प्रपञ्चमिथ्यात्वसाधनं यत्तद् दूषयितुं तत्त्व-वादाचार्योऽनुवदति
श्री पद्मनाभतीर्थविरचिता
प्रपञ्चमिथ्यात्वानुमानखण्डनटीका
।। ॐ वेदव्यासाय नमः ॐ ।।
हरिः ॐ ।। प्रपञ्चमिथ्यात्वसाधनं यत्तद् दूषयितुं तत्त्व-वादाचार्योऽनुवदति ।। विमतमिति ।। विमतं विवादाध्यासितं मिथ्यात्वेन लोकसिद्धरज्जुसर्पादिव्यतिरिक्तं गगनादिकं जगन्-मिथ्या दृश्यत्वाद्यद्यद्दृश्यं तत्तन्मिथ्याभूतं दृष्टं यथा शुक्तिरजत-मित्येतदनुमानं निरूपयति ।। जगतोऽभावादाश्रयासिद्धः पक्षः इत्यादिना ।। पक्षशब्देनात्र मिथ्यात्वाख्यसाध्यधर्मस्तावदुच्यते । प्रपञ्चश्च पक्षशब्देनोच्यते । साध्यधर्मविशिष्टस्यापि पक्षत्वात् । पक्षोऽयमप्रसिद्धविशेषणस्सदसद्विलक्षणरूपमिथ्यात्वस्य माया-वाद्यभिमतस्य शुक्तिरजतादावप्रसिद्धत्वात् । सदसद्विलक्षणः प्रपञ्च इत्युक्ते सिद्धसाधनता दोषस्स्यात् ।
जगन्मिथ्येति प्रतिज्ञायां दृश्यत्वस्यापि जगदन्तर्भूतत्वेन मिथ्यात्वापातात् दृश्यत्वहेतुरसिद्धस्स्यात् ।। अनिर्वचनीया-सिद्धेरेव सपक्षाभावाद्विरुद्ध इति ।। विमतं मिथ्या दृश्यत्वा-च्छुक्तिरजतवदिति मायिप्रयुक्तदृश्यत्वहेतोरात्मन्यपि वर्तमान-त्वादसावनैकान्तिक इत्याह ।। आत्मनोऽपि दृश्यत्वादनैकान्तिक इति ।। प्रतिज्ञोदाहरणादेरपि दृश्यत्वेन मिथ्यात्वापादकत्वा-त्तर्कबाधित इति न दृश्यत्वहेतुर्जगन्मिथ्यात्वाध्यवसायक इत्याह ।। जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधि-तत्वेनानध्यवसित इति ।।
प्रत्यक्षागमादिविरुद्धश्चायं जगन्मिथ्यात्वानुमापको दृश्यत्व-हेतुरित्याह ।। प्रत्यक्षादीति ।। जगन्मिथ्यात्वे प्रयुक्ते दृश्यत्व-हेतोरात्मवज्जगत्सत्यत्वेऽपि प्रयोक्तुं शक्यत्वादसौ दृश्यत्वहेतुः प्रकरणसमो भवेत् । शुक्तिरजतस्याभावान्न तत्र हेतोर्व्यभिचार-श्शङ्कनीयः । न ह्यसति शुक्तिरजते तद्दृश्यत्वं सदिति वक्तुं शक्यते तदाह ।। रजतं दृष्टमिति भ्रममात्रत्वादित्यादिना ।। आत्मवज्जगत्सत्यत्वसाधके न प्रमाणदृष्टत्वश्रुतिरित्यादिना स-प्रतिसाधनत्वान्न मिथ्यात्वं दृश्यत्वहेतुर्जगन्मिथ्यात्वं साधयती-त्याह ।। विमतं सत्यं प्रमाणदृष्टत्वादिति ।।
जगदनिर्वचनीयत्वे शुक्तिरजतादेर्न दृष्टान्तत्वं युज्यते । साध्य-विकलत्वात् । न हि शुक्तिरजतस्यानिर्वचनीयत्वमस्ति । असत्वेन निरुच्यमानत्वात् । अनिर्वचनीयदृश्यत्वाभावात्साधन विकलत्वं स्याच्छुक्तिरजतदृष्टान्तस्य तदाह ।। शुक्तिरजत स्येत्यादिना ।। शुक्तिरजतवज्जगन्मिथ्यात्वं न दृश्यत्वहेतु-स्साधयति प्रमाणविरुद्धत्वेन सोपाधिकत्वान्नेदं रजतमित्यादि प्रमाणविरुद्धत्वप्रयुक्तं मिथ्यात्वं शुक्तिरजतादौ न दृश्यत्व-प्रयुक्तम् । अतः प्रत्यक्षादिप्रमाणविरुद्धं निवर्तमानं जगत-स्सकाशान्मिथ्यात्वं निवर्तयतीत्याह ।। प्रमाणविरुद्धत्व-मुपाधिरिति ।।
पक्षसपक्षादिव्यवहारार्थं पक्षादिस्वरूपं निर्दिशति ।। साध्य-धर्मविशिष्टः पक्ष इत्यादिना ।। यद्दृश्यं तन्मिथ्येत्येतदनुमानं दूषयित्वा दृश्यते त्वग्र्यया बुध्द्येत्यादिश्रुतिसिद्धं विष्णुं प्रणमति ।। यो दृश्यत इति ।।
श्रीमदानन्दतीर्थभगवत्पादविरचितमिथ्यात्वानुमानखण्डनटीका श्रीपद्मनाभतीर्थभट्टारकविरचिता समाप्ता ।