विमतं मिथ्या, दृश्यत्वात्..
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्
प्रपञ्चमिथ्यात्वानुमानखण्डनम्(मूल)
ॐ ।। विमतं मिथ्या, दृश्यत्वात्, यदित्थं तत् तथा यथा सम्प्रतिपन्नम् । इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्षः । अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः । सदसद्वै-लक्षण्ये मिथ्यात्वे सिद्धसाधनता ।
दृश्यत्वाभावादसिद्धो हेतुः । अनिर्वचनीयासिद्धेरेव सपक्षाभावाद् विरुद्धः । आत्मनोऽपि दृश्यत्वा-दनैकान्तिकः । जगतोऽभावेऽनुमानस्याप्यभाव इति तर्क-बाधितत्वेनानध्यवसितः ।
प्रत्यक्षादिविरुद्धत्वात्, ‘विश्वं सत्यम्’ इत्यादिवाक्य-विरुद्धत्वाच्च कालात्ययापदिष्टः । ‘रजतं दृष्टम्’ इति भ्रममात्रत्वात्, ‘विमतं सत्यं दृश्यत्वादात्मवत्’ इत्यपि प्रयोज्यत्वात् प्रकरणसमः । विमतं सत्यं प्रमाणदृष्टत्वात् यदित्थं तत्तथा यथाऽऽत्मा इति प्रयोगात् सप्रतिसाधनः ।
शुक्तिरजतस्याप्यनिर्वचनीयत्वाभावात् साध्यविकलो दृष्टान्तः । उक्तप्रकारेण दृश्यत्वाभावात् साधन-विकलश्च । प्रमाणविरुद्धत्वमुपाधिः ।।
साध्यधर्मविशिष्टः पक्षः । साध्यसमानधर्मविशिष्टः सपक्षः । साध्यविपरीतधर्मविशिष्टो विपक्षः । पक्षवचनं प्रतिज्ञा । लिङ्गं हेतुः । निदर्शनं दृष्टान्तः ।।
यो दृश्यते सदानन्दनित्यव्यक्तचिदात्मना ।
निर्दोषाखिलकल्याणगुणं वन्दे रमापतिम् ।।
सत्यसृष्टिस्थितिलयप्रकाशनियतिप्रदः ।
निखिलज्ञोऽज्ञजनतानियन्ता यो हरिं नुमः ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
प्रपञ्चमिथ्यात्वानुमानखण्डनं सम्पूर्णम् ।।