अमानवशा-दीशस्य संसारित्वमिति यन्मायिमतं ..

श्रीपद्मनाभतीर्थभट्टारकविरचिता

उपाधिखण्डनटीका

।। ॐ श्री वेदव्यासाय नमः ॐ ।। हरिः ॐ ।। अमानवशा-दीशस्य संसारित्वमिति यन्मायिमतं तत्पूर्वश्लोकोक्ताशेषदोषो-ज्झितत्वसिध्द्यर्थं निराकरोति ।। अज्ञताऽखिलसंवेत्तुरित्यादिना ।। सर्वज्ञत्वादिलक्षणमीश्वरत्वमसर्वज्ञत्वादिलक्षणं संसारित्वमेकस्यैवो- पाधिवशाद्युज्यत इति न वाच्यम् । उपाधेर्निरूपयितुमशक्यत्वात् । तथा हि– जीवेश्वरभेदोपपादकोपाधिरनध्यस्तो वा स्यादज्ञान-कल्पितो वा । अनध्यस्तश्चेदद्वैतभङ्गस्स्यात् । आत्मातिरेकेणोपाधे-स्सत्यत्वाङ्गीकारात् । अज्ञानहेतुकश्चेदुपाधिरनवस्था स्यादन्यो-न्याश्रयत्वं वा स्याच्चक्रकापत्तिर्वा स्यात् । अज्ञानस्याऽस्वत-स्सिद्धत्वात् । तथा हि । यदज्ञानमुपाधिकल्पितं तदप्यज्ञानान्तर-कल्पितम् । तदप्यज्ञानमज्ञानान्तरकल्पितमित्यनवस्था । अज्ञान-सिद्धावज्ञानकल्पितजीवसिद्धिर्जीवसिद्धौ तदाश्रयाज्ञानसिद्धिरित्य-न्योन्याश्रयत्वम् । अज्ञानसिद्धावध्यस्तोपाधिसिद्धिरुपाधिसिद्धा-वुपाध्युपहितजीवसिद्धिर्जीवसिद्धौ तदाश्रयाज्ञानसिद्धिरिति चक्रकम् । अज्ञानस्य स्वतस्सिद्धौ ब्रह्मवदनिवृत्तिस्स्यात् । स्वतस्सिद्धस्य मायिनाऽनिवृत्यङ्गीकारादित्यर्थः ।

इतोऽपि नोपाधिकृतो जीवेश्वरभेद इत्याह ।। भेदश्चोपाधितः कुत इत्यादिना ।। न च मठाकाशमहानसाकाशवदुपाधिवशा-त्सुरनरादिजीवेशभेदो युज्यत इति वाच्यम् । मठाकाशाद्याकाशानां स्वभावत एव परस्परभिन्नत्वात् । स्वतो विद्यमानानेवाकाश-प्रदेशविशेषानालोकादिप्रदेशविशेषाविव विविच्य घटाद्युपाधयो ज्ञापयन्तीत्यङ्गीकर्तव्यम् । स्वतस्सिद्धप्रदेशविशेषाभावे घटा-द्युपाधेराकाशस्य संयोगो न स्यात् । एकदेशवृत्तित्वात्संयोगस्या-कृत्स्नाकाशवर्तिघटसंयोगश्च मठाकाशे न स्यात् । घटेनैव कृत्स्नाकाशस्य ग्रस्तत्वात् । उपाध्यन्तरकल्पिताकाशस्यैकदेश-वृत्तित्वे घटसंयोगसम्बन्धस्याप्युपाध्यन्तरकल्पिताकाशस्यैक-देशवृत्तित्वमित्यनवस्था स्यात् । एतदाकाशप्रदेशात्सम्बन्धस्यात्र घटाकाशव्यवहारजनकत्वे देशान्तरस्य घटस्यात्र घटाकाश-व्यवहारजनकत्वं स्यादित्यर्थः ।

सुखदुःखादिव्यवस्थान्यथाऽनुपपत्त्याऽमरनरादीशभेदस्स्वाभाविक एव । न तूपाधिकल्पित इत्याह ।। सुखदुःखादिभोगश्चेत्यादिना ।। यथा चेतनस्यैकत्वेन शिरश्चरणादिभेदेऽपि तत्तद्गतसुखदुःखाद्यनु-सन्धानं अथाचेतनस्योक्तत्वेन शिरश्चरणादिभेदेऽपि तत्तद्गत-सुखदुःखाद्यनुसन्धानं दृश्यते पादे मे सुखं, शिरसि मे वेदनेति । यथा सौभर्यादेर्योगप्रभावेन बहुशरीरग्रहणसमर्थस्य नानादेहगत-सुखदुःखाद्यनुसन्धानं दृश्यते । बहुशरीराधिष्ठातुर्योगिन एकत्वात् । एवं सुरनराद्यनेकोपाधिसम्बन्धस्यैकत्वे सुरनरादिगतसुख-दुःखाद्यनुसन्धानं स्यात् । न च बहुशरीरगतसुखदुःखाद्यनुसन्धानं योगिनो नास्तीति वाच्यम् । बहुशरीरग्रहणकामस्य वैय्यर्थ्यापत्तेः । न च सत्तया शरीराद्युपसंयुज्यते । भोगसाधनत्वरहितशरीराणा-मनन्तानां लोकसिद्धत्वेन योगिनः पृथक्बहुशरीरग्रहणवैय्यर्थ्या-पत्तेरित्यर्थः ।

आत्मन्यविद्यमानभेदापादकोपाधिभेदस्याज्ञानतस्सिद्धिर्हि निराकृता प्राक् । अधुना सिंहावलोकनन्यायेन कर्मभेदात्तत्सिद्धिरित्ये-तद्दूषयति ।। सिद्धौ हि कर्मभेदस्येति ।। न च जीवेशयोर्जीवानां परस्परं स्वाभाविकभेद इत्यङ्गीकार औपाधिकभेदपक्षोक्तानव-स्थित्यादिदूषणोद्भावनं कर्तुं शक्यते । तस्मादौपाधिको जीवेश-भेदस्तदुपाधिपूर्वकः प्रपञ्चो मिथ्येत्ययं पक्षस्सर्वोऽपि दुष्ट एव प्रत्यक्षादिप्रमाणविरोधाच्चेत्याह ।। आत्मस्वभावभेदस्येति ।।

जीवेशयोर्जीवानां च परस्परं भेदं प्रमाणैस्साधयति ।। चेष्टालिङ्गेनेत्यादिना ।। स्वात्मनि तावदहं सुखी दुःखीत्याद्यनु-भवसिद्धे परदेहगताः जीवास्त्वनुमानेन सिद्ध्यन्ति । तत्तद्देहा-स्सात्मकाः प्राणादिमत्वात्स्वदेहवदित्यनुमानात् । एवमनुमितेभ्यो जीवेभ्यो भेदस्स्वात्मनोऽनुभवसिद्धः । न ह्येते जीवा अहमिति कस्यचिदनुभवोऽस्ति । सर्वज्ञत्वसर्वशक्तिमत्त्वादिगुणविशिष्ट-त्वाद्यस्सर्वज्ञः स सर्वविदित्यादिश्रुतिसिद्धादीश्वरादपि भेदो जीवस्यानुभवसिद्धः । अल्पज्ञत्वाल्पशक्तिमत्वदुःखित्वेन जीव-स्यानुभूयमानत्वात् । न च सर्वज्ञत्वसर्वशक्तिमत्वादेरीश्वरमहिम्नो मिथ्यात्वं वक्तुं शक्यते । सत्यस्सो अस्य महिमेत्यादिविरोधात् । न च ‘‘साक्षी चेता केवलो निर्गुणश्चे’’ति श्रुत्येश्वरो निर्गुण इति वाच्यम् । निर्गुणशब्दस्यात्र सत्वरजस्तमोगुणराहित्यपरतयो-पपन्नत्वेनेश्वरमहिमाऽनिषेधकत्वात् । अन्यथा यस्सर्वज्ञ इत्यादि श्रुतिविरोधात् । यत्किञ्चिदनुमानं महिम्नो मिथ्यात्वे प्रमाणम् । श्रुतिबाधितविषयत्वेनानुमानस्याप्रामाण्यादित्यर्थः ।

अधुना जीवेशाभेदमतेऽधिकारिविषयप्रयोजनासम्भवमाह ।। अतोऽज्ञासम्भवादेवेत्यादिना ।। ब्रह्मणस्सर्वज्ञस्याज्ञानं न सम्भवतीत्युक्तत्वात्ततोऽन्यस्याज्ञस्य जीवस्याभावादज्ञो जिज्ञासु-रधिकारी तन्मते न सम्भवति । अज्ञानस्यासम्भवेनाज्ञातो ज्ञातव्यो विषयो विषयान्तरे देशान्तरे त्वेष्टव्यो न तु माया-वादेऽधिकार्यसम्भवेनाज्ञाननिवृत्तिलक्षणं वा फलं न कस्यचिद्विद्यते । शशनृशृृङ्गयोरिवा विद्यमानानामधिकारिविषयप्रयोजनानां न कश्चित्सम्बन्धो घटत इत्यर्थः ।

दुर्घटत्वं भूषणं चेत्यस्यायमर्थः । अविद्यायास्तावद् दुर्घट-स्वभावोऽवगम्यते । स्वशिरच्छेदनादेर्द्रष्टुमयोग्यस्यापि स्वप्नादाव-विद्याप्रभावेन दृष्टत्वात् । एवं दुर्घटाविद्ययैव सर्वज्ञस्स्वयं प्रकाशोऽप्यज्ञो भविष्यति । तथा तयैवाज्ञोऽधिकार्यज्ञातो विषय-श्चेऽत्यादि युज्यत इत्यङ्गीकारे दुर्घटघटकाविद्याया एवात्मनोऽप्य-विद्यात्वं तथा तयैव मायिनामन्धन्तमोऽलङ्कारो नित्यदुःखं शिरोमणिश्च स्यात् । न हि दुर्घटाविद्यया घटमानं न घटत इति वक्तुं शक्यत इति ।

विषयाधिकारिप्रयोजनसम्बन्धास्तत्ववादे दर्शयति ।। अतः पर इत्यादिना ।। अस्यार्थः सर्वोत्तमो विष्णुर्विषयः । तमीश्वरं स्वात्मादिभ्योऽत्यन्तभिन्नत्वेन स्वयं तस्मादत्यन्तभिन्नस्सन्स्व-सेवया यः पश्यति सोऽधिकारी । तस्मै यथायोग्यं स्वात्मसादृश्यं भगवान्विष्णुर्ददाति । तत्सादृश्यलाभ एव मोक्षाख्यं प्रयोजनम् । विषयभूतस्य विष्णोर्मोक्षस्य दातृदेयभावलक्षणसम्बन्धस्तदिदं सर्वं दृश्यते ।

परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।

न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमाप ।।

इत्यादिश्रुतौ भवद्भूतभविष्यद्ब्रह्मरुद्राद्यप्राप्यमाहात्म्यो विष्णुः प्रतिपाद्यते । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इत्यादिश्रुत्याऽयमर्थ उच्यते । इत्युक्तप्रकारेण जुष्टं सेवितं च यदाऽस्य जीवादेरीशं महात्मानं स्वात्मादिभ्योऽन्यं पश्यति तदा वीतशोको भवतीति ।

यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।

तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।।

इति यदेतच्छ्रुतेर्मोक्षादिफलदातृत्वं चात्र विष्णोः फलमत उपपत्तेः पुण्येन पुण्यं लोकं नयतीत्यादिवचनसिद्धमवगन्तव्यम् ।

मायावादिनिराकरणस्य प्रयोजनमाह ।। मायावादेति ।। यथा हनुमद्भीमसेनौ सुरारिसंहरणाख्यजगद्धितकरणेन श्रीपतेः प्रीतिं जनयामासतुरेवं श्रीमदानन्दतीर्थाख्यस्सर्वज्ञसूर्योऽपि श्रीपति- प्रतिपक्षभूतमायावादतमोनिरसनाख्यजगद्धितकरणेन श्रीपतेः प्रीतिं जनयामासेत्युक्तं भवति । यथा सूर्येण तमोव्याप्तं जगत्स्वप्रभया भासते एवं तत्वदृशा पूर्णप्रज्ञाख्यसर्वज्ञसूर्येण मायावदतमोव्याप्तं जगदित्युक्तप्रकारेण श्रीपतिप्रीत्यर्थमवभासितमित्यर्थः । यच्चोक्तं–

द्रवत द्रवताशु मायिनः प्रविशध्वमतन्द्रिता गुहाः ।

कमलारमणाम्बराश्रयस्समुदेत्यखिलज्ञभास्करः ।।

इति । नारायणस्य निर्गुणत्वनिराकारत्वप्रतिपादकं मायावादं निरस्य यदा पश्यः पश्यते रुग्मवर्णमित्यादिश्रुत्युक्तप्रकारसिद्धं नारायणं नमति ।। नम इति ।।

श्रीमत्पद्मनाभतीर्थभट्टारकविरचिता

उपाधिखण्डनटीका तत्वप्रकाशिकाख्या समाप्ता ।।