नरसिंहमखिलाज्ञानतिमिराशिशिरद्युतिम् । सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा

कथालक्षणम्

नरसिंहमखिलाज्ञानतिमिराशिशिरद्युतिम् ।

सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा ॥1

वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा ।

तत्त्वनिर्णयमुद्दिश्य केवलं गुरुशिष्ययोः ॥2

कथान्येषामपि सतां वादो वा समितेः शुभा ।

ख्यात्याद्यर्थं स्पर्धया वा सतां जल्प इतीर्यते ॥3

वितण्डा तु सतामन्यैस्तत्त्वमेषु निगूहितम् ।

स्वयं वा प्राश्निकैर्वादे चिन्तयेत् तत्त्वनिर्णयम् ॥4

रागद्वेषविहीनास्तु सर्वविद्याविशारदाः ।

प्राश्निका इति सम्प्रोक्ता विषमा एक एव वा ॥5

अशेषसंशयच्छेत्ता निःसंशय उदारधीः ।

एकश्चेत् प्राश्निको ज्ञेयः सर्वदोषविवर्जितः ॥6

एको वा बहवो वा स्युर्विष्णुभक्तिपरास्सदा ।

विष्णुभक्तिर्हि सर्वेषां सद्गुणानां स्वलक्षणम् ॥7

पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये ।

नैषा तर्केणापनेया मतिरित्याह हि श्रुतिः ।

अन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिना ॥8

ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम् ।

मूलरामायणं चैव सम्प्रोच्यन्ते सदागमाः ॥9

अनुकूला य एतेषां ते च प्रोक्तास्सदागमाः ।

अन्ये दुरागमा नाम तैर्न साध्यं हि साध्यते ॥10

स्वपक्ष आगमश्चैव वक्तव्यः प्रतिवादिना ।

तस्याप्यन्यार्थता साध्या वादिना स्वार्थसिद्धये ॥11

अन्यार्थता निराकार्या स्वागमस्य विनिश्चयम् ।

उपपत्त्यवकाशोत्र ह्यागमार्थविनिर्णये ॥12

वाद्यागमार्थे निर्णीत आगमार्थः परस्य तु ।

निर्णेयः सहितैः पश्चात्ततो निश्शेषनिर्णयः ॥13

प्रत्यक्षसिद्धेष्वर्थेषु प्रश्ने मामक्षजं वदेत् ।

ज्ञानं वा ज्ञानसिद्धेषु नानुमां प्रथमं वदेत् ॥14

परतुष्टिकरं वाक्यं वदेतां यदि वादिनी ।

स एवात्रागमो ज्ञेयः परतुष्टिर्हि तत्फलम् ॥15

एवं निर्णयपर्यन्तं वादे सुबहवोपि हि ।

घटेयुश्चिरकालं च जल्पे यावत्परो जितः ॥16

तत्त्वनिर्णयवैलोम्यं वादे साक्षात्पराजयः ।

संवादे श्लाघ्यतैव स्याद् गुरुत्वमितरस्य च ॥17

तत्त्वनिर्णयवैलोम्ये निन्द्यो दण्ड्योथवा भवेत् ।

विरोधासङ्गतिन्यूनतूष्णीम्भावादिकैर्जितः ॥18

भवेज्जल्पे वितण्डायां न्यायो जल्पवदीरितः ।

संवादे दण्ड्यतां न स्याद् वितण्डाजल्पयोरपि ॥19

पराजितत्वमात्रं स्यान्निन्द्यो दण्ड्योपि वान्यथा ।

अनुवादादिराहित्यं नैव जल्पेपि दूषणम् ॥20

विद्याहीनत्वलिङ्गेपि वादिनोः स्यात् पराजयः ।

तदभावान्नैव षट्कादन्यो निग्रह इष्यते ॥21

अन्तर्भावादिहान्येषां निग्रहाणामिति स्म ह ।

विद्यापरीक्षापूर्वैव वृत्तिर्जल्पवितण्डयोः ॥22

स्खलितात्वादिमात्रेण न तत्रापि पराजयः ।

वादजल्पवितण्डानामिति शुद्धं स्वलक्षणम् ॥23

आनन्दतीर्थमुनिना ब्रह्मतर्कानुसारतः ।

कथालक्षणमित्युक्तं प्रीत्यर्थं शार्ङ्गधन्वनः ॥24

सदोदितामितज्ञानपूरवारितहृत्तमाः ।

नरसिंहः प्रियतमः प्रीयतां पुरुषोत्तमः ॥25

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं कथालक्षणम् ॥