जयताज्जानकीजानिः कल्याणगुणवारिधिः । दुर्वादिमतविच्छित्तौ प्रेरयन्मन्मनः सदा
ॐ || श्रीदिग्विजयरामो विजयते ||
|| अद्वैतखण्डनपूर्वक चंद्रिकामंडनम् ॥
मङ्गलम्
जयताज्जानकीजानिः कल्याणगुणवारिधिः ।
दुर्वादिमतविच्छित्तौ प्रेरयन्मन्मनः सदा ॥१॥
मायावादतमोव्याप्तिरंजसा येन वारिता ।
प्रकाशितं च तत्वं तं भजे मध्वदिवाकरम् ॥२॥
यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।
लभंते मानुषा नूनं तान्जयादिगुरून्भजे ||३||
श्रीसत्यध्यानतीर्थार्थः रामसुब्बेन मायिना ।
यया धिया प्रतिज्ञातं चंद्रिकाचालनं मुधा ॥४॥
सा चंद्रिकाचालनधीरमुष्य शशांकसंचालनधीः सुतस्य ।
अङ्के शयानस्य यथा जनन्याः तथाविधेति प्रकटीकरोति ॥५॥