपि प्रसंगात् । इतरेतराश्रयप्रसक्तेश्च ।

ज्ञानसंस्कारमात्रप्रभवत्वं स्मृतित्वमिति चेन्न । मानसप्रत्यक्षजः स्मृतिरित्यस्माभिरंगीकृतत्वेन पक्षस्य अप्रसिद्धविशेषणत्वात् ।

दृष्टांतस्य साध्यवैकल्याच्च । किञ्च इन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतज्ञानं तत्कार्यमित्यसीयते ।

तथा च बाधितविषयत्वम् । अन्वयव्यतिरेकयोः अन्यत्र उपयोगात् नैवमिति चेत्, न किमस्य स्मृतित्वे सिद्धेऽन्यत्रोपक्षयः कल्प्यते, उत, एवमेव । नाद्यः, तदभावात् अस्मादेवानुभानात्तत्सिद्धौ अन्योन्याश्रयप्रसंगात् । न द्वितीयः, समीचीनरजतप्रत्ययेऽपि तथात्वप्रसंगात् । अन्यत्रोपक्षयः शंक्यत इति चेन्न । तथापि संदिग्धकालातीततानिस्तारात् । समीचीनरजतानुभवेऽपि कथमन्यत्रानुपक्षयो निश्चितो भवता ।

अननुभवत्वनिश्चयादिति चेन्न । इन्द्रियव्यापारस्यान्यत्रोपयोगशंकया अनुभवत्वस्यापि सन्दिग्धत्वात् । पुरोवर्तिव्यवहारसंवादादनुभवत्वसिद्धिरिति चेन्न । संवादानुभवस्याप्यनिश्चितत्वात् । असति बाधके न वृथा अन्यत्रोपायः शंक्यत इति चेत् । समं प्रकृतेऽपीति ।

एतेन प्रत्युत्पन्नकारणप्रभवत्वं स्मृतित्वमित्यपि परास्तम् ।संस्कारोत्पत्यनन्तरमेव जतायां स्मृतौ अनैकान्तिकत्वं च ।

अनुभूतविषयत्वं स्मृतित्वमिति चेन्न । द्वितीयादिभ्रमे सिद्धसाधनत्वात्, साध्याविशिष्टता प्रसंगाच्च ।

तत्तांशोल्लेखित्वं स्मृतित्वमिति चेन्न । अनुभवबाधितत्वात् । एतेन ज्ञानसंभिन्नार्थगोचत्वमित्यपि परास्तम्

अनेनैव प्रतिपक्षानुमानद्वयमपि समाहितं वेदितव्यम् । नेदं स्मृतिरिति व्यवहर्तव्यम् । तत्रोल्लेखादिस्मृतिचिह्नविकलत्वादिति प्रथमप्रयोगे विवक्षितत्वात् । अत एव तिक्त-गुडादिप्रत्ययप्रक्रियापि परास्ता ।

अन्यथाख्यातौ किं प्रमाणमिति चेत् अनुभव एवेति ब्रूमः ।

तथाहि पुरोवर्तिनि रजते रजतमिदमिति विशिष्ट-विषययेकमेव विज्ञानं स्वप्रकाशतया वा मानसप्रत्यक्षेण वा साक्षिणा वा अवभासते ।

तथा इदमपीति कुतोऽस्य न विशिष्टवियैकज्ञानत्वम् । न हि ततोऽयं मात्रयापि विशेषं पश्यामः । दर्शने वा अस्मत्प्रवृर्त्तिन स्यात् ।

इयांस्तु विशेषः । एकं तावद्विषयसद्भावात् यथार्थं तदभावात् अपरमयथार्थम् । अवशिष्टविषयमनेकमपि ज्ञानं विशिष्टविषयैकज्ञानत्वेन प्रतिभासते इति चेन्न । अन्यस्यापि विशिष्टविषयैकत्वे समासाश्वासासंभवप्रसंगात् ।

विपर्ययांगीकारप्रसक्तेश्च ।

नास्त्येव विशिष्टविषयैकत्वग्राहि प्रत्ययः इति चेन्न ।

अनुभवसिद्धज्ञानापलापे, स्मृत्यनुभवस्वरूपापलापप्रसंगात् किं च रजतार्थिनः शुत्तिकायां प्रवृत्तिः अन्यथा अनुपपन्ना अन्यथाज्ञानमक्षिपति ।

नन्वियं प्रवृत्तिः स्वरूपतोविषयतश्च अगृहीतभेदात् वेदनद्वयादुपपद्यते । इति चेत् । कोयं भेदो नाम, किं स्वरूपं, उत पृथक्त्वं, उत अन्योन्याभावः, अथवा वैधर्म्यम् न प्रथमः स्वप्रकाशज्ञानज्ञेयप्रतिभासे तदनवभासानुपपत्तेः । न द्वितीयः । गुणे गुणानभ्युपगमात् । तृतीये वक्तव्यं किं इदं रजतत्वयोः अन्योन्याभावो नावभासते उत इदं रजतयोरिति । नाद्यः, अपर्यायशब्दस्मारकयोः जातिव्यक्तोः तदनवभासासंभवात् ।

किञ्च अन्योन्याभावो नाम अन्योन्यस्वरूपमेव परस्य । तच्चोपलब्धमिति कथं तदनुपलंभः । अत एव न द्वितीयः । नापि चतुर्थः ।

रजतासम्भाविनः पुरोवर्तिनि इदं त्वत्य पुरोवर्त्यसंभविनश्च रजते रजतत्वस्य गृहीतत्वात् । इदं रजतत्वयोः असंसर्गाग्रहो विवक्षित इति चेन्न ।

असंसर्गे हि संसर्गस्याभावः, इदं रजतत्वयो स्वरूपमेव परेषामिति कथं तदवभासेन अवभासेत ।

विपर्ययाभ्युपगमवादिभिरपि भेदाग्रहो अभ्युपगमनीय एव ।

तत्रापि किं भेदः स्वरूपमित्याद्युक्तदोषः समान इति चेन्न । भेदस्य स्वरूपतावन्मात्रत्वानभ्युपगमात् अथ मन्यसे पुरोवर्तिनो यः, शुक्तित्वादि धर्मो रजतव्यावर्तको, श्च रजते व्यवहितदेशत्वादिधर्मः पुरोवर्तिव्यावर्तकः तयोरग्रहणं प्रवर्तकमिति । तदसत् ।

पुरोवर्तिशुक्तित्वाग्रहे शुक्तिकार्थी न तत्र प्रवर्तेत रजतस्य चासन्निहितत्वादिधर्माग्रहे रजतार्थी न तत्र प्रवर्तताम् ।

रजतार्थिनः पुरोवर्तिनि प्रवृत्तिस्तु कुतः ।

किं च भेदाग्रहादन्यार्थिनोऽन्यत्र प्रवृत्तिं आचक्षाणः प्रष्टव्यः ।

किं अयमेव व्यवहारो भेदाग्रहादन्यस्त्वभेदग्रहात् उत सर्वोपि भेदग्रहादिति । नाद्यः । अनियतकारणतापातात् ।

ननु च अर्थभेदग्रह एव सर्वत्र प्रवर्तकः । तत्सारूप्यात् भेदाग्रहोपीति चेन्न । अनियत हेतुकत्वानिस्तारात् अन्यथा कृशानुसदृशात् गुञ्जापुञ्जात् तच्छीतनिवृत्तिप्रसंगात् ।

अपि चेदं ज्ञानद्वयं प्रवर्तक सादृव्यमात्रात् यदि प्रवृत्तिं उपजनयेत्, निवृत्तिमपि कुतो न जनयेत् । अस्ति हि तत्र निवर्तकभेदग्रहसारूप्यं अभेदाग्रहणम् ।

ननु च यथा भेदाग्रहो भवतां, अभेदग्रहं जनयति तथा प्रवृत्तिमपि किं न जनयेदिति । मैवम् । वैषम्यात् ।

ज्ञानजनने हि कारणानां स्वातन्त्र्यं न पुरुषस्य प्रवृत्तिजनने । तानि च यादृश सामग्रीमध्यपतितानि तादृशं ज्ञानं उपजनयन्ति । न तु पुरुषकांक्षां अपेक्षन्ते । हेयोपेक्षणीयज्ञानजननात् । प्रवृत्तौ तु पुरुष एवं स्वतन्त्रो न ज्ञानम् । स हि सत्यपि ज्ञाने अपेक्षित एव प्रवर्तते । नतु ज्ञानं जातमित्येवोदासीनविपरीतयोरपि ।

तथा च भेदाग्रहदोष कलुषितानि नयनादीनि विपर्यय जनयन्ति ।

नापि सर्वोऽपि व्यवहारो भेदाग्रहात्प्रवर्तते इति सांप्रतं कुत्रापि विशिष्टज्ञानाभावप्रसंगात् ।

किञ्च, एवं सति सविकल्पकप्रत्यक्षोच्छेदप्रसंग: ।असंसर्गाग्रहस्य वस्तुमात्रग्रहस्य च निर्विकल्पकज्ञानसाम्यात् । अतः संसर्गग्रहादेव सविकल्पकोपपत्तिः । न च निर्विकल्पकस्य प्रवर्तकत्वमस्ति ।

प्रतिभासमानयोः जातिव्यक्तोः संसर्गाग्रहे सति  संसर्गग्रहोऽवर्जनीयसंनिधिः इति चेन्न । उक्तविपर्ययस्यापि वक्तुं शक्यत्वात् ।

अवश्यञ्चैतदेवम् । व्यवहारो हि व्यवहर्तव्योपलम्भनिमित्तोयुक्तो न तु व्यमहरणीयानुपलब्धिनिबन्धनः ।

नहि घटव्यवहारो घटतिमतिक्रम्य तद्विपर्ययाप्रतिभासे सति भवति ।

तदमीप्रयोगाः । विमतोव्यवहारः व्यवहर्तव्यज्ञानपुरःसरः व्यवहारत्वात् घटव्यवहारवत् ।

विवादपदं रजतज्ञानं, इदं ज्ञानान्नभिद्यते । प्रकाशमानात्ततो अप्रकाशमानभेदत्वे सति प्रकाशमानत्वात् संप्रतिपन्नरजतज्ञानवदित्यादयः ।

किं च विपर्ययाभावे नेदं रजतमिति विवादपदं ज्ञानं पुरोवर्तिविषयं तद्विषयव्यवहारजनकत्वात् संमतवत् पुरोवर्ती वा, रजतज्ञानगोचरः, रजतानुपायत्वे सति तदर्थिप्रवृत्तिविषयत्वात् सम्यग्रजतवत् ।

ज्ञानस्य बाधकत्वमनुपपद्यमानं तं गमयति । न हि तथात्वे बाधकमस्ति । न तावद्ग्रहणनिवर्तकतया बाधकत्वं सर्वप्रत्ययानां तथात्वापातात् । तेषामपि प्रागभावनिवर्तकत्वात् । नापि व्यवहारविच्छेदकत्वेनातदर्थिनां व्यवहारानुपपत्तौ नेदं रजतमिति ज्ञानस्य बाधकत्वप्रसंगात् । व्याघ्रचोरादिज्ञानस्यापि प्रवृत्तिविच्छेदकत्वेन बाधकत्वप्रसक्तेश्च । न चार्थस्य व्यवहारयोग्यताविनाशकत्वेन समयांतरेऽपि तत्र विभ्रमात् प्रवृत्यभावापत्तेः ।

न च व्यवहारप्रतिबंधकत्वेनाविवेकनिवृत्तौ कारणाभावादेवव्यवहारानुत्पत्तेः ॥ प्रतिबंधककल्पनायोगात् । व्याघ्रादिदर्शनस्य बाधतापत्तेश्च ।

विमतं अयथार्थं बाध्यत्वात् व्यवहारवत् । अत एव भ्रांतित्वप्रसिध्यापि विपर्यासप्रसिद्धिः । एवं सति प्रत्ययत्वानुमानं कालात्ययापदिष्टं वेदितव्यम् । अदुष्टकरणजन्यत्वोपाधिग्रस्तं च ।

एतेन रजतज्ञानत्वानुमानमपि निरस्तम् । अन्यथा विमतो व्यवहारः यथार्थः व्यवहारत्वात् संप्रतिपन्नवत् । रजतविषयो व्यवहारो यथार्थो भवितुमर्हति रजतव्यवहारत्वादित्यपि स्यात् ।

यदपि ज्ञानत्वं यथार्थमात्रवृत्तीत्यादि । तत्र किमिदं ज्ञानत्वं सामान्यं वा प्रतिनियतं वा । नाद्यः । वादिप्रतिवादिनोराश्रयासिद्धेः । द्वितीये यथार्थज्ञानवृत्तिज्ञानत्वेषु सिद्धसाधनता ।

विमतज्ञानवृत्तिज्ञानत्वपक्षीकारेपि मात्रेति कथं स्यात् । तत्त्यागेन च प्रतिज्ञाने प्रथमानुमानदोष एव ।

किं च यथार्थमात्रवृत्तीत्ययथार्थवृत्तित्वमात्रं वा विवक्षितं उतायथार्थज्ञानवृत्तित्वम् । आधे सिद्धसाधनम् । अयथार्थव्यवहारावृतित्वस्य सिद्धत्वात् ॥द्वितीये परस्याप्रसिद्धविशेणता । अदुष्टसामग्रीजन्यमात्रवृत्तित्वमुपाधिश्च ।

यच्च शुक्तिकारजतत्वेन नावभासत इत्यादि । तदप्यसत् । मेरुसर्षप इत्यादिवाक्यान्मेरोरपि सर्षपत्वेन प्रतिभासात् । दृष्टांतस्य साध्यवैकल्यात् । अन्यथा तथाविधं वाक्याभासं श्रुतवता तत्प्रतिषेधो न क्रीयेत । अप्रसक्तत्वात् ।

न हि पदार्थप्रतिषेधो युक्तः । यदपि इदं रजत-तादात्म्यमित्यादि । तच्चायुक्तम् । तदप्रतीतावाश्रयासिद्धेः । प्रतीतौ व्याघातात् । दृष्टांतस्य साध्यसमत्वाच्चेत्यास्तां विस्तरः ।

कश्चित् पुनरेवमाह । तासां त्रिवृत्तं त्रिवृत्तमेकैकामकरोदित्यादि श्रुतेः । समेत्यान्योन्यसंयोगमित्यादिपुराणात् त्र्यात्मकादित्यादिसूत्राच्च सर्वस्य सर्वात्मकत्वं च प्रतीयते ।

किं च सोमाभावे पूतीकाग्रहणं व्रीह्यभावे च नीवारग्रहणं च । अन्यथानुपपद्यमानं पूतीकनीवारयोः सोमव्रीह्यवयवसद्भावं गमयति ।

अपि च वस्तुनो वस्त्वंतरसादृश्यं प्रत्यक्षत एव प्रतीयते । न च तद्रव्यावयवयोगादन्यत्सादृश्यं नामास्ति अतः शुक्तिकादिषु रजतादेः सद्भावाद्यथार्थएवायं रजत प्रत्ययः । निर्देशव्यवस्थार्थक्रियाव्यवस्था च भूयस्त्वादुपपद्यते । दोषवशादिंद्रियभूयांसमप्यंशं परित्यज्याल्पीयांसमंशं प्रकाशयतीति रजतार्थिनः तत्र प्रवृत्तिरपि युज्यते । अपगते तु दोषे भूयसत्वांशस्योपलंभे निवर्तते । बाध्यबाधकभावोऽपि ज्ञानयोरत एवोपपद्यते । पीतशंखादौ नयनवर्ति पित्तद्रव्यसंभिन्ना नयनश्म्यः शंखादिभिः संयुज्यन्ते । ततः पित्तगतपीतिमाभिभूतः शंखगतशुक्लिमा न गृह्यते । अतः सुवर्णानुलिप्त शंखवत् पीतःशंख इति प्रतीयते । एवं स्वप्न स्फटिकलौहित्य मरीचिकाजलादिप्रत्ययाः सर्वे यथार्था बोद्धव्या इति । तदिदमयुक्तम् । तथाहि नहि कारणसद्भावे कार्यसद्भावो नियतो येनोपपत्यापीममर्थंप्रतीमः । तथात्वेवाशक्तौ रजतवत् सर्वस्यापि प्रतीतिः प्रसज्येत । अदृष्टादिवश नैवमिति चेन्न । कार्यनिश्चयोत्तरकालीनत्वादस्या कल्पनायाः ।

श्रुत्यर्थपत्तिस्तु अत्यंतायुक्ता । तथा हि । पूतिकादौ किं सामान्यवयवाभूयांसः संतीति कल्प्यं, उत समाः, अथाल्पीयांसः । आद्येनोपपद्यत एवासौ । तत्कथमनुकल्पस्यात् । न हि सोमोपि केवलसोमः । किंतु सोमांशभूयस्त्ववान् । न द्वितीयः । उभयदर्शनप्रसंगात् । तृतीये तत्कथं सोमकार्य कुर्यात् । अन्यथा शक्तिकापि कुतो रजतार्थक्रियां न कुर्यात् । श्रुतिप्रामाण्यात् तदर्थक्रियाकारितागम्यत इति चेत् । किं तर्हि सोमावयवसद्भावकल्पनया श्रुतिप्रामाण्यादेवत्यंत विविक्तानामेव वस्तूनामर्थक्रियासाम्यमुपगम्यताम् । सादृश्यं च सामान्यं वा धर्मातरं वो  नान्योन्यावयवसंयोग इति वक्ष्यामः ।

किं च घृततैलयोः अन्योन्यसदृशयोः अन्योन्यायवसंयोगात् अन्योन्यार्थक्रियया भाव्यम् । न भाव्यं च विसदृशयोः द्रव्ययोः । किं च मातृमातंगभदिराद्यति सादृश्यं भार्यादिष्वस्तीति तदुपभोगे प्रत्यवायः स्यात् ।

अल्पावयवयोगान्नैवमिति चेत् कथं तर्हि नीवाराव्रीहि कार्यं कुर्युः । श्रुतिप्रामाण्यादिति वदतो दत्तमुत्तरम् । अपरावयवसंयोग एवं सादृश्यं चेत् कथं ककारखकारयोः सादृश्यमिति चिन्त्यम् ।

रजतार्थिनः शुक्तिकायां प्रवर्तकं च किं भूयांसां शुक्त्यवयवानां अदर्शनं । उताल्पीयसां रजतावयवानां दर्शनं उतोभयम् । नाद्यः सुप्तस्यापि प्रवृत्तिप्रसंगात् । द्वितीये किं तेषां अल्पीयस्त्वज्ञानं उत भूयस्त्वज्ञानं अथवा ज्ञानमतम् । आद्ये तस्या रजतत्वमेव विदितमिमिति कथं ततः प्रवृत्तिः । द्वितीये अन्यथाख्यातिप्रसंग: । तृतीये सदृशमात्रे प्रवृत्तिप्रसक्तिः । न तृतीयः । किमपि तत्रास्तीति ज्ञानादपि प्रवृत्तिप्रसंगात् ॥

कथं वाऽस्य ज्ञानस्य भ्रांतित्वम् । अल्पांशग्रहणादिति चेत् । नूनं ब्रह्मज्ञानमपि महाभ्रांतिप्रायं नाम । अत एव न बाधस्य बाधकत्वमपि । पित्तगतपीतिमालिप्तश्चेच्छंखः कथं तर्हि न तथा पार्श्वस्थेन गृह्यते । सूक्ष्मत्वादिति चेत् किमिदं सूक्ष्मत्वं । अतींद्रियत्वं चेत् । न तर्हि भ्रांतेनापि दृश्येत । अन्यत्वे किमनेन ।

पित्तोपहतेन तु सामीप्यादृश्यत इति चेत् । किमिदं सामीप्यं नाम इन्द्रियसंनिकर्षश्चेत् । स तर्हि उभयोः समानः । शरीरसामीप्यं चेत् । अनुपयुक्तम् । अन्यथा परशशरीरसमीपस्थानां दंडकुलादीनां अदर्शनप्रसंगात् । पीतः शंख इति प्रतीयत इति कोर्थः । किं पीतरूपवत्तयेति उत पीतरूपद्रव्यसंयुक्ततयेति । नाद्यः । अन्यथाख्यातिप्रसंगात् । द्वितीये अनुभवविरोधः ।

अन्यस्तु मन्यते गृह्यमाणयोर्भेदाग्राहिसविकल्पकमेकविज्ञानं विभ्रमम् । तथा हि । रजतसंस्कारदोषसचिव मिन्द्रियं शुक्तिशकलसन्निकृष्टं रजतशुक्तीदमंशविषयं तत्संसर्गासंसर्गानवगाहमानमेकमेव सविकल्पकं ज्ञानमुत्पादयति । तथा च तयोरेकविज्ञानोपारोहिणोर्भेदाग्रहादयथार्थव्यवहारः । तन्निरासादेव विवेकज्ञानं बाधकमित्युच्यते । न पुनरन्यदन्यात्मना प्रतीयत इति । तदिदमनुपपन्नम् । विवेकाग्रहः किं सर्वत्र प्रवृत्तिहेतुः । उतात्रैवेति । प्रागुक्तविकल्पदोषाणां अशेषाणां अविशेषात् ।

किं च प्राभाकराणां वेदप्रामाण्यसिध्यंगतया अस्त्याख्याति स्वीकारे प्रयोजनमिति विद्यते भ्रमः । करणभक्षाक्षचरणपक्षपातनायातस्मिंस्तदिति प्रत्ययोविपर्यय इत्यादि पूर्वाचार्यवचनमनादृत्य परमतप्रमोषः कस्मादिष्यते । असत्ख्याति-परिहारार्थमिति चेन्न । तथासत्ययथाव्यवहारस्यापि परिहारप्रसंगात् । न ह्यत्प्रत्येतुमशक्यं । शक्यं तु व्यवहर्तुरित्यत्र कारण विशेषोस्ति । व्यवहारः प्रतीतिसिद्ध इत्यलम् ।

ननु विपर्ययाभ्युपगमे कथं वेदप्रामाण्यसिद्धिः । वेदजनितप्रत्ययेपि विपर्ययाशंकाप्रसारादिति चेन्न । तथा सति भेदाग्रहस्याप्यनंगीकार्यतापातात् ।

तथा हि । न तावद्वेदवाक्यं पदार्थेषु प्रमाणम् । तेषां अन्यतोधिगतत्वात् । नापि संसर्गे विनापि संसर्गग्रहं असंसर्गाग्रहेणैव व्यवहारान् पश्यतो वेदजनितविज्ञानेपि शंकाप्रसरात् । अपौरुषेयत्वादिना सा निरसिष्यते चेत् किं तर्हि सकललोकावसितविपर्यासनिरासेन तच्छंकाया अपि अत एव निराकर्तुं शक्यत्वादिति ।

शुक्तिकैव रजततयाऽवभासत इति तावत्सिद्धम् तत्रारोप्यमाणं रजतं सदेवेति केचिदातिष्ठन्ते । तथा हि । यद्धि यथावभासते तत्तथैवेत्यौत्सर्गिको न्यायः । अपवादस्तु बलवद्बाधकोपन्यासात् । तथा चेदं रजतं च तत्तादात्म्यं चेति त्रितयमिहावभाते । इदं रजतत्वं च तत्संसर्गश्चेति वा । तत्र रजतत्वयोरिदमंशस्य च बाघाभावान्नासत्वमुपपद्यते । संवाद सद्भावाच्च । तत्तादात्म्यस्य संसर्गस्य वा बाधकाद्विसंवादाच्चासत्वमस्तु । यथोक्तम् । असंभवि च यावत्तुतावत्संपरिहीयतामिति ।

नच नेदं रजतमिति बाधबोधो रजतस्याप्यसत्वमावेदयतीति वाच्यम् । तस्य तादात्म्यमात्रगोचरत्वेनोपपत्तौ रजनगोचरत्वकल्पनायां गौरवप्रसंगात् । यथाहुः । एकदेशापवादेन कल्प्यमाने तु बाधके । न सर्वबाधनं युक्तमिति न्यायविदः स्थिता इति ।

किं च रजतस्यात्यंतासत्वे प्रतिभासो नोपपद्यते स्थिते चैवं सत्वे बाधसमये पुरोऽदर्शनाद्देशांतरसत्वमास्थीयते । दोषदूषितं चक्षुशुक्तिकाशकलमात्र सन्निकृष्टमपि विप्रकृष्टरजतात्मना तद्दर्शयतीति को दोष इति । एतदप्ययुक्तत् । सत्वेति रजतस्यासदेव रजतं प्रत्यभादित्यनुभवविरोधात् । अत्रासत्वेऽपि अन्यत्र सत्वमंगीक्रियत इति चेन्न । अत्रप्रतीतस्यैवान्यत्रसत्वे मानाभावात् ।

तथा हि । भ्रांत्यनुभवो वा तत्र प्रमाणम् बाधानुभवो वा भ्रांत्यनुपपत्तिर्बाधानुपपत्तिर्वा । नाद्यः । तस्य प्रमात्वात् । अत्रैव सत्तावेदकत्वाच्च । न द्वितीयः । तस्येदं रजतनिषेधात्मनोरन्यत्र सत्वासत्वयोरौदासीन्यात् । न तृतीयः । भ्रांतेः पुरोवर्ति इन्द्रियदोषादिभिर्विनानुपपद्यमानायास्तन्मात्राक्षेपहेतुत्वात् । असत्वे कथं प्रतीतिरिति चेत् । सत्वेपि कथम् ।

नात्र सत्वमत्र प्रतीतेरुपकारि इन्द्रियसंनिकर्षार्थं व तदास्थेयं संस्कार सिद्धार्थं वा । नाद्यः । विप्रकृष्टेन सन्निकर्षाभावात् । पुरोवर्तिसंनिकर्षमात्रेणैव भ्रांतित्वांगीकारात् । न द्वितीयः । संस्कारो हि रजतानुभवमाक्षिपेत् । अनुश्च यथार्थो रजतसत्वम् । अत्र प्रतीतस्यैवान्यत्र सत्ता वा कुतः कल्प्या ।

किं च घटांतरे विनष्टोत्पत्स्यमानघटांतरतया यदा प्रत्येति । तदा कथम् । न हि विनष्टोत्पत्स्यमानयोरन्यत्र सत्तास्ति । कालान्तरेस्तीति चेन्न । सत्यं न तस्याभ्रांतावुपयोगं साक्षात्पश्यामः । संस्कारादिना हि तदुपयोगः रजतांतरानुभवमात्रैणैव तद्भविष्यतीति व्यर्था तस्यैवान्यत्र सत्वकल्पना । एतेन प्रवृत्यनुपपत्तिरपि परास्ता ।

किं चासत्प्रतिभासासंभवे तादात्म्यमपि न प्रतिभासेत । तस्यात्राप्यभावात् । धर्मधर्मिभावस्तु वैधर्म्यमात्रम् ।

न चतुर्थः । बाधस्यान्यसत्तया विनानुपपत्यभावात् । अत्रैव रजतत्तानिषेधानुपपत्यान्यत्र सत्वसिद्धिरिति चेन्न । तस्यात्रैव प्राप्तत्वेनोपपत्तेः । एतेन यद्यथावभासते तत्तथैवेत्यादि परास्तम् । असदेवरजतं प्रत्यभादिति रजतासत्व प्रमाणस्योपन्यस्तवात् । तद्विषयसंकोचप्रमाणस्य च निरस्तत्वात् ।

किं सर्वत्रारोप्यमत्यंतासदेव उच्यते । यत्रारोप्यमधिष्टानसंनिहितं तत्र तत्तादात्म्यमात्रमसत् । यथा दूरस्थयोः चूतपनसयोः एक एवायं चूत इति । बाधोत्तरकालमपि स्वरूपद्वयानुवृत्तेः । यत्र तु सन्निहितमारोप्यं तत्र तत्र तादात्म्यं चोभयमप्यद् उक्तन्यायेनेति । तदेवं नैवंविधान्यथाख्यातिवादोप्यनुपपन्नः ।

अपरे पुनः रजतं सदेव किन्तु अंतरेवेति मन्यन्ते तथा हि न तावदसदेवरजतम् । प्रतीत्यनुपपत्तेः । नापि पुरत एव सत् । भ्रांत्यनुपपत्तेः । बाधविरोधाच्च । न च देशांतरेसत् । प्रमाणाभावात् । अतः परिशेषात् ज्ञानाकारमेवावतिष्ठते ।

किं चेदं ज्ञानरूपं इन्द्रियसंप्रयोगेऽसत्यपरोक्षत्वात् ज्ञानवत् न च सत्यत्वे भ्रांत्यनुपपत्तिः । आंतरस्य बाह्यतयावभासो भ्रम इत्यंगीकारात् । तस्य नेदमिति बाह्यता निषेधेनैव बाधकस्य बाधकत्वोपपत्तेरिति । एतच्चानुपपन्नम् । सत्वेऽसदेव रजतमित्यसत्वावेदकप्रत्ययविरोधस्योक्तत्वात् ।

असतः प्रतीत्यनुपपत्तौ च बहिष्टताया अपि प्रतीत्यनुपपत्तिप्रसंगात् । तत्सत्वे भ्रांतित्वानुपपत्तेः । बहिः सत्वमेवासत्प्रत्ययेन प्रतिषिध्यत इति चेन्न । आंतरत्वे प्रमाणाभावात् । इन्द्रियसंप्रयोगमंतरेणापरोक्षत्वस्य हेतोः बाह्यतायामनैकांत्यात् । शुक्तिसंप्रयोगेणापरोक्षतायाः स्वीकारादसिद्धेश्च । दृष्टांतश्च साधनविकलः । ज्ञानस्यापि इन्द्रियसंयोगादेवापरोक्षतांगीकारात् ।

किं च गुंजापुंजादौ दहनादिसमारोपे तस्यान्त सत्वे देहदाहादिप्रसंगः । अन्यथांतरमपि तदसदित्यंतासदेवापन्नमिति नात्मख्यातिपक्षोप्युपपत्तिमान् ।

अन्ये पुनः इदं रजतमिति प्रतीतिरसदालंबेनैवेत्यास्थिताः तथा हि । न तावदिदं सदेव बाधबोध विरोधात् नापि तदसत् । तत्रैव तदैव तस्यैव सदसत्वविरोधात् । देशकालप्रकारव्यवस्थाया सदसत्वांगीकारे घटादि तुल्यतापातात् । किं चैव सति सदिदं रजतमिति ज्ञानं भ्रांतिर्न भवेत् । सत्वस्य विद्यमानत्वात् ।

सदसदात्मकं सत्वेन विषयीकुर्वत्कथं न भ्रांतिरिति चेत् । तत्किमेकदेशदर्शनं भ्रांतिः । तथा च बाधकप्रत्ययोप्यसन्मात्रावलंबी न कथं भ्रांतिः । सदेवेत्यसत्वनिषेधो भ्रांतित्वमिति चेत् । तर्ह्यसदेवेति सत्वप्रतिषेधात् बाधस्यापि भ्रांतितानिस्तारः । तस्मादसदेव विभ्रमालंबनम् ।

न चासतोवभासानुपपत्तिः विवेकाग्रहस्य निस्तरत्वात् अन्यथा ख्यातिवादिभिः असत एव तादात्म्यस्य संसर्गस्य वा प्रतिभासाभ्युपगमात् । विज्ञानाख्यातिवादिभिरपि असत्या एव बाह्यतायाः प्रतीत्यंगीकारात् सत एव प्रतीतिरिति पक्षे न भ्रांतिर्नापि बाध इति ।

अत्रेदं विवेचनीयम् । केनायमसत्ख्यातिरिति । यदि सदेव शुक्तिकासकलदेशकालासद्रजतात्मनावगाहमानं ज्ञानमिति तदानुज्ञया वर्तामहे । यथोक्तम् ।तस्माद्यदन्ययासंतमन्यथा प्रतिपद्यते । तन्निरालंबनं ज्ञानमसदालबनं च तदिति ॥

यदि पुनरिदं रजतमित्यवभासेचकासदसंदेवाखिलमिति । तदसत् । इदंकारास्पदस्य शुक्तिकाशकलस्य प्रागूर्ध्वं च सत्तावगमात् ।

यदि च न तदिदंकारस्पदं तदा न भ्रांतिबाधयोरंगुल्यग्रेण, निर्दिशेत्, नोपादद्यान्न परित्यजेत् ।

किं चास्य कारणं वक्तव्यम् । दुष्टेंद्रियादिकमिति चेन्न । तस्य सन्निकर्षाद्यनपेक्षस्य कारणतायामतिप्रसंगात् । असतोश्च सन्निकर्षायोगात् । शुक्त्यादिना सन्निकर्षोस्तीति चेन्न । तथा सति तत्ज्ञानस्यावर्जनीयत्वात् ॥

अथ संवृतिरेव रजतादि प्रतिभासकाणं तदांधस्यापि असन्निहितेपि शुक्तिशकले किं न स्यात् । अथ काचादिच्छुक्तींद्रियसंनिकर्षोपि संवृतेः सहकारीतिचेन्न । तथात्वे भृतलवच्छुक्तेरपि शुक्तित्वेनावभासप्रसंगात् । दोनिमित्तः शुक्तित्वानवगमपि कारणमिति चेन्न । अधिष्ठानत्वानभ्युपगमे भूतलशुक्तिशकलयोरविशेषेण कस्यानवगमः कारणमिति विवेक्तुमशक्यत्वात् । अपि चासदेव रजतमवभासमानं न तावदसत्तयैव भासते । अर्थक्रियानह्रे प्रवृत्यनुपपत्तेः । सत्तया प्रतिभासेत्वन्यथाख्यातिरंगीकृतेति शुक्तिरेव रूप्यतयाऽवभासत इति कुतोनंगीकरणीयम् । तथा सत्यंगुल्यग्रनिर्देशादयोप्यनुकूलितास्युः ।

केशोंन्डुकाहि विभ्रमस्तर्हि कथमिति चेत् । सोऽपि तेजःप्रभृतिद्रव्यमालंम्बैवेति वदामः । तस्मात् नैवंविधासत्ख्यातिपक्षोऽपि साधीयान् ॥

इति अख्यातिवादः समाप्तः