य इज्यते विधीशानशक्रपूर्वैस्सदा मखैः । रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः ॥
॥ श्रीदिग्विजयरामो विजयते ॥
मङ्गलाचरणं
कर्मनिर्णय:
य इज्यते विधीशानशक्रपूर्वैस्सदा मखैः ।
रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः ॥
कर्मनिर्णयटीका
ब्राह्मणोपनिषन्मन्त्रभेदा वेदगिरोऽखिलाः ।
यत्क्रीडाभूमयस्तस्मै परस्मै ब्रह्मणे नमः ||
प्रणम्य श्रीमदानन्दतीर्थार्यपदपङ्कजे ।
गुरूणां च यथाबोधं व्याकुर्वे कर्मनिर्णयम् ॥
कर्मविजयः
मूलदिग्विजयौ रामौ व्यासं नत्वा तथा गुरून् ।
कर्मनिर्णयटीकायास्साधुत्वं स्थाप्यते मया ॥
सर्वकर्मपरकर्तृभावतस्सर्वकर्मफलदातृभावतः ।
सर्वकर्मफलभोक्तृभावतः कर्मनामहरये नमो नमः ||
कर्मणां सर्वजीवानामुत्तमः कर्मकर्मकः १
कर्मणां सिद्धिदः कर्मनामा मध्वोऽवताद्धि माम् ॥
कर्मत्यागेऽपि कर्मेशप्रीत्यर्थं कर्मयोगिनः ।
पद्मनाभनृहर्यर्यमाधवाक्षोभ्यसूरिणः ॥
(१ कर्माणि = वेदाद्युक्तानि सर्वाणि कर्माणि कर्माणि = कार्याणि यस्य सः कर्मकर्मकः । कर्म कर्मनामको भगवान्, कर्म कर्ता, माता = लयकर्ता, ज्ञाता, अन्तर्णतणिच ज्ञापयिता वा यस्य सः कर्मकर्मकः ।
२ कर्मत्यागे = ज्योतिष्टोमादिकर्मत्यागे ।
३ कर्मयोगिनः = जपव्याख्यानहरिपूजादिरूपनिष्कामकर्मयोगिनः ।)
कर्मनिर्णयटीकातः पद्यमालादितोऽपि च ।
कर्मनिर्णयकर्तारं जयार्यं च नमाम्यहम् ।।
कर्मन्दिवर्यान् विद्याधिराजादिगुरुपुङ्गवान् ।
कर्मनिर्णयटीकाया भावबोधार्थमाभजे ||
कर्मन्दित्वप्रदान् कर्मन्यासवर्त्मप्रदर्शकान् ।
सत्यप्रमोदसुगुरून् नौमि सत्कर्मसिद्धये ॥
कर्मनिर्णयटीकाया व्याख्यां भावप्रकाशिकाम् ।
कर्मादिविजयाख्यासम्भूषितां च करोम्यहम् ||